कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पिञ्जल

piñjalaवि · adj.

In 8 kośas: 11 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.366 · p. 18
उत्पिञ्जलसमुत्पिञ्जपिञ्जलाभृशमाकुले ॥ ३६६ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.168
चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.336 · p. 126
सम्भारः पिञ्जलस्तु स्यात्समुत्पिञ्जो भृशाकुले ।महासमरतूर्येऽस्त्री पटहाडम्बरौ समौ ॥ ३३६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.83 · p. 223
व्यग्रोऽथापि पुनः स स्यात्समुत्पिञ्जश्च पिञ्जलः ।भृशाकुलोत्पिञ्जलौ च क्षारिताक्षारितौ पुनः ॥ ८३ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 185
पिञ्जलं कुशवर्तिः[6la] स्यात्सग्रन्थि तु पवित्रकम् ।मुञ्जो विपूय इक्ष्वाकुः स्थूलदर्भः पितामहः ॥ ११ ॥
अनुष्टुप्metre not read in every lineLatin letters: la
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.66 · p. 269
अपक्रमोऽप्यथ त्रय्यां पराभूत-पराजितौ ।परिभूतोऽभिभूतः स्यादात्तगन्धोऽपि भग्नवत् ॥उत्पिञ्जलः समुत्पिञ्ज-पिञ्जलौ लुपिताकुलौ ।कान्दिशीकस्तु यो भीत्या व्याकुलः प्रपलायितः ॥पलायितस्तु नष्टः स्यादपक्रान्तस्तिरोहितः ॥ ६६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.12 · p. 108
शीवल-शीतल-शैवल-बालंनिर्मल-संकुल-पिञ्जल-मालम् ।दायुफलं सकुतूहल-फालंवार्दलपाकल-भास्मनतूलम् ॥ १२ ॥
दोधकम्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.32 · p. 105
दरितः कान्दिशीकस्तु भयद्रुत उदीरितः ।उत्पिञ्जलपिञ्जलौ तु समुत्पिञ्जल आकुले ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.542 · p. 69
व्यग्रः स्याद्व्याकुलश्चैव विहस्तोऽपि तथैव च ।कान्दीशिकोः भयद्रुते समुत्पिञ्जस्तु पिञ्जलः ॥ ५४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्रु (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.366 · p. 135
चूर्णं क्षोदश्चूर्णमात्रे क्वचित् केचित् प्रचक्षते ।उत्पिञ्जः पिञ्जलोऽपि स्यात् समुत्पिञ्जल इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.46 · p. 156
पिञ्जलस्तूलचापः स्यात् पञ्जिका तूलनालिका ।तन्तुकाष्ठं तुलिः तुली तुरिस्तुरी च सम्मता ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.28 · p. 194
पिञ्जलं कुशपत्रे स्याद्धरितालं च पिञ्जलम् ।फेनिलोऽरिष्टके फेनयुक्ते कोलं तु फेनिलम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.24 · p. 348
पिञ्जलं तु कुशभाजनेऽन्तिमेशोणपीतरुचि वाच्यवन्मतम् ।पुद्गलो वपुषि लिङ्गकायके-ऽथात्मनि प्रथ[71a]मगो मदेहयोः ॥ २४ ॥
रथोद्धताmetre not read in every line