कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अनुत्तम

anuttamaवि · adj.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1439 · p. 54
मुख्यं प्रकृष्टं प्रमुखं प्रबर्हं वर्यं वरेण्यं प्रवरं पुरोगम् ।अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाग्रे ॥ १४३८ ॥ग्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे ।प्रेष्ठपरार्ध्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ १४३९ ॥
metre not recognised
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.103
क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ॥ ५७ ॥परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.689 · p. 79
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.65 · p. 18
अग्रेसरमग्रहरं ग्राम[170a]णि चाग्रणि परं प्रबर्हं च ।वरमनवरार्ध्यमुत्तममनुत्तमानुत्तर-प्रष्ठाः ॥ ६५ ॥
आर्या
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.328 · p. 93
परप्रष्ठपरार्ध्यानि ग्रामण्यग्रण्यनुत्तमम् ।श्रेष्ठसत्तमतुल्याश्च शब्दा योज्या धिया स्वयम् ॥ ३२८ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2615 · p. 422
प्रधानं चोत्तमं जात्यमनुत्तममनुत्तरम् ।बर्य्यं चाऽनवरार्ध्यं वै परार्ध्थं ग्रामणीः पुनः ॥ २६१५ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.10 · p. 164
प्रग्रहोऽनुत्तमोऽग्रीयः प्रवेकाग्र्याग्रिया अपि ।परार्ध्योऽनवरार्ध्योऽपि प्रधानं प्रवीरमित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.41 · p. 252
अग्रिममनुत्तमं चोत्तमं चाऽनवरा-ऽर्ध्यवत् ।परं परार्ध्यं ग्रामण्य-ऽग्रण्यग्रे प्रष्ठमन्तठम् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1573 · p. 190
अर्घ्यः परार्घ्यः प्रवरो वरेण्यः प्राग्र्यः प्रवेकः प्रमुखः प्रकृष्टः ।अनुत्तमः प्राग्रसरः प्रबर्हः श्रेष्ठोत्तमाग्रीयवरिष्ठवर्याः ॥ १५७३ ॥
उपजातिः
genderविadj.