कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मन्त्रिन्

mantrinपुं · masc.

In 18 kośas: 19 synonym verses, 1 as a nānārtha head word, 14 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.494 · p. 30
अमात्यः सचिवो मन्त्री धीसखः सामवायिकः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.72 · p. 3
मन्त्री बुद्धिसहायोऽपि वेत्री वेत्रधरोऽपि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.4
मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.426 · p. 49
मन्त्री बुद्धिसहायः स्यादमात्यः सचिवस्तथा ।सौवस्तिक इति प्रोक्तः पुरोधाश्च पुरोहितः ॥ ४२६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.7 · p. 89
राजन्यकं च नृपतिः क्षत्रमस्त्रीगणे क्रमात् ।महामात्रो धी सचिवो मन्त्री सचिव इत्यपि ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.109 · p. 101
उदयश्च त्रिवर्गश्च शान्ति स्त्री स्याद्दमो नरि ।मन्त्री पुरोधाः सेनानीर्द्वास्थोन्तर्वेशिकस्तथा ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.33 · p. 247
मन्त्री त्वमात्य आमात्यः सचिवः सामवायिकः ।धीसखो व्यापृतस्त्वन्य आयुक्तश्च नियोग्यपि ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.344 · p. 144
पादासनं पादपीठं भद्रकुम्भः शुभो घटः ।मन्त्री तु धीसखोऽमात्यः सचिवः सामवायिकः ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.251 · p. 56
बुद्धिप्रदायकेऽमात्यो मन्त्री धीसचिवोऽपि च ।स्यात्कर्मसचिवः कार्यव्यापारव्यवहारकः ॥ २५१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.15 · p. 1
राजपुत्रो राजसूनुर्युवराजो नृपात्मजः ।कुमारोऽमात्यसचिवौ मन्त्री राज्यप्रचारकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.18 · p. 43
सार्वभौमश्चक्रवर्ती नृपोन्यो मण्डलेश्वरः ।मन्त्र्यमात्यौ सुधीः कर्मसहायो राजकीयकः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1173 · p. 183
प्रधानो धीसखो मन्त्री नियोगी व्यापृतश्च सः ।कर्मसहाय आयुक्तः कर्मसचिव उच्यते ॥ ११७३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.132 · p. 120
राजन्यकं क्षत्रवृन्दो राजवृन्दे च राजकम् ।अमात्यः स्याद्ग्रन्थिहरो मन्त्री धीसचिवोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.247 · p. 208
अमात्य आमात्यो मन्त्री मन्त्रिश्च, द्वारपालके ।प्रतीहारः प्रतिहारो द्वाःस्थो द्वाःस्थितदर्शकः ॥ २४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1270 · p. 155
मन्त्री तु सचिवोऽमात्यः पुरोधाः स्यात् पुरोहितः ।प्रधानानि महामात्रा बलं मौलादिषड्विधम् ॥ १२७० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव धीवर्गः Trikāṇḍaśeṣa 1.5.3 · p. 21
मड्डुको मर्दलो मंत्री ढक्का विजयमर्दलः ।द्रगडः प्रतिपत्तूर्यं डमरुः सूत्रकोणकः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.24 · p. 65
मन्त्री ग्रन्थिहरोऽमात्यो द्वाःस्थितो वेत्रधारकः ।द्वोःसाधिको वर्तरूको गर्वाटी दण्डवासिनिः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.18 · p. 105
सामन्ता राज्यसंधिस्था आरक्षाः पुररक्षिणः ।मन्त्र्यमात्यौ तु धीकर्मसहायेऽतः परे त्रिषु ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.20 · p. 105
कुमारोऽमात्यको मन्त्री वर्गे धर्मे तु धार्मिकः ।हट्टे धीकर्मिकः पुर्यां चोरिको दंडपाशिकः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.974 · p. 126
तृप्तौ तु कश्चित् त्रिषु तु मदितर्यथ मत्त्रिवाक् ।राज्ञो धीसचिवे पुंसि स्यात् तु मन्त्रवति त्रिषु ॥ ९७४ ॥
अनुष्टुप्

मन्त्रिन् as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् सचिवमन्त्री सहायः सचिवौ पतिशाखिनरा धवाः । Amarakośa 3.3.394
  • धरणिकोश तीर्थतीर्थः स्यादवतारे च पात्रोपाध्यायमन्त्रिषु । स्त्रीणां रजसि शास्त्रे च क्षेत्रोपायाध्वरेषु च ॥ Dharaṇikośa 16.3.2
  • धरणिकोश विदुरखपुरं क्रमुकं प्राहुर्लसकं चोर्ध्वसंप्लवम् । विदुरो ज्ञानयुक्ते स्यान्मन्त्री दुर्योधनस्य च ॥ Dharaṇikośa 26.2.30
  • धरणिकोश सचिवकैतवं च छले द्यूते दीदिवी मुनिगिष्पती । सचिवौ मन्त्रिसहायौ पुंगवौ वृषसत्तमौ ॥ Dharaṇikośa 28.1.4
  • कोषकल्पतरु शुचिउरुबूके चञ्चुर्ना पक्ष्यङ्गे स्त्री शुचिस्तु रागे स्यात् । नाषाढे शृङ्गारे मन्त्रिणि शुद्धेऽनले ग्रीष्मे ॥ ४ ॥ Koṣakalpataru 6.5.4
  • कोषकल्पतरु तीर्थभवेत्कणायां च कुरण्टके च तीर्थं मखोपायवधूरजः सु । क्षेत्रे गुरौ मन्त्रिणि चावतारे मार्गे जले चर्षिगणेन जुष्टे ॥ १०० ॥ Koṣakalpataru 6.18.100
  • कोषकल्पतरु सचिवतोकोद्भवे च प्रसवोऽथ मन्त्रि- सहाययोः स्यात्सचिवस्तथैव । धूर्ते च मत्ते कितवः प्रदिष्टो हेमाह्वये वञ्चकवाचकोऽपि ॥ १५ ॥ Koṣakalpataru 6.29.15
  • नानार्थार्णवसंक्षेप सुहृद्ना तु मन्त्रिण्यथ स्थूलं जडे बृहति पीवरे । (क्ली तु ? त्रि क्ली) दध्नि त्रि तु स्थूरं पीवरेऽथ स्त्रियामियम् ॥ १५३३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1533
  • नानार्थार्णवसंक्षेप सचिवप्राणिद्यूते समङ्गा तु स्त्री नमस्कारिकाह्वये । आनूपवल्लिस्तम्बे स्यात् क्षुद्रेऽथ सचिवः पुमान् ॥ १८९४ ॥ Nānārthārṇavasaṃkṣepa 4.1894
  • शब्दरत्नावली गृहपतिभवेद्गन्धवती व्यासमातृपृथ्वीसुरासु च । गरुत्मान् पक्षिमात्रे स्याद् गिरिभेदे सुधाहरे । भवेद्गृहपतिर्नातुधर्मे मन्त्रिगृहस्थयोः ॥ Śabdaratnāvalī 7.16.161
  • शब्दरत्नावली मूर्धाभिषिक्तगिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥ शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥ अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥ पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । Śabdaratnāvalī 7.16.178
  • शब्दरत्नावली तीर्थगन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च । ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥ गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते । तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥ उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि । तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥ दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु । प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥ Śabdaratnāvalī 7.17.3
  • शब्दरत्नावली शमथुब्राह्मीगुडूचीपश्यासु स्त्रियां स्यात्तरुणे त्रिषु । वमथुर्वमने पुंसि स्यात्कुम्भिकरशीकरे ॥ विदिथः पण्डिते योगे शमथुः शान्तिमन्त्रिणोः । षड्ग्रन्थो ना करञ्जे स्याद्वचायामपि च स्त्रियाम् ॥ समर्थः शक्तहितयोः सम्बन्धे चान्यलिङ्गकः । सिद्धार्थः शाक्यसिंहे च सार्थके श्वेतसर्षपे ॥ Śabdaratnāvalī 7.17.14
  • वैजयन्ती सचिवमन्त्री सहायः सचिवः सहुरी वृषभास्करौ । स्यमीकौ वृक्षवल्मीकौ समीकौ मिथुनार्णवौ ॥ ७५ ॥ Vaijayantī 7.1.75