पादपीठ
pādapīṭhaक्ली · neut.In 7 kośas: 5 synonym verses, 4 as a meaning of another word.
भद्रकुम्भः पूर्णकुम्भः पादपीठं पदासनम् ॥ ७१८ ॥
metre not recognised
genderक्लीneut.
पादपीठं फलहकः पादपः पादुकापि च ।आसन्दी वेत्रपीठं स्याल्लोचकं कज्जलाञ्जने ।दीपोऽस्त्रियां प्रदीपश्च दशाकर्षी दशेन्धनः ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
सौवर्णं पादपीठं तु पदासनमथास्त्रियाम् ।भृङ्गारः कनकालुः स्त्री भद्रकुम्भो भृतो घटः ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
पादासनं पादपीठं भद्रकुम्भः शुभो घटः ।मन्त्री तु धीसखोऽमात्यः सचिवः सामवायिकः ॥ ३४४ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
पादपीठ as a meaning in nānārtha verses
- कोषकल्पतरु पादपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
- नानार्थार्णवसंक्षेप पादपपादपस्तु पुमान् वृक्षे पादपीठेऽप्यथ स्त्रियाम् । पादपा पादुकायां स्यात् पादरक्षे तु भेद्यवत् ॥ ११३२ ॥ Nānārthārṇavasaṃkṣepa 4.1132
- त्रिकाण्डशेष पादपपादुकायां स्त्रियां वृक्षे पादपीठे च पादपः । पिण्डपुष्पौ जवाशोकौ पुष्यं कुसुम आर्त्तवे ॥ २७७ ॥ Trikāṇḍaśeṣa 3.3.277
- वैजयन्ती पादपप्रवाहस्तु प्रकृष्टाश्वे जलवेगे प्रवर्तने । पादपः पादपीठे स्यात् पादयाने द्रुमेऽपि च ॥ ४५ ॥ Vaijayantī 7.1.45