कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

प्रथमं काण्डम् · शब्दादिवर्गः

इति धीवर्गः

अथ शब्दादिवर्गः ।

व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १ ॥
1.6.1
अनुष्टुप्
अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः ।
1.6.3
अनुष्टुप्
तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥ २ ॥
1.6.2
अनुष्टुप्
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः ।
1.6.5
अनुष्टुप्
स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३ ॥
1.6.3
अनुष्टुप्
शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ ।
1.6.7
अनुष्टुप्
इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः ॥ ४ ॥
1.6.4
अनुष्टुप्
आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः ।
1.6.9
अनुष्टुप्
आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥ ५ ॥
1.6.5
अनुष्टुप्
प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका ।
1.6.11
पञ्चचामरम्
स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६ ॥
1.6.6
पञ्चचामरम्
समस्या तु समासार्था किंवदन्ती जनश्रुतिः ।
1.6.13
अनुष्टुप्
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥आख्याह्वे अभिधानं च नामधेयं च नाम च ।हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥
1.6.8
अनुष्टुप्
विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् ।
1.6.15
अनुष्टुप्
उपोद्घात उदाहारः शपनं शपथः पुमान् ॥ ९ ॥
1.6.9
अनुष्टुप्
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे ।
1.6.17
अनुष्टुप्
मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १० ॥अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः ।
1.6.18
अनुष्टुप्
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥
1.6.11
अनुष्टुप्
आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा ।
1.6.20
अनुष्टुप्
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥
1.6.12
अनुष्टुप्
अवर्णाक्षेपनिर्वादपरीवादापवादवत् ।उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥
1.6.13
अनुष्टुप्
पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः ।
1.6.23
अनुष्टुप्
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥
1.6.14
अनुष्टुप्
तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति ।स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ॥ १५ ॥
1.6.15
अनुष्टुप्
अनुलापो मुहुर्भाषा विलापः परिदेवनम् ।
1.6.26
अनुष्टुप्
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १६ ॥
1.6.16
अनुष्टुप्
सुप्रलापः सुवचनमपलापस्तु निह्नवः ।
1.6.28
अनुष्टुप्
चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा ॥
1.6.29
अनुष्टुप्
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम् ।सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥
1.6.17
अनुष्टुप्
रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका ।
1.6.31
अनुष्टुप्
अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम् ॥ १८ ॥
1.6.18
अनुष्टुप्
निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये ।सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम् ॥ १९ ॥
1.6.19
अनुष्टुप्
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ।
1.6.34
अनुष्टुप्
अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् ॥ २० ॥
1.6.20
अनुष्टुप्
अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् ।
1.6.36
अनुष्टुप्
सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम् ॥
1.6.37
अनुष्टुप्
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ।
1.6.38
अनुष्टुप्
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥
1.6.21
अनुष्टुप्
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति ।
1.6.40
अनुष्टुप्
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
1.6.24
अनुष्टुप्
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः ।
1.6.42
अनुष्टुप्
कोलाहलः कलकलस्तिरश्चां वाशितं रुतम् ।
1.6.43
अनुष्टुप्
स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ॥ २५ ॥
1.6.25
अनुष्टुप्