अग्रेसर
agresaraवि · adj.In 14 kośas: 16 synonym verses.
सरः पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ ४९८ ॥प्रष्ठोऽथावेशिकागन्तू प्राघुणोऽभ्यागतोऽतिथिः ।प्राघूर्णिके थावेशिकमातिथ्यं चातिथेय्यपि ॥ ४९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वे (wrong syllable)
genderपुंmasc.doubtful
मुख्यं प्रकृष्टं प्रमुखं प्रबर्हं वर्यं वरेण्यं प्रवरं पुरोगम् ।अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाग्रे ॥ १४३८ ॥ग्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे ।प्रेष्ठपरार्ध्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ १४३९ ॥
metre not recognised
genderविadj.
पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः ।पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
अग्र्यं प्रधानं प्रमुखं पुरोगं,मुख्यं परार्ध्यं प्रवरं प्रवर्हम् ।अग्रेसरं सत्तममुत्तमं च,ग्रामण्यमग्रण्यमुदाहरन्ति ॥ ६९० ॥
इन्द्रवज्रा
genderविadj.
आमात्यः स्यादमात्योऽग्रेसराप्यग्रसरः समौ ।मौहूर्तिकः स्यान्मौहूर्तो ज्योतिषं ज्यौतिषं भवेत् ॥ २०३ ॥
अनुष्टुप्
genderविadj.
अग्रेसरोग्रे भविता पुरोगो नायकोऽपि च ।पुरोगमः पुरोगामी स चैवाग्राग्रतः सरः ॥ २४१ ॥
अनुष्टुप्
genderपुंmasc.
प्रष्ठाग्रतःसरावग्रेसर उक्तः प्रतिष्कशः ।सव्यसाची तु वामेन बाहुनापि शरं क्षिपन् ।आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ ९७ ॥
अनुष्टुप्
genderविadj.
अग्रेसरमग्रहरं ग्राम[170a]णि चाग्रणि परं प्रबर्हं च ।वरमनवरार्ध्यमुत्तममनुत्तमानुत्तर-प्रष्ठाः ॥ ६५ ॥
आर्या
genderविadj.
वर्य्यं मुख्यं प्रकृष्टं च वरेण्यप्रवरे वरम् ।प्रवेकानुत्तरेऽग्र्यं चाग्रेसरं प्रमुखं तथा ॥ ३२७ ॥
अनुष्टुप्
genderविadj.
पांशुर्धूली रजो रेणुः केतुमद्वैजयन्तिका ।अग्रेसरः पुरोयायी वभयं? विजयो जयः ॥ २३७ ॥
अनुष्टुप्
genderपुंmasc.
मुख्यः प्रधानः प्रवरो वर्योऽग्र्योऽग्रेसरोऽग्रणीः ।प्रकृष्टश्च परार्ध्यश्च पुंगवः सत्तमः परः ॥ ९८ ॥
अनुष्टुप्
genderविadj.
मुख्यमऽग्रेसरं चाऽग्रं प्राग्र्योऽग्रणीस्तथाऽग्रिमम् ॥ २६१३ ॥
metre not recognised
genderविadj.
अग्रेसरोऽप्यग्रसरोऽग्रतःसर-पुरःसरौ ।पुरोगमः पुरोगश्च प्रष्ठो नासीर इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
प्रष्ठे सरोऽग्रेऽग्र-पुरः-परतो गम-गामि-गाः ।पुरस्तः आवेशेके तु स्तः प्राघूर्णक-प्राघुणौ ॥ १०९ ॥
अनुष्टुप्metre not read in every line
genderविadj.doubtful
अन्वग्गाम्यनुगामी च पुरोगामी पुरःसरः ।पुरोगोऽग्रेसरः प्रष्ठश्चाग्रतःसर इत्यपि ॥ १३६४ ॥
अनुष्टुप्
genderपुंmasc.
छायाकरश्छत्रधरः पताकी वैजयन्तिकः ।पुरस्सरः पुरोगोऽग्रेसरः प्रष्ठोऽग्रतः सरः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.