कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किलासिन्

kilāsinवि · adj.

In 10 kośas: 8 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.461 · p. 22
मूर्छिते मूर्तमूर्छालौ सिध्मलस्तु किलासिनि ॥ ४६१ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.61
किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ ॥ ६१ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.125 · p. 117
किलासी सिध्मलः पित्ते स्नेहभूः कफसंज्ञकः ।खटः श्लेष्मा बलाशोऽपि रोगातङ्कावपाटवम् ॥ १२५ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.127 · p. 41
दीर्घनाभौ तु तुन्दी स्यात्तुन्दिलस्तुन्दिभश्च सः ।किलासी सिध्मलः सिध्मरोगयुक्तेऽथ मूर्च्छिते ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.706 · p. 96
मूर्च्छालो मूर्च्छितो मूर्त्तः विसंज्ञः कथ्यते जनः ।किलासी सिध्मलश्चापि जनः स्याच्छ्वेतकुष्ठवान् ॥ ७०६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.249 · p. 99
किलासी सिध्मलश्चापि छोदयुक्तजने द्वयम् ।काणूकः काणकः काण एकनेत्रविहीनके ॥शुक्रं रेतस्तेजसी च वीजवीर्येन्द्रियाणि च ।मायुः पलज्वरः पित्तं कफे श्लेष्मा बलाशकः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1105 · p. 136
मूर्च्छालो मूर्च्छितो मूर्तो मिर्मिरस्तब्धलोचनः ।किलासी सिध्मलः पामरोगी पामनकच्छुरौ ॥ ११०५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.146 · p. 185
श्लेष्मसूः श्लेष्मलः खेटी सातिसारोऽतिसारकी ।किलासी सिध्मलो वृद्धनाभौ तुण्डिभतुण्डिलौ ॥ १४६ ॥
अनुष्टुप्
genderविadj.

किलासिन् as a meaning in nānārtha verses

  • कोषकल्पतरु सिध्मलस्त्री सप्तला स्यान्नवमालिकायां गुञ्जाह्वये चर्मकषाह्वये च । स्यात्काकणन्त्यां महिला च गुन्द्रा- भीर्वोः किलासिन्यपि सिध्मलः स्यात् ॥ ५७ ॥ Koṣakalpataru 6.28.57
  • त्रिकाण्डशेष सिध्मलषण्डाली तैलमाने स्यात्स्मारसीकामुकस्त्रियोः । सिध्मला शुष्कमीने स्त्री त्रिलिङ्ग्यान्तु किलासिनि ॥ ४१० ॥ Trikāṇḍaśeṣa 3.3.410