कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चाम्पेय

cāmpeyaपुं · masc.

In 12 kośas: 18 synonym verses, 7 as a nānārtha head word, 5 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.63
कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः ।भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.99
चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.405 · p. 177
चाम्पेयं नागपर्यायकेसरे नागनामकम् ।स्यान्निर्विषात्यपविषा विषहन्त्री विषादिनी ॥ ४०५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.534 · p. 192
गैरिकं वसु कल्याणं रजतं भर्म कर्वुरम् ।चामीकरं जातरूपं चाम्पेयं वित्तमर्जुनम् ॥ ५३४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.49 · p. 131
चाम्पेयं हाटकं भर्म भूरि चामीकरं वसु ।कल्याणं कनकं रुक्मं रिक्थं काञ्चन-कर्बुरे ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 157
चाम्पेयः कनकाह्वः स्यान्नागाह्वो नागकेसरः ।मेरुजो हेमपुष्पः स्यात्केसरः[38a] सर्ववल्लभः ।प्रोक्तः करिकुसुम्भाह्वो नागकेसरचूर्णकः ॥ ७१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.72 · p. 157
चाम्पेयश्चम्पको हेमपुष्पको रम्य-चाम्पकौ ।चञ्चरीकातिथिः स्वर्णसंज्ञः स्याद्वरलब्धकः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.85 · p. 166
त्रिसुगन्धि त्रिगन्धं * केसरं त्वहिकेसरम् ।नागाह्वं नागकिञ्जल्कं चाम्पेयं नागरेणुकम् ॥ ८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.10 · p. 8
चाम्पेयः कुसुमारोग्यः कलिकागन्धफल्यपि ।स्यान्नागकेसरे नागः केसरो हेमकेसरः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.11 · p. 9
दर्वीसहो दुष्प्ररोहश्चाम्पेयः स्कन्धभूषणः ।नागपुष्पः कुम्भफलो हेमसर्पद्विपाह्वयः ॥ ११ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कु (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.99 · p. 64
सूक्ष्मैला बहुला तुत्था द्रविडी त्रुटिरित्यपि ।चाम्पेयं नागपुष्पं तु केसरं नागकेसरम् ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.137 · p. 337
हेमपुष्पकनामायं चम्पाचाम्पेयचम्पकाः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.124 · p. 66
चम्पकः पुष्पगन्धः स्याच्चाम्पेयः कुसुमाधिपः ।हेमपुष्पक हेमाङ्गो गन्धराजक इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.128 · p. 66
नागकेशरचाम्पेयकेमराः काञ्चनाह्वयः ।स्यात् पुष्परोचनो नागपुष्पो नागोऽपि च कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.183 · p. 150
तपनीयं जातरूपं महारजतमभ्रकम् ।अग्निवीजं लोहवरं चाम्पेयमुरुषावकम् ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लो (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.499 · p. 65
बकुलो मञ्जरीहृद्यश्चाम्पेयश्चम्पकोऽस्य तु ।कलिका स्याद्गन्धकली नागः स्यात् काञ्चनाह्वयः ॥ ४९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.500 · p. 65
चाम्पेयः केसरश्चाथ द्वौ पीतनकपीतनौ ।आम्रातके करञ्जस्तु करजो नक्तमालकः ॥ ५०० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.31 · p. 76
कुरुविन्दः पद्मरागो दधीच्यस्थि तु हीरकम् ।स्वर्णं लोहवरं चाऽग्निबीजं चाम्पेयमित्यपि ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.31 · p. 155
चाम्पेयश्चम्पके ख्यातश्चाम्पेयो नागकेशरे ।कालेयो दैत्यभेदे स्यात्कालेयं कालखण्डकम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.66 · p. 296
शैलेयं लवणेऽम्बुधेश्च मुशलीक[न्दे]तथा शैलजेभृङ्गे पुंस्यथ जाह्नवीतनुजनौ गाङ्गेय उक्तः पुमान् ।मुस्तायां कनके कशेरुणि भवेदन्त्येऽथ चामीकरेचाम्पेयं नरि नागकेसरगतं स्याच्चम्पके केसरे ॥ ६६ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.739 · p. 111
यत् स्याच्चमरसम्बन्धि तत्र चाम्पेयवाक् पुनः ।स्वर्णकिञ्जल्कयोश्चापि तथा चम्पकपादपे ॥ ७३९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.740 · p. 111
नागकेसरवृक्षे च पुमान् क्लीबं पुनस्तयोः ।प्रसवेऽथ बुधैरुक्तश्चारणो ना कुशीलवे ॥ ७४० ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चकारादयः Paramānandīyanāmamālā 5.11.183 · p. 185
चिरण्टी तु सुवासिन्यां यौवनाश्रितयोषिति ।चाम्पेयः काञ्चने नागकेसरे चम्पके [22] तरौ ॥ १८३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र यत्रिः Śivakoṣa 21.2.354 · p. 32
अस्त्री स्त्री वनकुलत्थे चाम्पेयो नागकेसरे ।किञ्जत्के चम्पके पुंसि सुवर्णे पुन्नपुंसकम् ॥ ३५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.40 · p. 261
कुलत्थिकासुभगयोः स्त्रियाभक्षिहिते त्रिषु ।चाम्पेयश्चम्बकस्वर्णकिञ्जल्ककेशरेषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable)

चाम्पेय as a meaning in nānārtha verses

  • कोषकल्पतरु कनककनकं तु हेम्नि चाम्पेयचम्पकपलाशककाञ्चनारे । धत्तूरके क्वचन पीतकचन्दनेऽपि स्याद्दानवेऽपि नरको जनको मुनौ च ॥ २३ ॥ Koṣakalpataru 6.1.23
  • कोषकल्पतरु दलाढकपरस्य मर्माण्यभिगन्तरि स्या- द्भट्टारको राज्ञि सुरे मुनौ च । दलाढकः कुञ्जरकर्णकुन्द- चाम्पेयफेनातिमहत्तरेषु ॥ ३२ ॥ Koṣakalpataru 6.1.32
  • कोषकल्पतरु काञ्चनव्यासे कर्णे कन्यकानन्दने च कानीनः स्यात्काननं स्याद्गृहेऽपि । धातुर्वक्त्रे स्याद्वने काञ्चनस्तु चाम्पेये स्याच्चम्पके काञ्चनारे ॥ ६४ ॥ Koṣakalpataru 6.21.64
  • कोषकल्पतरु सुरभिआरम्भः सुरभिः पुमानृतुपतौ गन्धे च गन्धोपले चाम्पेये सुमनःफले च कनके स्त्री शल्लकी गोगतः । सद्गन्धे रुचिरे च वाच्यवदथ ज्ञातौ सनाभिः[30a] समे वर्षाभूर्नरि भेककिंचुलुकयोर्वृश्चीकभेक्योः स्त्रियाम् ॥ ५२ ॥ Koṣakalpataru 6.24.52
  • शिवकोष चलकङ्कोलके च कोला तु पिप्पलीचव्ययोः स्त्रियाम् । चलस्तुरुष्के चाम्पेये जलं वालकनीरयोः ॥ ४४० ॥ Śivakoṣa 23.1.440