प्रष्ठ
praṣṭhaपुं · masc.In 10 kośas: 13 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
सरः पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ ४९८ ॥प्रष्ठोऽथावेशिकागन्तू प्राघुणोऽभ्यागतोऽतिथिः ।प्राघूर्णिके थावेशिकमातिथ्यं चातिथेय्यपि ॥ ४९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वे (wrong syllable)
genderपुंmasc.
पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः ।पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
प्रष्ठाग्रतःसरावग्रेसर उक्तः प्रतिष्कशः ।सव्यसाची तु वामेन बाहुनापि शरं क्षिपन् ।आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ ९७ ॥
अनुष्टुप्
genderविadj.
अग्रेसरमग्रहरं ग्राम[170a]णि चाग्रणि परं प्रबर्हं च ।वरमनवरार्ध्यमुत्तममनुत्तमानुत्तर-प्रष्ठाः ॥ ६५ ॥
आर्या
genderविadj.
परप्रष्ठपरार्ध्यानि ग्रामण्यग्रण्यनुत्तमम् ।श्रेष्ठसत्तमतुल्याश्च शब्दा योज्या धिया स्वयम् ॥ ३२८ ॥
अनुष्टुप्
genderविadj.
पुरोगोऽग्रसरश्चापि पुरोगाम्यग्रतःसरः ।प्रष्ठः पुरोगमश्चैवाभ्यागतोऽपि विभाव्यते ॥ १६४ ॥
अनुष्टुप्
genderविadj.
पुरोगमः पुरोगामी प्रष्ठोऽग्रतःसरस्तथा ।अग्रसरः पुरोगश्च ह्यग्रेगूश्च पुरःसरः ॥ ७७७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable); pāda 3, syllable 3 स (wrong syllable)
genderपुंmasc.
अग्रीयश्चाग्रियोऽग्र्यं वै प्रष्ठं प्राग्रहरं परम् ।प्रकृष्टं प्रमुखं चैव पुरोगं प्रवरं वरम् ॥ २६१४ ॥
अनुष्टुप्
genderविadj.
अग्रेसरोऽप्यग्रसरोऽग्रतःसर-पुरःसरौ ।पुरोगमः पुरोगश्च प्रष्ठो नासीर इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
कन्दरोऽपि दरो, दर्याः प्रस्थे प्रष्ठोऽपि सानुयुक् ।स्नुर्ना तालव्यमूर्धन्यमध्यौ पाषाणयुग्दृषत् ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
अग्रिममनुत्तमं चोत्तमं चाऽनवरा-ऽर्ध्यवत् ।परं परार्ध्यं ग्रामण्य-ऽग्रण्यग्रे प्रष्ठमन्तठम् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
अन्वग्गाम्यनुगामी च पुरोगामी पुरःसरः ।पुरोगोऽग्रेसरः प्रष्ठश्चाग्रतःसर इत्यपि ॥ १३६४ ॥
अनुष्टुप्
genderपुंmasc.
छायाकरश्छत्रधरः पताकी वैजयन्तिकः ।पुरस्सरः पुरोगोऽग्रेसरः प्रष्ठोऽग्रतः सरः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
कुष्ठं तु रोगेऽपि सुगन्धभेदेगोष्ठी ********* ।संलापसंसत्सु चरमे तु गोस्थले-ऽथाधमेऽप्यसारे च दुष्टः स्यात् ।प्रष्ठः पुरोगामिनि च प्रशस्येचण्डालिकासंज्ञक औषधे स्त्री ।ज्येष्ठोऽतिवृद्धे त्रिषु च प्रशस्येमासे तु ना स्त्री तु भभिन्मुसल्योः ॥ ५७ ॥
इन्द्रवज्राmetre not read in every line
प्रष्ठ as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप प्रतिष्कशभेद्यवत् तु नियोज्ये स्यात् त्रिषु तु स्यात् प्रतिष्कशः । प्रतिगन्तरि प्रष्ठे च सहायेऽप्यथ पुंस्ययम् ॥ ३२९ ॥ Nānārthārṇavasaṃkṣepa 6.329