श्रेष्ठ
śreṣṭhaवि · adj.In 18 kośas: 17 synonym verses, 3 as a nānārtha head word, 90 as a meaning of another word.
मुख्यं प्रकृष्टं प्रमुखं प्रबर्हं वर्यं वरेण्यं प्रवरं पुरोगम् ।अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाग्रे ॥ १४३८ ॥ग्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे ।प्रेष्ठपरार्ध्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ १४३९ ॥
metre not recognised
genderविadj.
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
कृतान्तकः पद्मिनीशः सोमः स्यान्मित्रपञ्चकः ।ब्रह्मा महामहः श्रेष्ठो विश्वकर्ता समन्तदृक् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
ताम्रं शुल्बं मर्कटाख्यं रक्तं व्यष्टं कनीयसम् ।म्लेच्छं वरिष्ठं म्लेच्छास्यं श्रेष्ठं रिष्टमुदुम्बरम् ॥ ६१ ॥
अनुष्टुप्
genderक्लीneut.
द्युः कः कर्कश्च दस्मश्च शोणो धिष्ण्यश्च भास्करः ।तुत्थः श्रेष्ठश्च यज्ञश्च तमोहा हौमिरेधतुः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
धनकेलिः सुप्रसन्नो महासूचः प्रमोदितः ।श्रेष्ठोऽथाप्यस्य तनयो नलकूवर इत्यपि ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
******** शालि श्लाघ्यं प्रशस्तवत् ।प्रबर्हणं प्रवेकं च प्रधानं ध्रुवमन्तिमे ।श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभनः ॥ ६६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
परप्रष्ठपरार्ध्यानि ग्रामण्यग्रण्यनुत्तमम् ।श्रेष्ठसत्तमतुल्याश्च शब्दा योज्या धिया स्वयम् ॥ ३२८ ॥
अनुष्टुप्
genderविadj.
श्रेयः श्रेष्ठं पुष्कलञ्च सत्तममऽतिशोभनम् ।तथोत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ २६१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्त (wrong syllable)
genderविadj.
अथातिशोभने मुख्यं श्रेष्ठपुष्कलसत्तमाः ।वरेण्यः प्रमुखः श्रेयान् अग्रप्राग्रहरोत्तमाः ॥
अनुष्टुप्
genderविadj.
सत्तमे श्रेयसा श्रेष्ठं स्यात् टवर्गद्वितीययुक् ।उपसर्जनमाविष्टलिङ्गं स्यादप्रधानके ॥ ४२ ॥
अनुष्टुप्
genderविadj.
श्रेष्ठं कनीयसद्विष्टं वरिष्ठं मर्कटाननम् ।स्फाटिकोऽर्कः समाः सूर्यकान्तार्काश्मानलोपलाः ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
स्थूलदूरयुवह्नस्वक्षिप्रक्षुद्रातिशायने ।स्युः स्थविष्ठयविष्ठाद्याः श्रेष्ठो ज्यायानथ क्रमात् ॥ १६२३ ॥
अनुष्टुप्
genderविadj.
प्रेङ्खितं स्याद्विलुलितं शालिश्रेष्ठावुभौ समौ ।परभागो गुणोत्कर्षे संदर्भो रचना न ना ॥ १८५४ ॥
अनुष्टुप्
genderविadj.
निपानं स्त्री गवी तुम्बा निलिम्पा रोहिणी च सा ।गव्यं श्रेष्ठं पुंसवनं स्याद्दोहापनयः पुमान् ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
म्लेच्छ वरिष्ठं म्लेच्छास्यं श्रेष्ठं काम्यमुद्रुंबरम् ।रिरी तु रीतिरुत्साहा पीतलोहं सुलोहकम् ॥ २५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मुख्यवर्यवरेण्याश्च प्रवेकोऽनपरार्थ्यवत् ।श्रेष्ठः प्राग्रहरं प्राग्रमग्रमग्रीयमग्रियम् ॥ ६३ ॥
अनुष्टुप्
genderविadj.
श्रेष्ठ as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् ग्रामणीग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ४९ ॥ Amarakośa 3.3.49
- नामलिङ्गानुशासनम् वरदेवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये ॥ १७३ ॥ Amarakośa 3.3.173
- नामलिङ्गानुशासनम् उत्तरउपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः । एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः ॥ १९१ ॥ Amarakośa 3.3.191
- नामलिङ्गानुशासनम् वृषशुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ २२१ ॥ Amarakośa 3.3.221
- हलायुधकोशः (अभिधानरत्नमाला) विकटचिन्तायामपि चर्चा जगती राजप्रधानलोकेऽपि । ऋतुरङ्गनारजस्यपि विकटं श्रेष्ठेऽपि निर्दिष्टम् ॥ ७९४ ॥ Abhidhānaratnamālā (Halāyudha) 5.794
- हलायुधकोशः (अभिधानरत्नमाला) सुरभिप्रतिपत्प्रतिपत्तावपि शादः शष्पे घृणा जुगुप्सायाम् । उत्तालमुन्नतेऽपि श्रेष्ठेऽपि निगद्यते सुरभिः ॥ ८०० ॥ Abhidhānaratnamālā (Halāyudha) 5.800
- हलायुधकोशः (अभिधानरत्नमाला) जात्यअवश्यभृशयोर्वाढं दायादस्तुक्सपिण्डयोः । कुलीनश्रेष्ठयोर्जात्यं कोटिरुत्कर्षसंख्ययोः ॥ ८३६ ॥ Abhidhānaratnamālā (Halāyudha) 5.836
- हलायुधकोशः (अभिधानरत्नमाला) सारनिष्ठा क्लेशेऽवसाने च व्यवस्थोत्कर्षयोर्व्रते । श्रेष्ठे स्थाम्नि धने शुक्रे मज्ज्ञि सार उदाहृतः ॥ ८५३ ॥ Abhidhānaratnamālā (Halāyudha) 5.853
- धरणिकोश नागनागाः स्युर्गजकाद्रवेयजलदा नागी गजी च स्मृता नागः सीसकरङ्गयोश्च करणे सूर्येन्दुयोगोद्भवे । दुराचारिणि नागकेसरतरौ नागः स्मृतो मुस्तके [16] पुन्नागेऽपि च नागदन्तक इति श्रेष्ठे पदानुत्तरः ॥ Dharaṇikośa 3.3.4
- धरणिकोश ज्येष्ठज्येष्ठो वृद्धेऽग्रजे श्रेष्ठे ज्येष्ठा च गृहयोधयोः । कण्ठो गले गलध्वाने कण्ठः फेणसमीपयोः ॥ Dharaṇikośa 11.2.3
- धरणिकोश ऋषभऋषभस्तु बलीवर्दे श्रेष्ठे गीते स्वरान्तरे । अष्टवर्गौषधीमध्ये ऋषभः पर्वतान्तरे ॥ Dharaṇikośa 23.3.3
- धरणिकोश सत्तमसत्तमः कथितः श्रेष्ठः साधीयानपि सत्तमः । सुषीमः शिशिरे ख्यातश्चारौ च पन्नगान्तरे ॥ Dharaṇikośa 24.2.18
- धरणिकोश प्रवरप्रवरं संततौ श्रेष्ठे चाक्षरं ब्रह्मवर्णयोः । प्रतीहारो द्वारि द्वाःस्थे संप्रहारः सृते हतौ ॥ Dharaṇikośa 26.1.21
- धरणिकोश अनुत्तरचराचरं जगदिदं गगने गतिमत्यपि । अनुत्तरः स्थिरेऽनूर्ध्वे श्रेष्ठेऽवाच्योऽप्यनुत्तरः ॥ Dharaṇikośa 26.2.70
- धरणिकोश भद्रभद्रं मुस्तकसाधुनोः सुतसुखश्रेष्ठेषु भद्रा पुन- र्गम्भारीजघनेफलासुरसरिद्रास्नार्धचन्द्रासु च । भद्रो मेरुकदम्बके च वृषभे भद्रस्तथा खञ्जने भद्रः कुञ्जरजातिभेदकरणे भद्रं स्मृतं मङ्गलम् ॥ Dharaṇikośa 26.3.2
- धरणिकोश वरवरः श्रेष्ठे जामातरि परिवृतौ साधु च वरं वरोऽभीष्टे देवासुरमभिहितं कुङ्कुममपि । वरीमिन्दीवर्यामभिदधति षिङ्गेऽपि च वरं मनागिष्टे यत्स्याद्वरमथ च तच्चाव्ययमपि ॥ Dharaṇikośa 26.3.20
- धरणिकोश शम्बरशम्बरः संयुगे वृद्धे मृगदैत्यप्रभेदयोः । श्रेष्ठे शिवारथौषध्यां शम्बरी शम्बरं जलम् ॥ Dharaṇikośa 26.3.35
- धरणिकोश उत्तरउत्तरं वाग्विशेषार्थश्रेष्ठोदीच्येषु कीर्तितम् । उत्तरा दिग्विराटाख्यनृपस्यौरस उत्तरः ॥ Dharaṇikośa 26.3.37
- धरणिकोश शार्दूलपातालं नागलोके स्यात्पातालं वाडवानले । शार्दूलो द्वीपिनि श्रेष्ठे पशुपक्षविशेषयोः ॥ Dharaṇikośa 27.2.40
- धरणिकोश वृषवृषः श्रेष्ठाखुधर्मेषु प्राह्यदे ? शुक्रले गवि । वृषः कोवालिभेदे ? च वृषा मूषिकपर्णिका ॥ Dharaṇikośa 30.3.1
- धरणिकोश उरस्तरः स्याद्वेराबलयो रहः सुरतगुह्ययोः । उरः श्रेष्ठमुरो वक्षः पयः क्षीरं पयो जलम् ॥ Dharaṇikośa 31.1.6
- धरणिकोश ज्यायस्ज्योतिर्वह्नौ रवौ नेत्रे दीप्तौ च तारकासु च । ज्यायान् श्रेष्ठे च वृद्धे च प्रशस्येऽतितरामपि ॥ Dharaṇikośa 31.2.9
- धरणिकोश विवि श्रेष्ठातीतनानार्थो बिः स्यात्पक्षी त्वनव्ययम् । वै स्यात्संबोधने पादपूरणेऽनुनयेऽपि च ॥ Dharaṇikośa 34.13.2
- कोषकल्पतरु सारम्नवरं केवले प्रोक्तं वरं युक्तं दरं पुनः । स्तोकेऽथ सारं श्रेष्ठे स्याद्विभक्तिप्रतिरूपकम् ॥ ८८ ॥ Koṣakalpataru 5.1.88
- कोषकल्पतरु ग्रामणीजीर्णे वाच्यसमं पुराणमयुगे स्यात्पञ्चलक्ष्मण्यपि ग्रन्थे भोगिकनायके क्षुरिणि ना ग्रामाधिपे ग्रामणीः । श्रेष्ठे च त्रितये स्त्रियां तु गदिता नील्यां च वारस्त्रियां ग्राम्यायां च घृणौ तु[284a] पुंसि किरणो विक्षेपणे त्वन्तिमे । द्रुमभित्सेतुशालेषु वरणो नान्तिमे वृतौ । गुणिन्यृजौ च प्रगुणो रवणः शब्दने खरे ॥ ४८ ॥ Koṣakalpataru 6.15.48
- कोषकल्पतरु ऋषभस्वराष्टवर्गौषधभेदयोश्च वराहपुच्छे नरि कर्णरन्ध्रे । श्रेष्ठे पदस्याग्रगतोऽन्यवत्स्यात् स्त्री शूकशिम्ब्यां[29b]विधवाङ्गनायाम् ॥ ४७ ॥ Koṣakalpataru 6.24.47
- कोषकल्पतरु वृषभशिरालतायां नृसमस्त्रियां च श्रेष्ठे वृषे स्याद्वृषभस्तथैव । स्याद्वल्लभो भर्त्तरि ना कुलीना- श्वे गोधिकारिण्यपि वाच्यवत्तु ॥ ४८ ॥ Koṣakalpataru 6.24.48
- कोषकल्पतरु सत्तमस्याद्ब्रह्मचर्यादिचतुष्टयेऽस्त्री तथाश्रमः स्यान्मठवाचकोऽपि । स्यात्सत्तमः संयमे वाच्यवत्तु श्रेष्ठे च पूज्ये नियमस्तु पुंसि ॥ ८४ ॥ Koṣakalpataru 6.25.84
- कोषकल्पतरु भद्रभद्रो हरे स्याद्वृषभे च मेरु- कदम्बके वारणजातिभेदे । स्याद्रामदूतेऽपि च खञ्जरीटे श्रेष्ठे तु साधुन्यपि वाच्यलिङ्गः ॥ ४५ ॥ Koṣakalpataru 6.27.45
- कोषकल्पतरु प्रवरअर्चेय( ? )संतत्यभिधानवाची- श्रेष्टेऽन्यवत्स्याच्छबरस्तु पुंसि । शंभौ च चाण्डालकजातिभेदे क्लीबे तु तोयेऽथ निशाचरे स्यात् ॥ ८८ ॥ Koṣakalpataru 6.27.88
- कोषकल्पतरु अनुत्तरद्यूते पणे द्यूतकरे तु पुंसि लम्बोदरो मेदुरकुक्षियुक्ते । गजाननेऽथ प्रतिजल्पहीने श्रेष्ठेऽधरेऽनुत्तरमामनन्ति ॥ ३ ॥ Koṣakalpataru 6.27.3
- कोषकल्पतरु शार्दूलदोहदवत्यां श्राद्धे त्रिष्वथ रात्रिंचरे व्याघ्रे । शार्दूलः पशुभेदे पदोत्तरस्थस्त्रिषु श्रेष्ठे ॥ ५० ॥ Koṣakalpataru 6.28.50
- कोषकल्पतरु पुंगवश्रेष्ठे मतस्तूद्धव उत्सवे च क्रतोश्च वह्नौ हरिमातुले च । स्यादुत्सवस्तु प्रसरप्रकोप- महेषु पुंनागतरौ तु विष्णौ ॥ १८ ॥ Koṣakalpataru 6.29.18
- कोषकल्पतरु वरीयस्योगे वरीयानतियूनि वर्षे श्रेष्ठेऽथ दीर्घायुरशीतरश्मौ । काके तथा शाल्मलिपादपे च भवेच्चिरंजीविनि वाच्यलिङ्गः ॥ २९ ॥ Koṣakalpataru 6.31.29
- नानार्थार्णवसंक्षेप वृषन्वृषा तु वृषभे शक्रे श्रेष्ठे पुंसि तुरङ्गमे । छन्दोभेदे निदानोक्तेऽप्यष्टपञ्चाशदक्षरे ॥ ११४ ॥ Nānārthārṇavasaṃkṣepa 2.2.114
- नानार्थार्णवसंक्षेप ककुद्श्रेष्ठेऽप्यथ पुमान् क्रव्यात् प्रेतदाहानले द्वयोः । राक्षसे त्रि तु मांसादे कर्मशब्दस्तु पुन्नपोः ॥ १७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.177
- नानार्थार्णवसंक्षेप वर्यवंश्या कुस्तुम्बरीसंज्ञभेषजे स्यात् तु वर्यवाक् । त्रिषु श्रेष्ठे स्त्रियां वर्या तत्र या स्यात् पतिंवरा ॥ ११८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1186
- नानार्थार्णवसंक्षेप वर्ष्मन्क्रयविक्रयिके त्रि स्याद् वणिज्यायां पुनः स्त्रियाम् । व(र्ष्मे?र्ष्म) न स्त्री परिच्छेदे शरीरश्रेष्ठयोरपि ॥ १२०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1208
- नानार्थार्णवसंक्षेप वृषद्वे त्वश्वे मूषिके देवे त्रि तु स्याद्भूरिरेतसि । श्रेष्ठेऽपि सुकुले क्ली तु रेतस्यन्तःपुरेऽथ सा ॥ १२७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1276
- नानार्थार्णवसंक्षेप हंसहंसोऽर्केन्द्वो ----------- । राजादिशब्दपूर्वस्तु श्रेष्ठे ----ऽब्रवीत् ॥ १५७० ॥ Nānārthārṇavasaṃkṣepa 2.5.1570
- नानार्थार्णवसंक्षेप वृषभवीकाशस्तु रहस्युक्तः प्रकाशे वृषभः पुनः । उक्ष्णि श्रेष्ठेऽथ वृत्तान्तः प्रकारे कात्म्यवार्तयोः ॥ २०६ ॥ Nānārthārṇavasaṃkṣepa 3.2.206
- नानार्थार्णवसंक्षेप सत्तमसम्यक्स्थिते सत्तमस्तु श्रेष्ठ चाप्यतिशोभने । तथा पूज्यतमे चाथ सङ्कीर्णो निचितेऽपि च ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 3.4.59
- नानार्थार्णवसंक्षेप उत्तरश्रेष्ठे चाप्यजयस्त्वाह परे चैतत् स्त्रियां पुनः । कौबेर्यां दिशि ना तु स्यान्निम्नादुत्तारणे तथा ॥ २४९ ॥ Nānārthārṇavasaṃkṣepa 4.249
- नानार्थार्णवसंक्षेप ऋषभशृङ्गिसंज्ञे च भैषज्ये केचिच्छ्रेष्ठेऽपि मन्वते । अन्ये शब्दात् परः श्रेष्ठ इत्यूचू रमसः पुनः ॥ २८६ ॥ Nānārthārṇavasaṃkṣepa 4.286
- नानार्थार्णवसंक्षेप जीवकजीवकः स्यात् क्षपणके तथैवासनपादपे । त्रि तु श्रेष्ठे प्राणितरि वृद्धयाजीविनि सेवके ॥ ७९९ ॥ Nānārthārṇavasaṃkṣepa 4.799
- नानार्थार्णवसंक्षेप धवलअष्टानामेकलेख्ये स्याद् धवलस्तु नृलिङ्गकः । वृषभे श्वेतवर्णे च त्रिस्तु श्रेष्ठेऽपि सुन्दरे ॥ ९६९ ॥ Nānārthārṇavasaṃkṣepa 4.969
- नानार्थार्णवसंक्षेप वरेण्यश्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ । मेघेऽङ्गिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११ ॥ Nānārthārṇavasaṃkṣepa 4.1611
- नानार्थार्णवसंक्षेप सुगन्द्धित्रि तु तद्वति चारौ च श्रेष्ठे च स्यात् स्त्रियां पुनः । + + + + + वह्नौ स्यात् तथा चैत्रवसन्तयोः ॥ १९९० ॥ Nānārthārṇavasaṃkṣepa 4.1990
- नानार्थार्णवसंक्षेप अनुत्तरश्रेष्ठे च विपरीते तु प्रतिवाक्यस्य नष्ययम् । अयोमयस्त्वयस्कान्ते पुमान् स्त्रीपुंसयोः पुनः ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 6.56
- परमानन्दीयनाममाला अग्रप्रतिमापूर्जयोरर्चाग्रं श्रेष्ठे प्रथमेऽधिके । अस्तः क्षिप्ते गिरेर्भेदेऽऽशू रथाङ्गे च सत्वरे ॥ ९ ॥ Paramānandīyanāmamālā 5.1.9
- परमानन्दीयनाममाला ग्रामणीगोपुरं नगरद्वारे मुस्तकद्वारयोः पुनः । ग्रामणीः स्वामिनि श्रेष्ठे गर्जितो वारणान्तरे ॥ १६५ ॥ Paramānandīyanāmamālā 5.9.165
- परमानन्दीयनाममाला नागनागः सर्पे गजे नागकेसरे मुस्तकान्तरे । शब्दोत्तरस्थितः श्रेष्ठे शरीरपवनान्तरे ॥ २६१ ॥ Paramānandīyanāmamālā 5.18.261
- परमानन्दीयनाममाला पुंगवप्रकाशः प्रकटे रोगे प्रद्योते पुंगवो गवि । शब्दोत्तरस्थितः श्रेष्ठे पर्जन्यो वासवेन्द्रयोः ॥ ३०६ ॥ Paramānandīyanāmamālā 5.19.306
- शब्दरत्नावली एकक्रोडान्तिकापराधेषु तथाङ्कं पापदुःखयोः । एकः संख्याभेदे श्रेष्ठे त्रिषु स्यात् केवलान्ययोः ॥ Śabdaratnāvalī 7.1.3
- शब्दरत्नावली कर्ककर्कः श्रेष्ठे घटे कर्के शुक्लाश्वदर्पणाग्निषु । कङ्कः पक्षिविशेषे स्यात् कृतान्ते कैतवद्विजे ॥ Śabdaratnāvalī 7.1.4
- शब्दरत्नावली नायकनायको हारमध्यस्थमणौ श्रेष्ठे च नेतरि । निर्मोको व्यम्नि सन्नाहमोचने सर्पकञ्चुके ॥ Śabdaratnāvalī 7.1.95
- शब्दरत्नावली वृन्दारकवणिजि स्याद्वडवाग्नौ धूर्ते वाणिजिकः पुमान् । पुंसि देवे मनोज्ञे नु श्रेष्टे वृन्दारकस्त्रिषु ॥ Śabdaratnāvalī 7.1.186
- शब्दरत्नावली रत्नरत्नं श्रेष्ठे मनोज्ञे च मणावपि नपुंसकम् । रास्ना स्त्रियां भुजङ्गाक्ष्यामेलापर्ण्यौषधावपि ॥ Śabdaratnāvalī 7.20.16
- शब्दरत्नावली युवन्मार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥ मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥ यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥ यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥ योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.20.68
- शब्दरत्नावली ऋषभऋषभः स्वरभेदे स्यादष्टवर्गोषधान्तरे । कर्णरन्ध्रे च कुम्भीरपुच्छे धर्मे वृषेऽपि च ॥ पुमानुत्तरभाक्श्रेष्ठे नराकारस्त्रियां स्त्रियाम् । विधवायां शिरालायां पूकशिम्ब्यामृषभ्यपि ॥ Śabdaratnāvalī 7.24.9
- शब्दरत्नावली वर्यप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19
- शब्दरत्नावली प्रवरनिकारः स्यात्तिरस्कारे धान्योत्क्षेपणकेऽपि च । निष्ठुरं निर्भरे सारे निर्लज्जे कठिनेऽन्यवत् ॥ प्रवरं गोत्रसन्तत्योः क्लीबं श्रेष्ठेऽभिधेयवत् । प्रखरो वाजिसन्नाहकुक्कुराश्वतरेषु ना ॥ Śabdaratnāvalī 7.27.81
- शब्दरत्नावली शार्दूलशार्दूलो राक्षसे व्याघ्रे पशुभेदे पुमानयम् । स्यादुत्तरपदस्थोऽयं श्रेष्ठ एव निगद्यते ॥ Śabdaratnāvalī 7.28.96
- शब्दरत्नावली पुङ्गवअथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् । फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥ माधवो यादवे विष्णौ मधुवैशाखयोरपि । माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥ राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः । राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥ रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे । वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥ Śabdaratnāvalī 7.29.33
- शब्दरत्नावली उरस्भवेदुत्तंस उत्तसः कर्णपूरेऽपि शेखरे । उरः श्रेष्ठे हृदि क्लीबमूषः प्रत्यूषसन्ध्ययोः ॥ Śabdaratnāvalī 7.32.18
- शब्दरत्नावली वरीयस्वरीयान् योगभेदे स्याद्युनि श्रेष्ठवरिष्ठयोः । विहायाश्च खगे पुंसि गगणे पुनरस्त्रियाम् ॥ विभावसुर्दिनकरे हारभेदे च पावके । श्वश्रेयसन्तु कल्याणे सुखे च परमात्मनि ॥ Śabdaratnāvalī 7.32.53
- शब्दरत्नाकर वृषविश्वं जगति सर्वस्मिन् त्रिषु शुण्ठ्यामसौ न ना । मूषिके शुनके श्रेष्ठे वृषभे सुकृते वृषः ॥ २००२ ॥ Śabdaratnākara 4.1.2002
- शब्दरत्नाकर ऋषभऊर्णायुरूर्णनाभौ स्यान्मेषे तल्लोमकम्बले । ऋषभो गोवृषे श्रोत्ररन्ध्रे श्रेष्ठे स्वरे मुनौ ॥ २०५६ ॥ Śabdaratnākara 4.1.2056
- शब्दरत्नाकर ललामऔत्सुक्ये चाभिलाषे च ललामोऽस्त्री ललाम च । श्रेष्ठभूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥ २१५८ ॥ Śabdaratnākara 4.1.2158
- शब्दरत्नाकर सत्त्रिषु स्वीये नरि ज्ञातौ स्वो धने तु नपुंसके । साधौ श्रेष्ठे वर्तमाने सत्ये चाभ्यर्हिते च सत् ॥ २२४८ ॥ Śabdaratnākara 4.1.2248
- शब्दार्णव गुरुगुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे ॥ २२४ ॥ Śabdārṇava 224
- तन्त्राभिधान वउत्कारीशस्तु नीवीको वज्रं स्फिक् सागरः शुचिः । त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥ १५२ ॥ Tantrābhidhāna 2.46.152
- तन्त्राभिधान षषः श्वेतो वासुदेवश्च पीतं प्रज्ञा विनायकः । परमेष्ठी वामबाहुः श्रेष्ठो गर्भविमोचनः ॥ १५६ ॥ Tantrābhidhāna 2.48.156
- तन्त्राभिधान षष-कारः कीर्त्यते श्रेष्ठे षूश्च गर्भविमोचने । उपसर्गे परोक्षे च ष-कारः परिकीर्त्तितः ॥ ३४ ॥ Tantrābhidhāna 3.34
- त्रिकाण्डशेष वृन्दारककपर्दे रज्जौ राजीवे बीजकोशे वराटकः । वृन्दारकौ सुरश्रेष्ठौ गिरिमेघौ बलाहकौ ॥ ३४ ॥ Trikāṇḍaśeṣa 3.3.34
- त्रिकाण्डशेष नागनागः श्रेष्ठेभसर्पेषु क्लीबं सीसकरङ्गयोः । वृक्षे स्यात्पुंसि पुन्नागः पतङ्गः शलभे रवौ ॥ ६२ ॥ Trikāṇḍaśeṣa 3.3.62
- त्रिकाण्डशेष गण्डखण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः । गण्डः कपोले पिटके श्रेष्ठे गण्डकयोगयोः ॥ ११२ ॥ Trikāṇḍaśeṣa 3.3.112
- त्रिकाण्डशेष ऋषभआरम्भे उद्यमे दर्पे कामे ब्रह्मणि चाऽत्मभूः । ऋषभौ श्रेष्ठवृषभौ करभोऽधःकरोष्ट्रयोः ॥ २८४ ॥ Trikāṇḍaśeṣa 3.3.284
- त्रिकाण्डशेष अग्रश्रेष्ठेऽप्यग्रोऽवतारस्तु तीर्थेऽवतरणेऽपि च । गलहस्तेऽप्यर्धचन्द्रोऽकूपारः कमठेऽम्बुधौ ॥ ३२८ ॥ Trikāṇḍaśeṣa 3.3.328
- त्रिकाण्डशेष अनुत्तरअलातेऽस्त्री कुजेऽङ्गारः श्रेष्ठा वाच्यावनुत्तरौ । नक्रे चौरे चावहारः स्यादभ्रं व्योममेघयोः ॥ ३२९ ॥ Trikāṇḍaśeṣa 3.3.329
- त्रिकाण्डशेष सिंहराशिभेदे हरौ सिंहः श्रेष्ठार्थे चोत्तरस्थितः । सौहृदै घृततैलादौ स्यात्स्नेहोऽप्यव्ययाः परे ॥ ४६३ ॥ Trikāṇḍaśeṣa 3.3.463
- वैजयन्ती रत्नमूलं वशीकृतौ स्वीये शिफातारान्तिकादिषु । गमने वाहने यानं रत्नं श्रेष्ठे मणावपि ॥ २६ ॥ Vaijayantī 6.3.26
- वैजयन्ती जात्यज्यायान् ज्येष्ठश्चाग्रजन्मन्यतिवृद्धातिशस्तयोः । जात्यःश्रेष्ठे कुलीने च डिंभो बालिशबालयोः ॥ ७ ॥ Vaijayantī 6.4.7
- वैजयन्ती वृषत्रिष्वतीतदृढाधीतवर्तुलेष्वथ गीष्पतौ । श्रेष्ठोक्षाश्वाखुरेतःसु पुन्धर्मेन्द्रबले वृषः ॥ ७७ ॥ Vaijayantī 6.5.77
- वैजयन्ती पुङ्गवरुग्भङ्गबाणाः प्रदराः श्रेष्ठोक्षाणौ तु पुङ्गवौ । पिशाचौ सत्त्वमार्जारौ पिचण्डः कुक्षिशय्ययोः ॥ ५७ ॥ Vaijayantī 7.1.57
- वैजयन्ती पुष्कलपिण्डितौ घनसंख्यातौ प्रसिद्धौ ख्यातभूषितौ । पेशलौ चारुचतुरौ पूर्णश्रेष्ठौ तु पुष्कलौ ॥ १९ ॥ Vaijayantī 7.4.19
- वैजयन्ती ग्रामणीग्रामणीः स्वामिनि श्रेष्ठे ग्रामेशे नापिते तु ना । गोमुखोऽस्त्री वाद्यभेदे नक्रे नाले वने नपुम् ॥ ३६ ॥ Vaijayantī 7.5.36
- वैजयन्ती धवलचारौ श्रेष्ठे वृषे श्वेते धवलो धवली गवि । धौतांचले रजक्याञ्च धावनी धावनं गतिः ॥ ४९ ॥ Vaijayantī 7.5.49
- वैजयन्ती ललामश्रेष्ठे भूषापुण्ट्रशृंगपुच्छचिह्नाश्वलिंगिषु । लोचको मांसपिण्डे स्यान्नीलिन्यां चर्मणि भ्रुवि ॥ ७३ ॥ Vaijayantī 7.5.73
- वैजयन्ती ककुदश्रेष्ठे वृषांगे राजांके ककुदोऽस्त्री ककुन्न षण् । तपस्वी शिशिरे शोच्ये चन्द्रे मांसी तपस्विनी ॥ २८ ॥ Vaijayantī 8.5.28