कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

पातालकाण्डः · धातुवर्गः (3/5)

वित्तक्षेपे कालयते कालयत्यपि संस्मृतम् ।विक्षेपणे तु किरति संप्रतेर्व्याप्ति-हिंसयोः ॥ ५२ ॥
3.5.52 · p. 61
अनुष्टुप्
प्रत्यूहे चात्त्ववध्वंसेऽथोपाद्वैकृत-हिंसयोः ।विक्षेपेऽतिशयादाङः संकुलत्वे समोऽशुचौ ॥ ५३ ॥
3.5.53 · p. 61
अनुष्टुप्
संसर्गे तु चये न्युद्भ्यां धान्योत्क्षेपेऽपि लेखने ।संघे व्यतेः स संपर्के परेरीहाविवेकयोः ॥ ५४ ॥
3.5.54 · p. 61
अनुष्टुप्
प्रारम्भे मुद्विलेखे तु भक्ष्ये नीडस्य निर्मितौ ।अपात्पक्षिचतुष्पादोः स सुड्वानात्मनेपदी ॥ ५५ ॥
3.5.55 · p. 61
अनुष्टुप्
उपात्तु किरतिः प्रोक्तोऽङ[200a]भ्यासव्यवधावपि ।ससुट्कः स्यात्प्रथमतो हिंसायां च प्रतेस्तथा ॥ ५६ ॥
3.5.56 · p. 61
अनुष्टुप्metre not read in every line
उत्क्षेपे त्वोलण्डयति तथौलण्डति लण्डति ।लण्डयत्यपि तद्वदुलण्डत्युलण्डयत्यपि ॥ ५८ ॥
3.5.58 · p. 61
अनुष्टुप्metre not read in every line
क्षिपते क्षिप्यति चीङ्य(?)स्यति क्षिपतीलति ।डिप्यति स्याड्डिपति च मिनोति मिनुते तथा ॥ ५९ ॥
3.5.59 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नुदति स्यान्नुदति च विस्यतीरयतीरति ।सुवति स्यात्पाथयति क्षपयत्येलयत्यपि ॥ ६० ॥
3.5.60 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पा (wrong syllable)
तथा पाथयते पर्थयति पर्थयतेऽपि च ।स्याज्जोडयत्येलयति लाभयत्यपि पेणति ॥ ६१ ॥
3.5.61 · p. 62
अनुष्टुप्
तथा वर्णयते वर्णयति वर्णयतेऽपि च ।तद्वड्डुम्बयति प्रोक्तं तथा डिम्बयतीति च ॥ ६२ ॥
3.5.62 · p. 62
अनुष्टुप्
प्रेरणे स्याच्चूर्णयति डिपिर्गर्वेऽवतः परः ।निरोऽस्यतिर्वधे त्यागे क्षेपण-प्रतिघातयोः ॥ ६३ ॥
3.5.63 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चू (wrong syllable)
निष्कासने निराकृत्यां निष्ठ्यूतत्वे त्वरागिरि ।परापाभ्यां मारणे नेर्निक्षेपे वेः स विस्तृतौ ॥ ६४ ॥
3.5.64 · p. 62
अनुष्टुप्
व्याप्त्यां**र्व्याकुलत्वे विपत्तौ व्यत्यये व्यतेः ।व्यत्यास उपनेवित्ये(?)संनेः क[200b]र्मपरित्यजि ॥ ६५ ॥
3.5.65 · p. 62
metre not recognised
विपरेर्व्यत्यये मोहे भ्रंशनोल्लुण्ठनेऽधितः ।ऊर्ध्वभावारोपणयोरुत्क्षिप्य न्यास उत्क्षिपिः ॥ ६६ ॥
3.5.66 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
समः संकलने सक्तावभेराभीक्ष्ण्यनिर्मितौ ।समी**परेः पाते परावृत्तौ हतावपि ॥ ६७ ॥
3.5.67 · p. 62
अनुष्टुप्metre not read in every line
अकर्माध्यासकमपि (?) वा तङ्वानुपसर्गतः ।क्षिप्यतिश्चाङो*भर्त्से [अप]कृष्टौ निषेधने ॥ ६३ ॥
3.5.63 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्चा (syllables merged)
भर्त्सने प्रणिधानेऽधेः प्रतेः प्रैषे निराकृतौ ।अधिः क्षेपे******[व्यते?] र्व्यत्यास ईरितः ।विलम्बेऽधेरधिक्षेप उदस्तूर्ध्वगतौ मतः ॥ ६५ ॥
3.5.65 · p. 62
अनुष्टुप्metre not read in every line
परातः स निषेधेऽपात्तिरस्कार उपात्तु सः ।प्रस्तावेऽभिप्रत्यतिभ्यः परस्मैपदवान्भवेत् ॥ ६६ ॥
3.5.66 · p. 62
अनुष्टुप्
परिवृत्तौ मिनोतिर्नेर्दृष्टौ नेर्वर्णिरीरितः ।विनक्ति विङ्क्ते वेवेक्ति वेविक्ते भाजयत्यपि ॥ ६७ ॥
3.5.67 · p. 62
अनुष्टुप्
[ऊनयतेऽप्यू ]नयति परिहाणे समीरितम् ॥ ६८ ॥
3.5.68 · p. 62
उज्झति जहाति धरतेरहयति रहति च बुस्यति त्यजति ।त्यागेऽवतो जहातिह्रासेऽथोच्छति विवासे स्यात् ॥ ६९ ॥
3.5.69 · p. 63
metre not recognised
वेरुच्छिरत्यये[201a]ऽथ स्याद्व्यसति क्षिपतीत्यपि ।मठति स्याद्वसयति वासे वेदयते तथा ॥ ७० ॥
3.5.70 · p. 63
अनुष्टुप्metre not read in every line
वासव्यतिक्रमे तूदो प्राद्वियोगे वसिर्भवेत् ।प्रतेः पदा…वाङः स्यादाक्रमे वेरतिक्रमे ॥ ७१ ॥
3.5.71 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दा (syllables merged)
उपादभुक्तौ प्रत्याङो निवासस्य विपर्यये ।परेराकोटनेऽनोस्तु धूपे वासयतिर्मतः ॥स्नेहवस्तौ च संस्कारे संस्कारे त्वधितः परः ।भरते भरति भृतौ भटत्यथ नितेः परौ ॥बिभर्तिर्भरतिः प्रोक्तौ विनये प्राङ उत्तरौ ।उपायने समृद्धौ तु समोऽथाङो विभूषणे ॥ ७४ ॥
3.5.74 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भ (wrong syllable)
परप्रैष्ये चेटति स्यान्नृत्ये नटति नृत्यति ।तथा नाटयतीति स्यान्निबर्हे स्यादुदो नटिः ॥ ७५ ॥
3.5.75 · p. 63
अनुष्टुप्
कम्पते धवति धावयति र्त्रि(?)वेपते चलति धूनयति स्यात् ।क्ष्मायते धुवति किंच धुनीतेस्याद्धुनाति धुनुते च धुनोति ॥ ७६ ॥
3.5.76 · p. 63
स्वागता
धूनोति धुनुते प्रोक्तं केपते कम्पयत्यपि ।तेपते गेपते कम्पे धवते कम्पतीति च ॥ ७७ ॥
3.5.77 · p. 63
अनुष्टुप्
परेः कम्पि[201b]र्भये चाले कृपायामनुतः परः ।धविरुत्तः परो हर्षेऽथारोहे वडतीति च ॥ ७८ ॥
3.5.78 · p. 63
अनुष्टुप्metre not read in every line
रमते क्रीडति किलत्यूर्द्दते कूर्द्दतेऽपि च ।खूर्दते स्याल्लसति च कुमारयति च स्मृतम् ॥ ७९ ॥
3.5.79 · p. 63
अनुष्टुप्
कीर्णतिः स्याद्विहारेऽभे रमिः कान्ताववादुपात् ।व्याङभिभ्यो निवृत्तौ स नाशेऽतेरतिशायने ॥ ८० ॥
3.5.80 · p. 64
अनुष्टुप्
रमणे व्याङ्परिभ्योऽसौ परस्मैपदवान्भवेत् ।अन्तर्भूतण्यर्थ उपादकर्मापि च यस्तथा ॥ ८१ ॥
3.5.81 · p. 64
अनुष्टुप्
क्रीडतिस्तु समः शब्दे क्रीडावास्योः(?) स आङ्परः ।कर्मप्रवचनीयान्यानुतः संपरितस्तथा ॥ ८२ ॥
3.5.82 · p. 64
अनुष्टुप्
आङः परोऽकूजने तु समोऽसावात्मनेपदी ।वेर्लसिर्भावलीलार्थः उदस्तूद्भासने मतः ॥ ८३ ॥
3.5.83 · p. 64
अनुष्टुप्
अपादक्रीडने स स्याद्भावे हिलति च स्मृतम् ।भावसूचे चुड्डति स्यात्तथा चिल्लति चुल्लति ॥ ८४ ॥
3.5.84 · p. 64
अनुष्टुप्
अवमाने चाद्विलिः स्यात्प्रपरो नर्मकर्मणि ।तेवते देवते दीव्यत्यपि देवनवाचकम् ॥ ८५ ॥
3.5.85 · p. 64
अनुष्टुप्
गूर्दते[202a]गोदते प्रोक्तं गुदक्रीडनवाचकम् ।एलायति खेलायतिकेलायति ललति लडति चलति स्यात् ।गदितमिलायति तद्व-द्धातव एते विलास आख्याताः ॥ ८६ ॥
3.5.86 · p. 64
metre not recognised
आन्दोलयति प्रेङ्खो-लयति च हिन्दोलयत्यर्थे ।वीजयति व्यजने स्या-ल्लासयति शिल्पस्य योगे स्यात् ॥ ८७ ॥
3.5.87 · p. 64
metre not recognised
गात्रस्य घर्षणे कण्डूयति कण्डूयते तथा ।अथ गात्रविनामे स्याज्जम्भते जृम्भते तथा ॥ ८८ ॥
3.5.88 · p. 64
अनुष्टुप्
उदो जृम्भतिरीहायां विकासे वेस्तु विस्तृतौ ।स्फरति स्यात्स्फुरति च स्फुरणे निष्फुरत्यपि ॥ ९० ॥
3.5.90 · p. 64
अनुष्टुप्
सिञ्चत्युक्षति सचतेपिन्वति मिन्वति च सिञ्चते कटति ।जेषति वेषति मेषतिपर्षति वर्षति च सीकते गडति ॥ ९० ॥
3.5.90 · p. 65
metre not recognised
मर्षति मेहति निन्वतिसेकति धारयति शीकते सेके ।अभितः सिञ्चतिरुक्तःसंस्कारे प्रच्युतावुक्तः ॥ ९१ ॥
3.5.91 · p. 65
metre not recognised
आधानकर्मणि नितोगर्वे तूदोन्नसंस्खले मद्दे ।उत्क्षेपे वृषिरभितोव्याप्तौ व्यावर्तने निपरः ॥ ९२ ॥
3.5.92 · p. 65
metre not recognised
घारिस्त्वभेः स्या[202b]त्संस्कारे स्नेहने त्वाङ्परः स्मृतः ।परेरुक्षिः संप्रदाने वर्षणेऽभेस्तु संस्कृतौ ।व्यापने प्रात्तु सेके स्यात्तथा च पशुमारणे ।आसेचने श्च्योतति स्यादथ स्तिम्यति तिम्यति ।उनत्ति क्लिद्यति स्तीम्यत्यपि मर्धति मर्धते ॥ ९३ ॥
3.5.93 · p. 65
अनुष्टुप्metre not read in every line
शुच्यति स्याच्चहयति चपयत्यपि शुच्यते ।आर्द्रीकृत्यामवध्वंसे त्ववात्क्लिदिरुदाहृतः ॥ ९४ ॥
3.5.94 · p. 65
अनुष्टुप्
स्नेहयति स्नेहयतेक्ष्विद्यति मेद्यति च मेदते तिलति ।मिन्दयते मिन्दयतिप्रुष्णाति स्वेदते तद्वत् ॥ ९५ ॥
3.5.95 · p. 65
metre not recognised
क्ष्वेदते वर्षते प्लुष्णात्यपि मिन्दति मिन्दते ।स्याद्वासयति च स्नेहे द्रवीकृत्यां लयत्यपि ॥ ९६ ॥
3.5.96 · p. 65
अनुष्टुप्
लाययत्यथ खान्द्रत्वे कृडतीति प्रकीर्तितम् ।स्यात्स्नाति वाडते चाभिषुणुतेऽमिषुणोति च ॥ ९७ ॥
3.5.97 · p. 65
अनुष्टुप्
शुषते चाथ नेः स्नातिः पुणतिश्चापि कौशले ।अपतस्तु मृतस्नानेऽप्यथ धावति धावते ॥ ९८ ॥
3.5.98 · p. 66
अनुष्टुप्
मार्ष्टि नेनेक्ति नेनिक्ते स्यान्मार्जयति मार्जति ।स्यान्मुण्डते शुध्यति च शुन्धयत्यपि शुन्धति[203a] ॥ ९९ ॥
3.5.99 · p. 66
अनुष्टुप्
निङ्क्ते मज्जति शुद्धौ स्युः स्यात्क्षालयति शोधने ।आङो धाविरभिव्याप्तौ प्रतिपन्ने समो मृजिः ॥ ३०० ॥
3.5.300 · p. 66
अनुष्टुप्
उद्धशुद्धौ(?) मज्जतिर्नेर्बुडने परिकीर्तितः ।उदस्तु स ततोऽन्यत्र नृणाति तु नये मृतम् ॥ १ ॥
3.5.1 · p. 66
अनुष्टुप्
तरति प्रणिदाति स्यात्तरणे हवत्तांति च (Corrupt) ।तरतिर्विपरो दाने निरस्तु स्यान्निवर्तने ॥वृत्तौ निर्गमने शक्तौ बाधे प्रात्प्रस्तुतौ जने ।देवादीनामन्ययोनौ भूताद्यावेश उत्परः ॥ ३ ॥
3.5.3 · p. 66
अनुष्टुप्metre not read in every lineLatin letters: Corruptnearly अनुष्टुप्: pāda 2, syllable 5 व (wrong syllable)
अवात्परोऽवरोहे स्याज्जन्मान्तरपरिग्रहे ।स्यात्स्कुनाति स्कुनीते च स्कुनोति स्कुनुते तथा ॥स्कुन्दते स्यादुत्प्लवनेऽथानक्ति म्रक्षणे स्मृतम् ।निमज्जने स्याद्गुडति भृडति क्रुडतीति च ॥ ३ ॥
3.5.3 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दु (wrong syllable)
हुडति स्यादथ स्पर्शे छुपति स्पृशतीति च ।शीकति स्याच्छीकयति चीकयत्यपि चीकति ॥ ६ ॥
3.5.6 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छी (wrong syllable)
स्पृशिस्तु स्यादाचमने स्नानस्पर्शनयोरपि ॥ ४ ॥
3.5.4 · p. 66
युज्यते तु समाधौ स्यात्प्रणेशति च शीलति ।मथ्नाति मथति मन्थतिलोडति लुट्यति[203b] च गाहते लुडति ।लुटति खजत्यपि मन्थेंखण्डत इति च ब्रुवन्त्यत्र ॥ ५ ॥
3.5.5 · p. 66
अनुष्टुप्metre not read in every line
मथिरुत्प्रपरो मृत्यां क्षुणत्ति तु पिनष्टि च ।क्षुन्ते मोटयति स्याच्च पेषेऽथोदः पिषिर्वधे ॥ ६ ॥
3.5.6 · p. 67
अनुष्टुप्
कर्षति कृषति क्षुरतिरदति हलत्यपि विलेखनार्थाः स्युः ।निर्हरणे निश्चयनेनिरः परः स्यात्कृषिर्द्विविधः ॥ ७ ॥
3.5.7 · p. 67
metre not recognised
नितो न्यग्भवने विप्राद्भवेद्दूरीकृतावसौ ।अवात्प्रसृत्यां प्रतितो द्वेधा वृत्तविकर्षणे ॥ ८ ॥
3.5.8 · p. 67
अनुष्टुप्
निष्कर्षणे सातिशये प्रोद्भ्यां संनिपरः पुनः ।असौ समीपतायां स्यादनुत्कर्षे त्वपादयम् ॥ ९ ॥
3.5.9 · p. 67
अनुष्टुप्
दंशति स्याद्दंशयते तथा दंसयतेऽपि च ।दशत्यपि च दंष्ट्राया व्यापारे परिकीर्तिता ॥ १० ॥
3.5.10 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दं (wrong syllable)
समो दंशिर्मर्मणि स्याद्व्यवापेभ्यो दतेर्मतः(?) ।लतत्योदति(?)चाघाते व्रणयत्यङ्गचूर्णने ॥ ११ ॥
3.5.11 · p. 67
अनुष्टुप्
बध्नाति बन्धयति बन्धयते युनातिस्यान्नह्यतेऽन्तति तथान्दति नह्यतीति ।स्यात्कञ्चते मवति मव्यति काञ्चते चकञ्जत्यपीह मवते सिनुते सिनोति[204a] ॥ १२ ॥
3.5.12 · p. 67
वसन्ततिलका
टङ्कयते टङ्कयतिग्रन्थयति ग्रन्थतीह टङ्कते च ।बन्धयति पाशयति स्या-त्कीलति मूर्वति सिनाति जुडति स्यात् ॥ १३ ॥
3.5.13 · p. 67
metre not recognised
सिनीते कचते यौटत्यपि बन्धनवाचकाः ।प्रतेर्बन्धिः प्रतिष्ठम्भेऽप्यविनाभावसंयुजि ॥ १४ ॥
3.5.14 · p. 67
अनुष्टुप्
प्रादविच्छेदनिर्माणेऽथाध्मानस्तम्भयोर्वितः ।आङः संभ्रमबन्धार्थो गूढबन्धे च भूषणे ॥ १५ ॥
3.5.15 · p. 67
अनुष्टुप्
प्रीतौ निरस्त्वाग्रहणेऽनुतो मुखानुयायिनि ।सांतत्ये दोषसंभूतावनुदात्ताववात्पुनः ॥ १६ ॥
3.5.16 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
वेष्टने विस्तृतौ तु स्यात्परेर्नहिरुपादपात् ।बन्धेऽवाद्वेष्टनेऽथाङ आधाने सम उद्यमे ॥ १७ ॥
3.5.17 · p. 68
अनुष्टुप्
समुद्भ्यां वर्धने दैर्घ्येऽथोदो वृद्धौ प्रकीर्तितः ।प्रात्सिनोतिः समासक्तौ निरो ग्रन्थिश्च मारणे ॥ १८ ॥
3.5.18 · p. 68
अनुष्टुप्
स्यान्मुञ्चते मुञ्चति च श्रथ्नाति श्राथतीति च(?) ।जस्यति स्याज्जंसयति जंसति श्रथतीत्यपि ॥ १९ ॥
3.5.19 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्जं (wrong syllable)
मोक्षणे स्यान्मोचयति मुञ्चति स चाङ्परो न हि ।प्रतेर्निष्क्रमणे बन्धे निरस्त्वङ्मोचने व्यये ॥ २० ॥
3.5.20 · p. 68
अनुष्टुप्metre not read in every line
संय[204b]मे स्याद्योजयति योजत्यपि च पर्चति ।तथा पर्च्चयति प्रोक्तमथ योगे युनक्ति च ॥ २१ ॥
3.5.21 · p. 68
अनुष्टुप्metre not read in every line
युजिर्योजयतिश्च प्रात्प्रेरणे च निदर्शने ।कार्ये हेतावनोः प्रश्ने समः संबन्ध आङ्परः ॥ २२ ॥
3.5.22 · p. 68
अनुष्टुप्
रोधे नियोगे व्यापारे गन्धमाल्योपहारयोः ।नेस्तु व्यापारणेऽभेः स्यादत्यासक्तावभिग्रहे ॥ २३ ॥
3.5.23 · p. 68
अनुष्टुप्
उपाद्भुक्तौ सार्थकत्वे विद्याग्राहे यथाविधि ।पर्यनोः स्यादुपालम्भे समाङस्तु प्रयोजने ॥ २४ ॥
3.5.24 · p. 68
अनुष्टुप्
समवाय उदो यत्ने उत्साहे संप्रतेऽरतेः(?) ।अन्वये विप्रलम्भे तु विप्राद्विनिमये विनेः ॥ २५ ॥
3.5.25 · p. 68
अनुष्टुप्
स्वराद्यन्तोपसर्गेभ्यो युनक्तिः परतो यदि ।तदात्मनेपदयुतो यज्ञपात्रं विना भवेत् ।परिग्रहे पक्षयति तथा पक्षयते भवेत् ॥ २६ ॥
3.5.26 · p. 68
अनुष्टुप्
अथ गृह्णाति गृह्णीते गर्हते ग्लहतेऽपि च ।मर्चति स्याद्ग्रासयति तद्वद्गृहयतेऽपि च ॥ २७ ॥
3.5.27 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ग्रा (wrong syllable)
ग्रहति ग्राहयत्येवं ग्लहति ग्लाहयत्यपि ।भवेत्स्पाशयते ग्रासयति राति च लाति च ॥ २८ ॥
3.5.28 · p. 69
अनुष्टुप्
कोकते व[205a]र्कते स्नुस्यत्यषतेऽषति घिण्णते ।घुण्णते घृण्णते किंच [द]यते झषतीति च ॥ २९ ॥
3.5.29 · p. 69
अनुष्टुप्metre not read in every line
झषते चीवते तद्वदादाने स्युर्जुहोति च ।अवाद्ग्रहिरवज्ञायां स्वातन्त्र्यप्रतिरोधने ॥ ३० ॥
3.5.30 · p. 69
अनुष्टुप्
वृष्टिरोधे पदच्छेदे संरोधे घर्षणेऽपि च ।समः संक्षेपणे नेस्तु विरोधे च तिरस्कृतौ ॥ ३१ ॥
3.5.31 · p. 69
अनुष्टुप्
अप्रसादे भर्त्सने च बन्धकीकरणे तथा ।वेर्विस्तारे विरोधे च समासार्थप्रकाशने ॥ ३२ ॥
3.5.32 · p. 69
अनुष्टुप्
आङः संभ्रम आसक्तावाक्रमाभिनिवेशयोः ।उपादाने निग्रहणे परेः शाप उपात्पुनः ॥ ३३ ॥
3.5.33 · p. 69
अनुष्टुप्
उपभोगेऽनुकूलत्वे परिभूत्यामुपप्रति ? ।अनोरुपकृतौ गृह्णातिस्त्वनोर्गौरवार्थकः ॥ ३४ ॥
3.5.34 · p. 69
अनुष्टुप्
अपेः प्रतारणेऽथोदो गीतारम्भे समर्थने ।बन्धनग्रहणे स्फता( ? )वतेः स्यादनुबन्धने ॥ ३५ ॥
3.5.35 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्फ (wrong syllable)
उपसंभ्यां नमस्कारे प्राद्रश्मौ निगडस्थितौ ।शिलतीषत्युञ्छति च सिलत्युध्रासयत्यपि ॥ ३६ ॥
3.5.36 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्यु (wrong syllable)
ध्रस्नाति ध्रासयत्येवं कणिशादानकर्मणि ।वेरुञ्छतिर्व्यत्यये स्यात्प्रत उत्सारणे मतः ॥ ३७ ॥
3.5.37 · p. 69
अनुष्टुप्
[205b] ऊर्णौत्यूर्णोत्यूर्णुते च स्तृणोति स्तृणुतेऽपि च ।बर्हते बल्हते वस्ते स्तृणीते च स्तृणाति च ॥ ३८ ॥
3.5.38 · p. 69
अनुष्टुप्
आच्छादने चिलति च निवासयति कोतति ।प्रपञ्चे वेः स्तृणोति स्यात्प्राद्विकारे परेः स्तुतौ ॥ ३९ ॥
3.5.39 · p. 70
अनुष्टुप्
अवात्स्तृणातिः संरोधे दर्भन्यासे परेः स्मृतः ।प्रणये वेश्च विस्तारेऽथास्ते स्यादुपवेशने ॥ ४० ॥
3.5.40 · p. 70
अनुष्टुप्
उत्परस्त्वासिरौदास्येऽथोपाच्छुश्रूषणे वधे ।शराभ्यासे सेवनेऽनोरनुशोचन-सेवयोः ॥ ४१ ॥
3.5.41 · p. 70
अनुष्टुप्
स्नेहबस्तावधेराधिपत्याधिष्ठानयोरयम् ।आधिको वेः समः कोचे विशति स्यात्प्रवेशने ॥ ४१ ॥
3.5.41 · p. 70
अनुष्टुप्
वेतने मुहि भोगे च निरो विशतिरीरितः ।आङः प्रवेशने भूतोपद्रवेऽथ समाङ्परः ॥ ४२ ॥
3.5.42 · p. 70
अनुष्टुप्
विष्वक्प्रवेशने संने रचनायां समः स्वपि ।मोदनासनयोर्नेः स्यादवस्थान-विवाहयोः ॥ ४३ ॥
3.5.43 · p. 70
अनुष्टुप्
न्यासेऽभिनेराग्रहणे स्यादुपादासने परेः ।परिवर्तेऽथ नेरेष परः स्यादात्मनेपदः ॥ ४४ ॥
3.5.44 · p. 70
अनुष्टुप्
व्यवहारे तु पणते वेः पणिर्विक्र[206a]ये मतः ।परेर्नयेऽथ मयते विनिमित्यामुदीरितम् ॥ ४५ ॥
3.5.45 · p. 70
अनुष्टुप्metre not read in every line
प्रतर्पणे केवलोऽयं विनियुक्परिवर्तने ।क्रीणात्यर्थपरीवर्ते क्रीणीते विपरस्तु सः ॥ ४६ ॥
3.5.46 · p. 70
अनुष्टुप्
विक्रयेऽवात्प्रक्लृप्त(?) स्यात्परेः स्वीकरणे मतः ।परिव्यवेभ्यः क्रीणातिरात्मनेपदवान्मतः ॥ ४७ ॥
3.5.47 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्प्र (wrong syllable)
यतते वेहते संयस्यति संयसतीति च ।जेहते यस्यति तथा श्रथति श्राथयत्यपि ॥ ४८ ॥
3.5.48 · p. 70
अनुष्टुप्
वाहते स्याच्छ्राथयते पेषते यत्नवाचकाः ।क्लेश-स्तुति-हति-श्रान्ति-जय-क्षेपेषु तेजने ॥ ४९ ॥
3.5.49 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छ्रा (wrong syllable)
कोपे चाङो यस्यतिः स्यादुदस्तूद्यम ईरितः ।समो नियमनेऽथ स्यात्संस्कृतौ प्रतितो यतिः ॥ ५० ॥
3.5.50 · p. 70
अनुष्टुप्
निष्ठूयोपग्रहेच्छासु कृणोति तु करोत्यपि ।कुरुते स्याद्भावयति निर्मिमीते विधत्यपि ॥
3.5.343 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्भा (wrong syllable)
निर्माति च विधत्ते स्युः करणे कृस्तु(?) नेर्भवेत् ।अवज्ञावञ्चनाशाठ्यनिन्दाभर्त्सनवाचकः ॥ ५२ ॥
3.5.52 · p. 71
अनुष्टुप्
विप्रान्नेः स्यादुपद्रुत्यामधेः प्रस्ताव आश्रये ।उपर्यैश्ये प्रसहनेऽथोदः साहसतर्पणे [206b] ॥ ५३ ॥
3.5.53 · p. 71
अनुष्टुप्
अभ्याङुद्भ्योऽप्युदाङ्भ्यां च गन्धेऽथोपादनुग्रहे ।सेवोपयोग-भूषासु वाक्याध्याहारवैकृते ॥ ५४ ॥
3.5.54 · p. 71
अनुष्टुप्
प्रतियत्ने समुदये प्रत्युपान्निष्क्रये समः ।संकल्पेऽनुभवे संघे प्रतियत्न-प्रशंसयोः ॥ ५५ ॥
3.5.55 · p. 71
अनुष्टुप्
अलंकृतावुपाङस्तु संस्कारेऽमर्षयत्नयोः ।यज्ञप्राणि व*त्यागेऽभिनये स समुद्भवे ॥ ५६ ॥
3.5.56 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 य (syllables merged)
अपाद्भर्त्सनविद्वेषेऽथापाङो वारणे निरः ।प्रतीकारे वेर्मुदंते(?) परिणामान्यथात्वयोः ॥ ५७ ॥
3.5.57 · p. 71
अनुष्टुप्
प्रात्प्रस्तावे प्रकथने सेवासादृश्यसाहसे ।भेदोपयोगे परितः परिसर्पे समाहृतौ ॥ ५८ ॥
3.5.58 · p. 71
अनुष्टुप्
भूषणे वेष्टने व्याङः प्रकाशव्याख्ययोः पराः(?) ।स्यान्निरासे निराङश्च प्रतेश्चाङः स आकृतौ ॥ ५९ ॥
3.5.59 · p. 71
अनुष्टुप्
प्रत्याङो व्याजधिक्कृत्योरनोः साम्ये प्रतेः पुनः ।प्रतिविधौ प्रतिसमः क्रमन्यासेऽवतोऽस्तुतौ ॥ ६० ॥
3.5.60 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
हिंसार्थसूचने भर्त्से साहसिक्ये च सेवने ।प्रतियत्ने प्रकथने चोपयोगे स केवलः ॥ ६१ ॥
3.5.61 · p. 71
अनुष्टुप्
अधेः प्रसहने वेस्तु शब्दक[207a]र्माप्यकर्मकः ।कृञात्मनेपदेऽथानोः परातो न तङि स्मृतः ॥ ६२ ॥
3.5.62 · p. 71
अनुष्टुप्metre not read in every line
स मिथ्योपपदो ण्यन्तो द्विस्त्रिरुक्तौ तङि स्मृतः ।वर्तते वर्तनेऽथोदो वृत्तिर्मर्दविलेपयोः ।अपवृत्तिविपर्यासोत्पतनेष्वथ स प्रतः ॥ ६३ ॥
3.5.63 · p. 71
अनुष्टुप्
उत्पत्तौ च प्रवाहेऽथ वैमुख्ये स्यात्परात्परः ।निवर्तने च लुठने निरस्तूत्पत्तिवाचकः ॥ ६४ ॥
3.5.64 · p. 72
अनुष्टुप्
अन्यथात्वेऽपतो घातात्यययोः स परेः परः ।पलायने विनिमये निर्गमे वेः समाहृतौ ॥ ६५ ॥
3.5.65 · p. 72
अनुष्टुप्
अपवृत्तौ परीणामे नृत्ये व्याङो निवर्तने ।परावृत्तावुपाङः स्याद्व्यावृत्तौ लुठनान्तयोः ॥ ६६ ॥
3.5.66 · p. 72
अनुष्टुप्
प्रत्याङ्परः स्याद्व्यावृत्तावाङो भ्रमणचिन्तयोः ।तैजसोत्पत्यवचये(?) पौनःपुन्ये समः क्षये ॥ ६७ ॥
3.5.67 · p. 72
अनुष्टुप्
समाङोऽभ्याङ आभीक्ष्ण्ये समाङो मौञ्ज्यपाकृतौ ।अतेरतिक्रमेऽनोः स्यादातुकूल्यार्थवाचकः ॥ ६८ ॥
3.5.68 · p. 72
अनुष्टुप्