वरेण्य
vareṇyaवि · adj.In 14 kośas: 15 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
मुख्यं प्रकृष्टं प्रमुखं प्रबर्हं वर्यं वरेण्यं प्रवरं पुरोगम् ।अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाग्रे ॥ १४३८ ॥ग्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे ।प्रेष्ठपरार्ध्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ १४३९ ॥
metre not recognised
genderविadj.
क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ॥ ५७ ॥परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ।
अनुष्टुप्
genderविadj.
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
स्यादस्त्रियां दिव्यमथ काश्मीरं पिशुनं वरम् ।शठं वरेण्यं घुसृणमरुणं वह्निशेखरम् ॥ ३७८ ॥
अनुष्टुप्
genderक्लीneut.
मुख्यं वर्यं वरेण्यं च प्रबर्हं च प्रबर्हणम् ।परार्ध्यानवरार्ध्यौ द्वे पूरणः पूरकः समौ ॥ १०८ ॥
अनुष्टुप्
genderविadj.
उत्कृष्टं च प्रकृष्टं च ******** ।मुख्यं प्रमुखं वर्यं प्रवरं प्राग्र्यं वरेण्यमग्र्यं च ।उत्तममग्राग्रीय-प्राग्रहराग्रिय-परार्ध्य-जात्यानि ॥ ६४ ॥
metre not recognised
genderविadj.
धातोर्वर्तयतेरर्थे पिण्डीकरण एव च ।स्याद्भेद्यवत् तु वर्तिष्णौ वरेण्यं त्वभिधेयवत् ॥ १६१० ॥
अनुष्टुप्
genderविadj.
वर्य्यं मुख्यं प्रकृष्टं च वरेण्यप्रवरे वरम् ।प्रवेकानुत्तरेऽग्र्यं चाग्रेसरं प्रमुखं तथा ॥ ३२७ ॥
अनुष्टुप्
genderविadj.
शून्ये वशी(शि?)कं वावीरं तुच्छं रिक्तं च रिक्तकम् ।मुख्ये वर्यो वरेण्यश्च प्रधानप्रमुखोत्तमाः ॥ ६८५ ॥
अनुष्टुप्
genderविadj.
प्रवर्हं च प्रवेकं वै वरेण्यं च प्रसिद्धकम् ।एतन्नामानि मुख्यस्य सर्वं विशेषणार्थकम् ॥ २६१६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderविadj.
अथातिशोभने मुख्यं श्रेष्ठपुष्कलसत्तमाः ।वरेण्यः प्रमुखः श्रेयान् अग्रप्राग्रहरोत्तमाः ॥
अनुष्टुप्
genderविadj.
प्रधानमजहल्लिङ्गं वाच्यलिङ्गमपि स्मृतम् ।वरं वरेण्यं प्रवरमग्र्यमग्रीयमग्रियम् ॥ ४० ॥
अनुष्टुप्
genderविadj.
अर्घ्यः परार्घ्यः प्रवरो वरेण्यः प्राग्र्यः प्रवेकः प्रमुखः प्रकृष्टः ।अनुत्तमः प्राग्रसरः प्रबर्हः श्रेष्ठोत्तमाग्रीयवरिष्ठवर्याः ॥ १५७३ ॥
उपजातिः
genderविadj.
वृषघ्नः शङ्ख(ङ्कु)कर्णी च मृत्युरूपो बकेश्वरः ।अस्त्यात्मा च वरेण्यश्च वान्तो हृद्दक्षहस्तगः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
मुख्यवर्यवरेण्याश्च प्रवेकोऽनपरार्थ्यवत् ।श्रेष्ठः प्राग्रहरं प्राग्रमग्रमग्रीयमग्रियम् ॥ ६३ ॥
अनुष्टुप्
genderविadj.
श्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ ।मेघेऽङ्गिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११ ॥
अनुष्टुप्
meaningsश्रेष्ठ
doubtful
वरेण्य as a meaning in nānārtha verses
- कोषकल्पतरु कथाप्रसङ्गवातूलवाची तु कथाप्रसङ्गो विषागदंकारवरेण्यवत्स्यात् । काकोलके स्याद्रतहिण्डके च नाडीतरङ्गो नरि हिण्डके [च] ॥ ३१ ॥ Koṣakalpataru 6.3.31
- कोषकल्पतरु वर्यतथार[36a]भट्यां मदने तु वर्यः पतिंवरायां तु भवेत्स्त्रियां सः । त्रय्यां वरेण्ये कमठे तु दम्भे गुह्योऽप्युपस्थे रहसि द्वयोनः ॥ १६ ॥ Koṣakalpataru 6.26.16