कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रबर्ह

prabarhaवि · adj.

In 4 kośas: 4 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1439 · p. 54
मुख्यं प्रकृष्टं प्रमुखं प्रबर्हं वर्यं वरेण्यं प्रवरं पुरोगम् ।अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाग्रे ॥ १४३८ ॥ग्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे ।प्रेष्ठपरार्ध्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ १४३९ ॥
metre not recognised
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.108 · p. 226
मुख्यं वर्यं वरेण्यं च प्रबर्हं च प्रबर्हणम् ।परार्ध्यानवरार्ध्यौ द्वे पूरणः पूरकः समौ ॥ १०८ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.65 · p. 18
अग्रेसरमग्रहरं ग्राम[170a]णि चाग्रणि परं प्रबर्हं च ।वरमनवरार्ध्यमुत्तममनुत्तमानुत्तर-प्रष्ठाः ॥ ६५ ॥
आर्या
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1573 · p. 190
अर्घ्यः परार्घ्यः प्रवरो वरेण्यः प्राग्र्यः प्रवेकः प्रमुखः प्रकृष्टः ।अनुत्तमः प्राग्रसरः प्रबर्हः श्रेष्ठोत्तमाग्रीयवरिष्ठवर्याः ॥ १५७३ ॥
उपजातिः
genderविadj.