पक्षिणी
pakṣiṇīस्त्री · fem.In 12 kośas: 7 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.
genderस्त्रीfem.
genderस्त्रीfem.
पक्षिणी पक्षतुल्याभ्यां दिनाभ्यां वेष्टिता निशा ।गर्भकं रजनीद्वन्द्ववेष्टितं यदहर्भवेत् ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
पक्षिणी स्त्री वर्तमाना * * हर्मध्यगा निशा ।रात्रिद्वयस्य मध्यस्थं दिनमुक्तं च पक्षिणी ।गणरात्रं निशावृन्दं गर्भकं रजनीद्वयम् ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता क्षपा ।ज्ञातव्या रजनीद्वन्द्वं गर्भकं तु निशामुखम् ॥ १३४ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्यौत्स्नी चन्द्रिकया धौता गणरात्रं निशागणः ।या पक्षाभ्यामिवाहोभ्यां युक्ता सा पक्षिणी निशा ॥ २३८ ॥
अनुष्टुप्
genderस्त्रीfem.
बह्व्यस्तु गणरात्रं च चिररात्रं च रात्रयः ।पक्षाभ्यामिव याऽहोभ्यां युक्ता सा पक्षिणी निशा ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
पक्षी वशापकः प्रोक्तः पक्षी चापि विहंगमः ।आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥
अनुष्टुप्
meaningsनिशा
स्यान्नीलिकायां स्त्रीलिङ्गे ग्रामीणा ***** ।ग्रामीण उक्तः शुनि वायसे चग्रामोद्भवे तु त्रिषु पक्षिणी तु ।स्याच्छाकिनी पक्षिवधूषु पौर्ण-मासीभवद्भाविदिनस्थरात्र्योः ॥ ४९ ॥
इन्द्रवज्राmetre not read in every line
पक्षाभ्यामिव याहोभ्यां रात्रिर्युक्तात्र सा स्त्रियाम् ।प्राणास्तु पुंस्यसुष्वेके त्वस्मिन्नर्थे प्रचक्षते ॥ ७४४ ॥
अनुष्टुप्
meaningsरात्रि
doubtful
इयत्ता परिमाणार्थप्रधानसत्यवादिषु ।पक्षिणी पूर्णिमायां स्याद् विहङ्गीशाकिनीभिदोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
doubtful
पक्षिणी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप भारतीसम्बन्धिनि त्रिषु स्त्री तु सरस्वत्या हि भारती । रभसस्त्वाह पक्षिण्यामित्यर्थस्तत्र चिन्त्यताम् ॥ १२८७ ॥ Nānārthārṇavasaṃkṣepa 4.1287
- त्रिकाण्डशेष भारतीसेवाविभागयोर्भक्तिर्भवद्युष्मत्सदर्थयोः । पक्षिण्यां वाचि वृत्तौ च भारती भारतं पुनः ॥ १७५ ॥ Trikāṇḍaśeṣa 3.3.175