यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४७ ॥
3.3.247
अनुष्टुप्
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ।
3.3.482
अनुष्टुप्
वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः ॥ २४८ ॥
3.3.248
अनुष्टुप्
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ।
3.3.484
अनुष्टुप्
प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४९ ॥
3.3.249
अनुष्टुप्
गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि ।
3.3.486
अनुष्टुप्
उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २५० ॥
3.3.250
अनुष्टुप्
अमा सह समीपे च कं वारिणि च मूर्धनि ।
3.3.488
अनुष्टुप्
इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २५१ ॥
3.3.251
अनुष्टुप्
तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने ।
3.3.490
अनुष्टुप्
नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ॥ २५२ ॥
3.3.252
अनुष्टुप्
अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।
3.3.492
अनुष्टुप्
हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ २५३ ॥
3.3.253
अनुष्टुप्
पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ।
3.3.494
अनुष्टुप्
स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥ २५४ ॥
3.3.254
अनुष्टुप्
ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् ।
3.3.496
अनुष्टुप्
स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल ॥ २५५ ॥
3.3.255
अनुष्टुप्
निषेधवाक्यालङ्कारजिज्ञासानुनये खलु ।
3.3.498
अनुष्टुप्
समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ २५६ ॥
3.3.256
अनुष्टुप्
नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ।
3.3.500
अनुष्टुप्
तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ॥ २५७ ॥
3.3.257
अनुष्टुप्
अहहेत्यद्भुते खेदे हि हेताववधारणे ।
3.3.502