नागकेशर
nāgakeśaraपुं · masc.In 3 kośas: 2 synonym verses, 13 as a meaning of another word.
नागकेशरचाम्पेयकेमराः काञ्चनाह्वयः ।स्यात् पुष्परोचनो नागपुष्पो नागोऽपि च कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
दाडिम्बः पर्वरुट् च स्यात्स्वाद्वम्लः शुकवल्लभः ।पिण्डीरोऽथ सुवर्णेभनागाख्यो नागकेशरः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
नागकेशर as a meaning in nānārtha verses
- धरणिकोश कनककनकौ हेमधुस्तूरौ नागकेशरचम्पकौ । खनको दारणकरी खनको मूषिकः स्मृतः ॥ Dharaṇikośa 1.2.38
- धरणिकोश काञ्चनकाञ्चनं कनके प्रोक्तं चम्पके नागकेशरे । धूस्तूरे काञ्चनं प्राहुर्हरिता काञ्चनी स्मृता ॥ Dharaṇikośa 19.3.23
- धरणिकोश चाम्पेयचाम्पेयश्चम्पके ख्यातश्चाम्पेयो नागकेशरे । कालेयो दैत्यभेदे स्यात्कालेयं कालखण्डकम् ॥ Dharaṇikośa 25.2.31
- धरणिकोश केशरकेशरो बकुले सिंहच्छटायां शम्पपक्षिणि । नागकेशरपुंनागौ केशरौ परिकीर्तितौ ॥ Dharaṇikośa 26.3.31
- शब्दरत्नावली कनककनकः किंशुके नागकेशरे धूस्तूरेऽपि च । काञ्चनेऽपि च कालीये चाम्पके हेम्नि न द्वयोः ॥ Śabdaratnāvalī 7.1.38
- शब्दरत्नावली दलाटकस्वयं जाते तिले पृश्न्यां गैरिके नागकेशरे । महत्तरे च फेसो च खातके च दलाटकः ॥ Śabdaratnāvalī 7.1.175
- शब्दरत्नावली नागदेहवायुभिदि श्रेष्ठे पुन्नागे नागकेशरे । स्यात्पिङ्गा चण्डिका हिङ्गु नाडीगोरचनासु च ॥ Śabdaratnāvalī 7.3.9
- शब्दरत्नावली काञ्चनकर्तनं न द्वयोश्छेदे स्त्रीणां सूत्रादिनिर्मितौ । काञ्चनश्चम्पके नागकेशरे काञ्चनालके ॥ Śabdaratnāvalī 7.20.42
- शब्दरत्नावली केशरिन्आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
- शब्दरत्नावली नागपुष्पउपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु । जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् ॥ नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे । परिवापो जलस्थाने पर्याप्तौ च परिच्छदे ॥ परितापः पुमान् दुःखे शोके च नरकान्तरे ॥ Śabdaratnāvalī 7.21.21
- त्रिकाण्डशेष कनककुलीने चाथ कनकं धुस्तूरे नागकेशरे । चम्पके किंशुके हेम्नि कृषकौ फालकर्षकौ ॥ ११ ॥ Trikāṇḍaśeṣa 3.3.11
- त्रिकाण्डशेष काञ्चनकाञ्चनं तु हेम्नि नागकेशरे काञ्चनी निशा । धातुवादरते कांस्यकारे कारन्धमी नरि ॥ २३५ ॥ Trikāṇḍaśeṣa 3.3.235
- त्रिकाण्डशेष केशरउग्रोत्यजे शिवेऽत्युच्चे उस्रो दीप्तौ गवि स्त्रियाम् । सिंहजटासु पुन्नागे बकुले नागकेशरे ॥ ३३३ ॥ Trikāṇḍaśeṣa 3.3.333