निर्गम
nirgamaIn 8 kośas: 0 synonym verses, 15 as a meaning of another word.
निर्गम as a meaning in nānārtha verses
- धरणिकोश निष्क्रमनिष्क्र[69]मो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः । आगमो मूलशास्त्रेऽपि स्यादागमनमागमः ॥ Dharaṇikośa 24.2.15
- कोषकल्पतरु उद्यातिनिरो मोक्षे निर्गमे तु स्यादुदोऽपात्त्वपक्रमे । स्याद्दृश्येऽनोः कलयतिस्तूद उत्क्षेपणार्थकः ॥ २२ ॥ Koṣakalpataru 3.5.22
- कोषकल्पतरु निःपरि+स्थाप्रपरिभ्यां न तङ्वान्स निःपरिभ्यां तु निर्गमे । स्थापयत्यासादयति रेखायति समार्थकाः ॥ ४४ ॥ Koṣakalpataru 3.5.44
- कोषकल्पतरु परिवर्ततेअन्यथात्वेऽपतो घातात्यययोः स परेः परः । पलायने विनिमये निर्गमे वेः समाहृतौ ॥ ६५ ॥ Koṣakalpataru 3.5.65
- कोषकल्पतरु निर्याणसमञ्जसे निर्मितिसारयोश्च दैवेऽपि निर्माणमुशन्ति विज्ञाः । अपाङ्गदेशे करिणां च मोक्षे निर्याणमुक्तं किल निर्गमेऽपि ॥ ३१ ॥ Koṣakalpataru 6.15.31
- नानार्थार्णवसंक्षेप निसर्गस्वभावे सर्जने न्यासे निर्गमेऽप्यजयोऽपठीत् । निष्पावः शिम्बिसंज्ञे स्याद् धान्ये ब्रूते तु यादवः ॥ १११ ॥ Nānārthārṇavasaṃkṣepa 3.2.111
- नानार्थार्णवसंक्षेप निर्याणखण्डनेऽप्यवदाने च निर्याणं त्वपि हस्तिनः । नेत्रान्ते निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥ ४४ ॥ Nānārthārṇavasaṃkṣepa 3.3.44
- नानार्थार्णवसंक्षेप निरृतिनिरृतिस्तु स्त्र्यलक्ष्म्यां स्यान्निर्गमे चाथ भेद्यवत् । गतिहीनेऽथ निद्रालुः सुनिषण्णकसंज्ञके ॥ १०४० ॥ Nānārthārṇavasaṃkṣepa 4.1040
- नानार्थार्णवसंक्षेप निःसरणउपाये निर्गमे द्वारे मरणे भयनिर्गतौ । याने पुरगृहादीनां मुखे निस्तरणं पुनः ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 6.21
- परमानन्दीयनाममाला निष्क्रमनिष्क्रमो निर्गमेऽकुल्ये निकृतोऽन्यत्कृतेऽधमे । नायको रत्नभेदे स्पात्प्रधानस्वामिनोरपि ॥ २७२ ॥ Paramānandīyanāmamālā 5.18.272
- शब्दरत्नावली निष्क्रमतलिमं कुट्टिमे तल्पे वितानचन्द्रहासयोः । निष्क्रमो वृद्धिसंप्राप्तौ दुष्कुले निर्गमेऽपि च ॥ Śabdaratnāvalī 7.25.36
- शब्दरत्नावली द्वारदरी तु कन्दरे स्त्री तु मनागर्थे दराव्ययम् । दस्रः खरेऽश्विनीपुत्रे दारु पिचलकाष्ठयोः ॥ देवदारुणि च द्वारं निर्गमोपाययोरपि । धरी गिरौ कूर्मराजे वसुकार्यासतूलयोः ॥ Śabdaratnāvalī 7.27.15
- शब्दरत्नाकर निर्याणवारणापाङ्गदेशे स्यान्निर्याणं निर्गमे मृतौ । निदाघ ऊष्मणि ग्रीष्मे स्वेदे तापे च घर्मवत् ॥ २११६ ॥ Śabdaratnākara 4.1.2116
- त्रिकाण्डशेष द्वारउपाये निर्गमे द्वारं दारुः स्याद्देवदारु च । दासीसुतोष्ट्रौ दासेरौ देवयात्राऽशने मृतौ ॥ ३५६ ॥ Trikāṇḍaśeṣa 3.3.356
- वैजयन्ती निर्याणनाभीलं नाभिगन्धश्च वंक्षणं च वरस्त्रियाः । निर्याणं हस्तिनेत्रान्ते मरणे निर्गमेऽपि च ॥ १९ ॥ Vaijayantī 7.3.19