कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāradīyākhyanāmamālā

शारदीयाख्यनाममाला Śāradīyākhyanāmamālā

462 verses · 4,677 words tagged · 226 marked doubtful (dashed)

द्वितीयः काण्डः · संयोगादिवर्गः

॥ इत्यङ्गवर्गः ॥

मन्दिरं सदनं सद्म निलयो भवनं गृहम् ।ओको निवास आवासो धिष्ण्यं धाम निकेतनम् ॥ ६८ ॥
2.2.68 · p. 26
अनुष्टुप्
आगारं वेश्म वसतिर्निशान्तं शरणं क्षयः ।प्रासाद आलयः सौधं हर्म्यं गेहं कुटाश्रयौ ॥ ६९ ॥
2.2.69 · p. 26
अनुष्टुप्
गर्भागारोऽपवरको मण्डपो जनताश्रयः ।भाण्डागारः कोशकोषावङ्गण्यं [णं] चत्वराजिरे ॥ ७० ॥
2.2.70 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अट्टमट्टालकं क्षौमं गृहस्योपरिभूमिका ।चित्रशाला चतुर्द्वारं चन्द्रशाला शिरोगृहम् ॥ ७१ ॥
2.2.71 · p. 26
अनुष्टुप्
शय्यागृहं वासगृहं क्रीडासद्म रतास्पदम् ।वातायनं गवाक्षश्च जालको लघुमण्डपः ॥ ७२ ॥
2.2.72 · p. 26
अनुष्टुप्
दीपो गृहमणिर्ज्योतिः प्रदीपः कज्जलध्वजः ।आसनं विष्टरः पीठं भद्रासनं तदुत्तमम् ॥ ७३ ॥
2.2.73 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
खट्वा पर्यङ्कपल्यङ्काष्टशल्यामञ्चमञ्चकाः ।शय्या च शयनं तल्पं शयनीयं च तूलिका ॥ ७४ ॥
2.2.74 · p. 26
अनुष्टुप्
उच्छीर्षकमुपधानमुपबर्हं च गिन्दुकम् ।चन्द्रोदयो वितानं चोल्लोचः कदक इत्यपि ॥ ७५ ॥
2.2.75 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् ।अङ्कपाली परिरम्भो मेलकः सङ्गसंगमौ ॥ ७६ ॥
2.2.76 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
मैथुनं कामकेलिश्च संभोगः सुरतं रतम् ।रहोरतिर्निधुवनं ग्राम्यधर्मश्च मोहनम् ॥ ७७ ॥
2.2.77 · p. 27
अनुष्टुप्
क्रीडा लीला विलासश्च केलिर्नर्म रतिर्द्रवः ।स्नेहः प्रीतिः प्रेमरागौ मैत्री सख्यं च सौहृदम् ॥ ७८ ॥
2.2.78 · p. 27
अनुष्टुप्
लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं स्यादपत्रपा ।हासस्तु हासिका हास्यं हसनं हसितं स्मितम् ॥ ७९ ॥
2.2.79 · p. 27
अनुष्टुप्
हर्षः प्रमोद आनन्दो ह्लादो मुन्मोदसम्मदाः ।हावः सुखविकारः स्याद्भावश्चित्तसमुद्भवः ॥ ८० ॥
2.2.80 · p. 27
अनुष्टुप्
विलासः सहजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः ।तुष्टिः प्रीती रतिः स्वास्थ्यं संतोषो निर्वृतिर्धृतिः ॥ ८१ ॥
2.2.81 · p. 27
अनुष्टुप्
शान्तं सौख्यं सुखं शर्म शंसा वा शुभवेदनम् ।विधिश्च नियतिर्दिष्टं दैवं भाग्यं शुभं त्वयः ॥ ८२ ॥
2.2.82 · p. 27
अनुष्टुप्
दयानुकम्पा करुणानुक्रोशश्च कृपा घृणा ।प्रसनता प्रसत्तिश्च प्रसादोऽनुग्रहो हितम् ॥ ८३ ॥
2.2.83 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
भावो मतमभिप्रायश्छन्द आकूत आशयः ।शीलं स्वभावः सहजो निसर्गः प्रकृती रुचिः ॥ ८४ ॥
2.2.84 · p. 27
अनुष्टुप्
आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमित्यपि ।कौतूहलं च कुतुकं कौतुकं च कुतूहलम् ॥ ८५ ॥
2.2.85 · p. 27
अनुष्टुप्
लोभस्तृष्णा स्पृहा लिप्सा काङ्क्षा सेहा च लालसा ।कामस्तर्षोऽभिलाषस्तृडिच्छा वाञ्छा मनोरथः ॥ ८६ ॥
2.2.86 · p. 27
अनुष्टुप्
गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः ।हठो मदः स्मयो दर्प औद्धत्यमवलिप्तता ॥ ८७ ॥
2.2.87 · p. 28
अनुष्टुप्
कोपः क्रोधोऽमर्षरोषौ प्रतिघो मन्युरुट्क्रुधः ।ईर्षासूयाभिषङ्गश्च संरम्भोऽक्षान्तिरक्षमा ॥ ८८ ॥
2.2.88 · p. 28
अनुष्टुप्
कैतवं कपटं दम्भः कूटं छद्मोपविश्छलम् ।व्यपदेशो मिषं व्याजं निभं लक्ष्यं छलं च तत् ॥ ८९ ॥
2.2.89 · p. 28
अनुष्टुप्
माया तु शठता शाठ्यं वञ्चनं विप्रतारणम् ।शङ्कातङ्कौ दरस्त्रासो भीतिर्भीः साध्वसं भयम् ॥ ९० ॥
2.2.90 · p. 28
अनुष्टुप्
निद्रा तन्द्रा प्रमीला च स्वापः संवेशसंलयौ ।उपांशुश्छन्नमेकान्तं विविक्तं विजनं रहः ॥ ९१ ॥
2.2.91 · p. 28
अनुष्टुप्
प्रस्तावोऽवसरो वेला वारश्च समयः क्षणः ।आगोऽपराधो मन्तुश्च व्यलीकं विप्रियाहिते ॥ ९२ ॥
2.2.92 · p. 28
अनुष्टुप्
विप्रलम्भो विप्रयोगो वियोगो विरहः स्मृतः ।रोदनं रुदितं क्रन्दो विलापः परिदेवनम् ॥ ९३ ॥
2.2.93 · p. 28
अनुष्टुप्
बाष्पो श्रमांशु (?) नेत्राम्बु घर्मः स्वेदः श्रमाम्बु च ।पुलकः कण्टको रोमहर्षो रोमाञ्च इत्यपि ॥ ९४ ॥
2.2.94 · p. 28
अनुष्टुप्
उत्कण्ठोत्कलिकौत्सुक्यं हृल्लेखारलकारती (?) ।मौनं चाजल्पनं तूष्णी[ष्णीं?] चिन्तनं स्मरणं स्मृतिः ॥ ९५ ॥
2.2.95 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शोकः शुक् शोचनं खेदः पश्चात्तापोऽप्यनिर्वृतिः ।विषाद आधिरुद्वेगश्चिन्ता कम्पश्च वेपथुः ॥ ९६ ॥
2.2.96 · p. 28
अनुष्टुप्
प्रयासायासव्यायामा ग्लानिः खेदः क्लमः श्रमः ।व्यर्थं वृथा मुधा मोघं निःफलं च निरर्थकम् ॥ ९८ ॥
2.2.98 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
शाप आक्रोश आक्षेपो भर्त्सनं तर्जनं च धिक् ।परिभाषणमुपालम्भः शपथः शपनं शपः ॥ ९९ ॥
2.2.99 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अवधिः पूर्णता सीमा मर्यादा धारणा स्थितिः ।वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः किंवदन्त्यपि ॥ १०० ॥
2.2.100 · p. 29
अनुष्टुप्
संदेशो वाचिकं वाच्यं लेखः पत्रं च पत्रिका ।प्रसादनमनुनयः सान्त्वनं चटु चाटु च ॥ १०१ ॥
2.2.101 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
व्याहारो भाषितं चोक्तिर्वाग्वाक्यं वचनं स्मृतम् ।प्रश्नः पृच्छानुयोगश्च प्रतिवाक्यं तदुत्तरम् ॥ १०२ ॥
2.2.102 · p. 29
अनुष्टुप्