कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सचिव

sacivaपुं · masc.

In 14 kośas: 10 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.494 · p. 30
अमात्यः सचिवो मन्त्री धीसखः सामवायिकः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.426 · p. 49
मन्त्री बुद्धिसहायः स्यादमात्यः सचिवस्तथा ।सौवस्तिक इति प्रोक्तः पुरोधाश्च पुरोहितः ॥ ४२६ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त गुरुनामानि Gaṇitanāmamālā 10.69 · p. 4
त्रिदशेज्यो वासवेज्यो देवेज्यः सचिवो गुरुः ।वाचस्पतिश्चाङ्गिरसो वाक्पतिश्वांगिरासुतः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.7 · p. 89
राजन्यकं च नृपतिः क्षत्रमस्त्रीगणे क्रमात् ।महामात्रो धी सचिवो मन्त्री सचिव इत्यपि ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.227 · p. 274
धूर्तः स्वर्णाभिधानोऽपि मादनः शिवशेखरः ।कृष्णपुष्पः शिवस्निग्धः सचिवो विषनाशनः ॥ २२७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.33 · p. 247
मन्त्री त्वमात्य आमात्यः सचिवः सामवायिकः ।धीसखो व्यापृतस्त्वन्य आयुक्तश्च नियोग्यपि ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.344 · p. 144
पादासनं पादपीठं भद्रकुम्भः शुभो घटः ।मन्त्री तु धीसखोऽमात्यः सचिवः सामवायिकः ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.15 · p. 1
राजपुत्रो राजसूनुर्युवराजो नृपात्मजः ।कुमारोऽमात्यसचिवौ मन्त्री राज्यप्रचारकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1172 · p. 183
अमात्यः सचिवो बुद्धिसहायः सामवायिकः ॥ ११७२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1270 · p. 155
मन्त्री तु सचिवोऽमात्यः पुरोधाः स्यात् पुरोहितः ।प्रधानानि महामात्रा बलं मौलादिषड्विधम् ॥ १२७० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.394
मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास वपादः Dharaṇikośa 28.1.4 · p. 204
कैतवं च छले द्यूते दीदिवी मुनिगिष्पती ।सचिवौ मन्त्रिसहायौ पुंगवौ वृषसत्तमौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.15 · p. 360
तोकोद्भवे च प्रसवोऽथ मन्त्रि-सहाययोः स्यात्सचिवस्तथैव ।धूर्ते च मत्ते कितवः प्रदिष्टोहेमाह्वये वञ्चकवाचकोऽपि ॥ १५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1894 · p. 212
प्राणिद्यूते समङ्गा तु स्त्री नमस्कारिकाह्वये ।आनूपवल्लिस्तम्बे स्यात् क्षुद्रेऽथ सचिवः पुमान् ॥ १८९४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1895 · p. 212
मन्त्रिणि स्यात् सहाये च चेटे चेत्यथ संवृतम् ।क्लीबं संवरणे वर्णधर्मभेदे च तत् त्रि तु ॥ १८९५ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.75 · p. 245
मन्त्री सहायः सचिवः सहुरी वृषभास्करौ ।स्यमीकौ वृक्षवल्मीकौ समीकौ मिथुनार्णवौ ॥ ७५ ॥
अनुष्टुप्

सचिव as a meaning in nānārtha verses

  • शब्दरत्नावली वहतुवहतुः सचिवे पान्थे वलीवर्दे पुमानयम् । वनिता स्त्री तु कान्तायां जातरागस्त्रियामपि ॥ याचिते सेविते ख्याते त्रिषु स्याद्ददिभिद्यपि (?) । वसतिर्वेश्मरजनीवासभूमिषु च स्त्रियाम् ॥ व्यायतञ्च दृढे दीर्घे व्यापितेऽतिशयेऽन्यवत् ॥ Śabdaratnāvalī 7.16.132
  • शब्दरत्नावली पीठमर्दपीठमर्दो नायके स्यात्सचिवे चातिधृष्टके । पुटभेदो नदीवक्रे आतोद्ये पत्तने पुमान् ॥ महानादो वर्षुकाब्दे कुञ्जरे स्यान्महास्वने । मेघनादस्त्विन्द्रजिति प्रचेतसि भवेत्पुमान् ॥ Śabdaratnāvalī 7.18.28