व्यवहार
vyavahāraपुं · masc.In 13 kośas: 12 synonym verses, 5 as a nānārtha head word, 25 as a meaning of another word.
genderपुंmasc.
नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ ॥श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः ।धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ॥प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः ।करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ॥धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ ॥चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका ।पत्त्रं च धेनुका पत्त्रपाले तु हुलमातृका ॥ १४४ ॥कुट्टन्ती पत्त्रफलाथ शक्तिः कासूर्महाफला ।अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ ॥लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
नाराचपुंलोहनालपुंअस्त्रसायकपुंअसिपुंसायकपुंश्रीगर्भपुंविजयपुंशास्तृपुंव्यवहारपुंप्रजाकरपुंधर्मपालपुंअक्षरपुंदेवपुंतीक्ष्णकर्मन्पुंदुरासदपुंप्रसङ्गपुंरुद्रतनयपुंमनुज्येष्ठपुंशिवङ्करपुंकरपालपुंविशसनपुंतीक्ष्णधारपुंविषाग्रजपुंधर्मप्रचारपुंधाराङ्गपुंधाराधरपुंकरालिकपुंचन्द्रभासपुंशस्त्रपुंक्षुरीस्त्रीअस्त्रीस्त्रीकोशशायिकास्त्रीपत्त्रक्लीधेनुकास्त्रीपत्त्रपालपुंहुलमातृकास्त्रीकुट्टन्तीस्त्रीपत्त्रफलास्त्रीशक्तिस्त्रीकासूस्त्रीमहाफलास्त्रीपट्टिसपुंदुःस्फोटपुंआराफलपुं
genderपुंmasc.
genderपुंmasc.
तीक्ष्णधारोधरो देवो व्यवहारो दुरासहः ।प्रसङ्गी रुद्रतनयः शस्त्रो विजय इत्यपि ॥ २८३ ॥
अनुष्टुप्
genderपुंmasc.
व्यवहारस्तु विवादः स्थेयं तु स्थानमेतस्य ।वाङ्मुखमत्यादानं (?) स्यादुद्ग्रा[44b]हो स्वप(?)न्यासः ॥ ३३ ॥
metre not recognised
genderपुंmasc.
व्यवहारो विवादः स्यात्पृच्छा प्रश्नोऽनुयोजनम् ।कथंकथिकता देवप्रश्ने तूपश्रुतिस्तथा ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
उपोद्घात उपन्यास उदाहारश्च वाङ्मुखम् ।विवादो व्यवहारः स्यात् शपनं शपथः शपः ॥ ३७९ ॥
अनुष्टुप्
genderपुंmasc.
श्रीगर्भस्तीक्ष्णकर्मा च शस्त्रः कौक्षेयकोऽक्षरः ।व्यवहारश्च देवोऽसिः विजयश्च विषाग्रजः ॥ १२८४ ॥
अनुष्टुप्
genderपुंmasc.
विवादो व्यवहारश्च द्वयमेतन्निगद्यते ।वाङ्मुखं स्यादुपन्यासो वाक्यारम्भे भवेद्द्वयम् ॥
अनुष्टुप्
genderपुंmasc.
द्वित्रिरुदीरितमाम्रेडितमथ शोकेन भीत्यादेः ।काकुः स्त्री ध्वनिविकृतिर्व्यवहारोऽक्षो विवादश्च ॥ ९२६ ॥
उपगीतिः
genderपुंmasc.
नीवी परिपणमेषां मूलधनेऽथाधिकं फलं लाभः ।स्त्रियां वणिज्या वाणिज्यं व्यवहारो ग्लहः पणः ॥ १५०२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
न्यायोऽक्षो व्यवहारोऽथ संप्रश्नः संप्रधारणम् ।समर्थनं च संस्था तु मर्यादा धारणा स्थितिः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
व्यवहारो वाक्प्रयोगे सम्बन्धे द्यूतदण्डयोः ।शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ १०६ ॥
अनुष्टुप्
व्यवहारो वाक्प्रयोगे विवादे द्यूतदण्डयोः ।शासने वित्तसंवादे संबन्धेऽसिवणिज्ययोः ॥ २२२५ ॥
अनुष्टुप्
व्यवहारो वाक्प्रयोगे संबन्धे द्यूतदण्डयोः ।शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ ४३ ॥
अनुष्टुप्
व्यवहार as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अक्षद्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ २२२ ॥ ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे । Amarakośa 3.3.428
- धरणिकोश देवनदेवनं व्यवहारे स्याज्जिगीषाक्रीडनादिषु । आसनं करिणां स्कन्धे पीठे गतिनिवर्तने ॥ Dharaṇikośa 19.2.51
- धरणिकोश अक्षअक्षान्वदन्ति शकटव्यवहारकर्षा- न्सौवर्चलामxकपाशकहस्तिपक्षान् । अक्षो रथावयववाक् च बिभीतके स्या- दक्षाणि पण्डितजना विदुरिन्द्रियाणि ॥ Dharaṇikośa 33.3.5
- कोषकल्पतरु पणतेव्यवहारे तु पणते वेः पणिर्विक्र[206a]ये मतः । परेर्नयेऽथ मयते विनिमित्यामुदीरितम् ॥ ४५ ॥ Koṣakalpataru 3.5.45
- कोषकल्पतरु पणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- कोषकल्पतरु देवनक्लीबे तु वृत्तौ सलिलेऽथ मेदा स्याज्जीवनाह्वा किल जीवनी तु । जीवन्तिका देवनमन्तिमे स्यात् क्रीडाजिगीषाव्यवहारवाचि ॥ ४५ ॥ Koṣakalpataru 6.21.45
- कोषकल्पतरु अक्षअक्षस्तु कर्षे शकटे च चक्रे कलिद्रुमे च व्यवहारके च । आत्माभिविज्ञे नरि पाशके च स्पादिन्द्रियेऽन्त्ये रुचके च तुत्थे ॥ ४६ ॥ Koṣakalpataru 6.30.46
- कोषकल्पतरु नवाहनवे दिने च व्यवहारवाची प्रवाह उक्तोऽम्बुसृतौ[93a]स्वतोऽपि । त्रये कटाहो धृततैलपात्रे स्यात्पाकपात्रेऽपि च कर्परेऽपि ॥ ४९ ॥ Koṣakalpataru 6.32.49
- नानार्थार्णवसंक्षेप पणपणो विक्रय्यशाकादिबद्धमुष्टौ ग्लहे धने । द्यूतेऽशीतौ वराटानां कार्षिकव्यवहारयोः ॥ ७१ ॥ Nānārthārṇavasaṃkṣepa 2.2.71
- नानार्थार्णवसंक्षेप अक्षअक्षः पुमानामलके द्यूतभेदे विभीतके । आधारे व्यवहारे च शकटे च वराटके ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 2.5.17
- नानार्थार्णवसंक्षेप देवनज्ञेयो द्यूतशलाकायां क्ली क्रीडाविजिगीषयोः । व्यवहारे द्युतौ कान्तौ स्तुतिगत्योरना पुनः ॥ ९५९ ॥ Nānārthārṇavasaṃkṣepa 4.959
- परमानन्दीयनाममाला उपचारउपचारस्तु लञ्चायामारोपव्यवहारयोः । Paramānandīyanāmamālā 5.3.15
- परमानन्दीयनाममाला देवनदेवनं तु विहारे स्याज्जिगीषाव्यवहारयोः । द्वापरो युगभेदेऽथ संशये दीपितं त्वथ ॥ २४२ ॥ Paramānandīyanāmamālā 5.16.242
- शब्दरत्नावली पणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
- शब्दरत्नावली सिद्धनित्ये त्रिषु च निष्पन्ने व्यवहारेऽपि कुत्रचित् । स्निग्धं त्रिषु स्नेहयुते चिक्कणेऽपि च न द्वयोः ॥ Śabdaratnāvalī 7.19.19
- शब्दरत्नावली देवनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली अक्षअक्षो रुद्राक्षजातान्धव्यवहारेषु पाशके ॥ Śabdaratnāvalī 7.31.2
- शब्दरत्नाकर अर्थनिवृत्तौ याचने मोक्षे विषयव्यवहारयोः । वस्तुन्यथाक्ष आधारे व्यवहारे कलिद्रुमे ॥ १८६३ ॥ Śabdaratnākara 4.1.1863
- शब्दरत्नाकर पणपणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने । स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥ Śabdaratnākara 4.1.1951
- शब्दरत्नाकर भोगभोगो वेश्याभृतौ राज्ये सौख्येऽर्थे पालने रतौ । विहारे व्यवहारे च फणिनः फणदेहयोः ॥ १९६९ ॥ Śabdaratnākara 4.1.1969
- त्रिकाण्डशेष जम्भगर्दभं शुक्लकुमुदे खरे पुंस्यऽथ दानवे । जम्बीरे व्यवहारे च जम्भो दन्तेऽपि चेष्यते ॥ २८६ ॥ Trikāṇḍaśeṣa 3.3.286
- त्रिकाण्डशेष प्रवाहसमारम्भे च पटहो ब्रह्मण्यपि पितामहः । प्रवाहो व्यवहारे च बहुर्विपुलसङ्ख्ययोः ॥ ४५९ ॥ Trikāṇḍaśeṣa 3.3.459
- वैजयन्ती अर्थअर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥ ३ ॥ Vaijayantī 6.1.3
- वैजयन्ती पणपट्टो नेत्रेऽपि शाणे स्यात् पिण्डिः कल्केऽपि तैलजे । पणो मूल्ये ग्लहे माने कार्षिकव्यवहारयोः ॥ ३४ ॥ Vaijayantī 6.1.34
- वैजयन्ती अक्षअक्षो रथांग आधारे व्यवहारे विभीतके । शकटे पाशके कर्षे द्यूतभेदेऽक्षमिन्द्रिये ॥ २ ॥ Vaijayantī 6.5.2