पामर
pāmaraवि · adj.In 17 kośas: 19 synonym verses, 4 as a nānārtha head word, 16 as a meaning of another word.
उन्माथः कूटयन्त्रं स्याद्विवर्णस्तु पृथग्जनः ।इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ ९३२ ॥
अनुष्टुप्
genderपुंmasc.
पामरोऽपि कच्छुरोऽतीसारक्यप्यतिसारकी ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
genderविadj.
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
क्षुद्रदरिद्राकिञ्चनदुर्विधदुःस्थाश्च दुर्गताः प्रोक्ताः ।इतरप्राकृतपामरपृथग्जना वर्वराश्च तुल्यार्थाः ॥ ३४८ ॥
गीतिः
genderविadj.
वार्त्तावहो वैवधिको भारवाहस्तु भारिकः ।भारवाडथ नीचस्तु विवर्णः पामरेतरौ ॥ ३० ॥
अनुष्टुप्
genderविadj.
इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ ।क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः ॥अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ ।अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
पामनः पामरः पामायुतः कच्छुर इत्यपि ।दद्रुणो दद्रुरोगी स्यात्पामनाद्या विशेष्यवत् ॥ ५३ ॥
अनुष्टुप्
genderविadj.
ज्ञाता तु विदुरो विन्दुर्यथाजातस्तु बालिशः ।देवानांप्रिय-मूर्खाज्ञ-मूढ-वैधेय-पामराः ॥ १५ ॥
अनुष्टुप्
genderविadj.
नीचे विवर्णो जाल्मश्च प्राकृतः पामरो जडः ।पृथग्जनो निहीनश्चापशदः क्षुल्लकेतरौ ॥ ५८६ ॥
अनुष्टुप्
genderपुंmasc.
पार्वतेयाः पामराश्च बह्वन्ना नीचजन्मिनः ।तत्र राजा डुण्डुमारस्तद्विषे तु प्रदीपनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
इतरः प्राकृतो नीचः पामरश्च पृथग्जनः ।पुलिन्दः शम्बरो भिल्लः किरातश्च वनेचरः ॥ ६९ ॥
अनुष्टुप्
genderविadj.
दर्द्रुरोगी तु दर्द्रुणो दद्रुरोगी च दद्रुणः ।पामनः पामरश्चापि कच्छुरश्चर्मरोगवान् ॥ ७०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्द्रु (wrong syllable)
genderविadj.
इतरः पामरो नीचः प्राकृतश्च पृथग्जनः ।विवर्णो बर्बरश्चेति नामानि विलसन्ति वै ॥ १५८० ॥
अनुष्टुप्
genderपुंmasc.
नीचे निहीनहीनापसदजान्मपृथग्जनाः ।विवर्णः प्राकृतक्षुल्लक्षुल्लकेतरपामराः ।भृत्ये भुजिष्यदासेयदासेरपरिचारकाः ॥
अनुष्टुप्
genderविadj.
तुण्डिभस्तुन्दिलोऽभ्यान्ताऽभ्यमितौ ग्लान-ग्लास्नुकौ ।व्याधिते, कच्छुरे तु स्यात्पामनः पामरस्तथा ॥ ८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न (wrong syllable)
genderविadj.
शूना तालव्य-दन्त्यादिः, पामरः प्रामरोऽपि च ।क्षुल्लकः खुल्लकस्तद्वद्, निषादे तु श्वपाकवत् ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
नीचे निहीनापशदपामरेतरबर्बराः ।विवर्णः क्षुल्लको जाल्मः प्राकृतश्च पृथग्जनः ॥ १५७५ ॥
अनुष्टुप्
genderविadj.
तीवरी धीवरात्पौण्ड्रं बर्बरं यवनादसौ ।पुल्कसात्पामरं वेनाच्छुषं डोंबाद्वराणकम् ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
नीचे तु हीनापशदपामरेतरबर्बराः ।नैकृतः स्यान्नैकृतिकः शठः कौनृतिकोऽनृजुः ॥ २२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्नै (wrong syllable)
genderविadj.
खण्डेऽप्याह प्रार्दितं तु हतयाचितयोरपि ।अभियुक्ते पेशलस्तु चारौ दक्षे च कीर्तितः ॥ ४२ ॥
अनुष्टुप्
meaningsखण्ड
doubtful
पामर as a meaning in nānārtha verses
- धरणिकोश खल्वकनिपाकौ पचनस्वेदौ खल्वकौ स्वल्पपामरौ । पिष्टकोऽक्षिगदे पिष्टे टुण्टुकौ स्वल्पशो[3]णकौ ॥ Dharaṇikośa 1.1.8
- धरणिकोश इतरप्रसरः प्रणये वेगे द्वापरः संशये युगे । भ्रमरः कामुके भृङ्गे इतरः पामरान्ययोः ॥ Dharaṇikośa 26.1.15
- धरणिकोश खलखलं भूस्थानबन्धेषु पामरक्रूरयोः खलः । मलं पापे च किट्टे च वर्चस्के कृपणे मलाः ॥ Dharaṇikośa 27.2.1
- कोषकल्पतरु नीचनीचः खर्वे पामरे चान्यवत्स्या- त्तूले कर्षे कुष्ठरोगेऽसुरे च । किंच प्रोक्तो भैरवास्ये पिचुर्ना- थ भ्रूमध्ये श्मश्रुणि श्लाघने च ॥ ३९ ॥ Koṣakalpataru 6.5.39
- कोषकल्पतरु भटकालक्रियाकारकपोलकेषु शवप्रकर्षद्विपगण्डकेषु । कटो भटः पामरवीरयोः स्याद् भटिस्तु भाटिः प्रगमे स्त्रियौ स्तः ॥ २ ॥ Koṣakalpataru 6.10.2
- कोषकल्पतरु इतरभवेद्भवान्यां नरि तूत्तरः स्या- द्विराटपुत्रे दिशि योषिति स्यात् । भवेद्द्वयोनः प्रतिवाक्यवाची- तरोऽन्यनामा त्रिषु पामरे च ॥ ८६ ॥ Koṣakalpataru 6.27.86
- नानार्थार्णवसंक्षेप इतरअन्यस्मिन् पामरे चाथ स्यादुत्कृष्टः प्रकृष्टके । ऊर्ध्वस्थानं प्रापिते चाप्युत्क्षिप्ते तूद्धृतं विदुः ॥ १० ॥ Nānārthārṇavasaṃkṣepa 3.4.10
- परमानन्दीयनाममाला अनयअमृता मागधीपथ्यामलकीषु गुडूच्यपि । अनयः पामरे नाशे व्यसनेऽथावधिर्बिले ॥ २९ ॥ Paramānandīyanāmamālā 5.1.29
- परमानन्दीयनाममाला गोण्डगुञ्जा मञ्जुरवे वल्लीमेदे च पटहे पुनः । गोण्डस्तु पामरे वृद्धनाभिकेऽपि तथोच्यते ॥ १५० ॥ Paramānandīyanāmamālā 5.9.150
- परमानन्दीयनाममाला नीचस्वर्गे व्योम्नि मतो नाको नीचः पामरखर्वयोः । नाकुर्मुनीश्वरे रन्ध्रे पर्वते कृमिपर्वते ॥ २६२ ॥ Paramānandīyanāmamālā 5.18.262
- शब्दरत्नावली नीचन्यङ् निम्ननीचयोर्नीचो वामने पामरेऽपि च । प्राक् पूर्वदिशि देशे पूर्वकाले च वाच्यवत् ॥ Śabdaratnāvalī 7.6.7
- शब्दरत्नावली जनजनो लोकान्तरे लोके महर्लोके च पामरे । जनी वधे(?) तथोत्पत्तौ कान्तायामोषधिभिदि ॥ Śabdaratnāvalī 7.20.7
- शब्दरत्नावली जाल्मचमूः सेनामात्रकेतु सेनाभेदेऽपि च स्त्रियाम् । जाल्मः क्रूरे पामरेऽसमीक्ष्यकारिण्यपि त्रिषु ॥ जिह्मः स्यात्कुटिले मन्दे क्लीबं तगरभूरुहे । तोक्मं कर्णमले ना तु हरिते च हरिद्यवे ॥ Śabdaratnāvalī 7.25.10
- शब्दरत्नावली वर्वरमुर्मुरः सूर्यतुरगे तुषाग्नौ च मनोभवे । रुधिरं कुङ्कुमे रक्ते स्यात्पुमान् मङ्गलग्रहे ॥ वटरः कुक्कुटे वेष्टे शठे चोरे च चञ्चले । वर्वरः पामरे केशे चक्रले शाकभिद्यपि ॥ पुष्पभेदे देशभेदे वर्वरा मक्षिकाभिदि । वर्करः स्याद्युवपशौ स्याच्छागपरिहासयोः ॥ Śabdaratnāvalī 7.27.97
- शब्दरत्नाकर पृथज्जनरक्षःसतोः पुण्यजनः पामराज्ञौ पृथज्जनौ । नटे काशे पोटगलः कपौ भेके प्लवंगमः ॥ २२१६ ॥ Śabdaratnākara 4.1.2216
- त्रिकाण्डशेष नीचचर्चिकायां च चर्चा स्यात्वक् स्त्री चर्मगुडत्वचोः । वामने पामरे नीचो नमुचिर्दितिजे स्मरे ॥ ७६ ॥ Trikāṇḍaśeṣa 3.3.76