लोचक
locakaपुं · masc.In 7 kośas: 6 synonym verses, 10 as a nānārtha head word.
पादपीठं फलहकः पादपः पादुकापि च ।आसन्दी वेत्रपीठं स्याल्लोचकं कज्जलाञ्जने ।दीपोऽस्त्रियां प्रदीपश्च दशाकर्षी दशेन्धनः ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
तत्रापि स्त्र्यर्थवृत्तित्वविवक्षास्ति यदा तदा ।लोहिनी लोहिता चेति द्वैरूप्यं लोचकस्तु ना ॥ १५८० ॥
अनुष्टुप्
genderपुंmasc.
कज्ज्वलः कज्ज्वलोऽपि स्यात् लोचकः कज्ज्वलेत्यपि ।वर्ती वर्तिर्दशा चेति त्रितयं दीपवर्तिषु ॥
अनुष्टुप्
genderपुंmasc.
भ्रुवौ तु चक्षुषोरूर्ध्वे लोचकस्तु मणिभ्रुवि ।ललाटमलिकं फालं निटिलं गोधिरित्यपि ॥ १०८६ ॥
अनुष्टुप्
genderपुंmasc.
दशेन्धनो गृहमणिर्दोषातिलक इत्यपि ।शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
पद्मासनी तु वसिकः क्षीराहारस्तु लोचकः ।नीवारपिष्टकानष्टावश्नाति मुनिपिष्टकी ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
सूचको बोधके प्रोक्तः खले सीवनवस्तुनि ।लोचकं वजसि ख्यातं गोपप्रावरणान्तरम् ॥
अनुष्टुप्
खाद्ये न स्त्री मोदको हर्षुके तुभेद्याधीनो लोचक[252a]स्त्वक्षितारे ।स्त्रीणां भालालंकृतौ मांसपिण्डेमोचार्थी चाथास्त्रियां कज्जले सः ॥ ६४ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 7 क (wrong syllable)
रक्तांशुके मांसपिण्डे नीलिन्यां चर्मणि भ्रुवि ।अजयस्तु पठत्येनं नीलीरक्तांशुके त्रि तु ॥ १५८१ ॥
अनुष्टुप्
doubtful
दुष्टबुद्धावथ प्राह निर्बुद्धावजयस्तथा ।स्याल्लोचितर्यथ क्लीबं लोहे स्यात् कांस्यसंज्ञके ॥ १५८२ ॥
अनुष्टुप्
doubtful
स्त्रीणां ललाटाभरणे मूर्व्यां भ्रूश्लथकर्मणि ।निर्मोके कर्णपूटे च कदलीनीलवस्त्रयोः ॥
अनुष्टुप्
doubtful
रक्तांशुके दुष्टबुद्धौ क्रोष्टुधूर्तौ तु वञ्चकौ ।विनीतस्त्रिष्वपि प्राप्ते निभृते विजितेन्द्रिये ॥ ७४ ॥
अनुष्टुप्
doubtful