इभ
ibhaपुं · masc.In 16 kośas: 16 synonym verses, 11 as a meaning of another word.
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावलः करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ ॥इभः करेणुर्गर्जोऽस्य स्त्री धेनुका वशापि च ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
genderपुंmasc.
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः ।
अनुष्टुप्
genderपुंmasc.
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
संज्ञा हयाश्च तुरगा सप्तागमुनयोऽपि च ।अष्टानीं वसुनागेभहस्तीदन्त्यष्टकुञ्जराः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
निर्लूनः करटी नाग इभः स्तम्बेरमो गजः ।करी मतङ्गजः पद्मी शूर्पकर्णो लतारतः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
भूतेन्द्रियर्तुतर्कर्षिवाजीभवसवो ग्रहाः ।नन्दादिशश्च पङ्क्तिश्च संख्या संज्ञा ह्यनुक्रमात् ॥ ४९६ ॥
अनुष्टुप्
genderपुंmasc.
हस्तीभो द्विपिबो द्विपो द्विरदनो नागः करी [111b] पुष्करीपद्मी पेचकि-पीलु-कुम्भि-करटि-स्तम्बेरमानेकपाः ।मातङ्गश्च मतङ्गजः सुरगजो दन्ती च दन्तावलोवेतण्डश्च मितंगमोऽपि जलकाङ्क्षः सिन्धुरश्चन्दिरः ॥ ८३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
गजो मतङ्गजो हस्ती वारणोऽनेकपः करी ।दन्ती स्तम्बेरमः कुम्भी द्विरदेभमितङ्गमाः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
गजो द्विपस्तथेभोऽसौ कुम्भिकुञ्जरपीलवः ।करटी सिन्धुरो दन्ती दन्तावलमहामृगौ ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
कुञ्जरो वारणो नागो हस्ति स्तम्बेरमो द्विपः ।इभः पद्मी सामयोनिः पीलुः कुम्भी महामृगः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
इभः स्तम्बेरमः कुम्भी दन्ती दन्तावलो द्विपः ।द्विरदः सिन्धुरो नागः सामयोनिर्महामृगः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
हस्ती दन्ती जटी नागो महाकायो महामदः ।इभः कुम्भी जलाकाङ्क्षः सिन्धुरः षष्टिहायनः ॥ २१९९ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्वेरमः शूर्पकर्णः सिन्धुरः सामजः कटी ।अन्तःस्वेद इभः पद्मी वारणः दीर्घमारुतः ॥
अनुष्टुप्
genderपुंmasc.
मातङ्गः करटीभवारणकरिस्तम्बेरमानेकपाःशुण्डालद्विपहस्तिनागमदमुक्शूर्पश्रवःकुजराः ।वेतण्डद्विरदौ महाबलगजौ दन्तावलः सिन्धुरःपद्मी सामभवो रदी च करिणः कुम्भौ शिरःपिण्डकौ ॥ ६९८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 17 कु (wrong syllable)
genderपुंmasc.
दाडिम्बः पर्वरुट् च स्यात्स्वाद्वम्लः शुकवल्लभः ।पिण्डीरोऽथ सुवर्णेभनागाख्यो नागकेशरः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
इभो मतंगजो हस्ती दन्ती कुंभी करी रदी ।स्तंबेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
इभ as a meaning in nānārtha verses
- कोषकल्पतरु शुण्डापीडा स्यादथ षट्क्षणीव्रणभिदोः स्याद्गण्डदूर्वाशिरा- व्याजेर्यासु च नालयन्त्रभिदि * योक्त्री च नाडी मता । रण्डा मूषिकपर्णिका मृतधवा[276b] स्त्री चाथ रुण्डोऽकरे बन्धक्यां मदनिर्भरे तु परवत्स्त्री दन्तिनः स्यात्करे । वेश्यामद्यसरोजिनीषु पयसश्चेभ्यां च शुण्डा मता- Koṣakalpataru 6.12.15
- कोषकल्पतरु गर्जितगर्जित इभेऽतिमत्ते क्लीबे त्वम्भोधरध्वाने । वर्धितमुक्तं प्रसृते छिन्ने संपूरिते तद्वत् ॥ ८६ ॥ Koṣakalpataru 6.16.86
- कोषकल्पतरु वण्ठरकरीरकोशेऽपि च तालपत्रे स्याद्वण्ठरच्छिन्नकरेभ्यवच्च । छदे कपाटेऽप्यररं रणे च करीरवृक्षे कुररः खगे च ॥ ९४ ॥ Koṣakalpataru 6.27.94
- नानार्थार्णवसंक्षेप पीलुफालास्थिखण्डकेऽप्येनं द्वे त्विभे पीयुवाक् तु ना । आदित्ये किरणे काले स्यादुलूके तु स द्वयोः ॥ ७८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.782
- नानार्थार्णवसंक्षेप करेणुकरेणुरिभ्या स्त्री नेभे कर्णिकारद्रुमेऽपि च । कशिपुस्त्वस्त्रियामन्नवस्त्रयोस्तद्द्वयेऽपि च ॥ ४२० ॥ Nānārthārṇavasaṃkṣepa 4.420
- शारदीयाख्यनाममाला हरिश्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे चन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने मार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥ Śāradīyākhyanāmamālā 3.5.128
- शब्दरत्नाकर चक्रपादअर्कानलौ चित्रभानू चक्रपादो रथेभयोः । जने देशे जनपदः चन्द्रेऽक्रेऽग्नौ तमोनुदः ॥ २२०९ ॥ Śabdaratnākara 4.1.2209
- त्रिकाण्डशेष नागनागः श्रेष्ठेभसर्पेषु क्लीबं सीसकरङ्गयोः । वृक्षे स्यात्पुंसि पुन्नागः पतङ्गः शलभे रवौ ॥ ६२ ॥ Trikāṇḍaśeṣa 3.3.62
- त्रिकाण्डशेष वीतछेदे विनाशै विच्छित्तिर्विगतौ वीतनिष्प्रभौ । असारेऽश्वेभयोर्वीतं वीतमङ्कुशकर्मणि ॥ १८४ ॥ Trikāṇḍaśeṣa 3.3.184
- वैजयन्ती कपिकण्ठो गलेऽन्तिके शब्दे कपयोऽर्केभवानराः । गुडभस्मरसाः क्षाराः क्षोदो रजसि पेषणे ॥ १३ ॥ Vaijayantī 6.1.13
- वैजयन्ती विषाणिन्त्रिषु शून्ये च मन्दे च विषाण्युक्षेभशृंगिषु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे न षण् ॥ ७७ ॥ Vaijayantī 7.5.77