कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

फणा

phaṇāस्त्री · fem.

In 8 kośas: 6 synonym verses, 2 as a nānārtha head word, 2 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.641 · p. 73
आशीविषो दीर्घपृष्ठः कुण्डली जिह्मगः स्मृतः ।फणः फणा फटा प्रोक्ता विषं स्याद्गरलं गरः ॥ ६४१ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर अष्टमोपदेशः Bālaprabodhikā 8.162 · p. 80
सर्पदेहस्तु भोगः स्यात् शिरस्तस्य फणं फणा ।भोगश्चापि तथा नेत्रे नीलकं विषनीलकम् ।जिह्वा तस्य कुशग्राही पुच्छश्चोद्दीर्घिका मता ॥ १६२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.20 · p. 365
विषास्थ्यादि स्यादथ च फटायां तु फणा द्वयोः ।स्फुटा स्फटा दर्विदर्व्यौ भोगस्त्रिष्वथ वर्ष्मणि ॥ २० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.19 · p. 38
आहेयं त्रिषु विज्ञेयं विषास्थ्यादिकमप्यहेः ।स्फुटा स्फटा फटा दर्वी दर्विर्भोगः फणा द्वयोः ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.309 · p. 42
निर्मुक्तोऽहिर्विमुक्तत्वगहिनिर्लयनी स्त्रियाम् ।समौ कञ्चुकनिर्मोकौ स्फटायां तु फणः फणा ॥ ३०९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.21 · p. 149
सर्पांचरस्तु निर्मोकः कंचुको निल्वयन्यपि ।अहिनिल्वयनी चाथ स्फटा भोगः फणा न षण् ॥ २१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.323 · p. 202
पारिजातस्तु मन्दारे पारिभद्रेऽपि कथ्यते ।फलं हेतुकृते लाभे फणा सर्पफटे स्मृता ॥ ३२३ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.324 · p. 202
जटामन्थानकुण्डल्योः फटा च फणदम्भयोः ।फाल्गुनो मासभेदे स्यादर्जुनाख्ये तरावपि ॥ ३२४ ॥
अनुष्टुप्

फणा as a meaning in nānārtha verses

  • कोषकल्पतरु भोगरागोऽनुरागे नृप-भैरवादौ मात्सर्यदुःखादिषु चारुणिम्नि । भोगस्तु सर्पस्य फणाङ्गयोः स्या- त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥ Koṣakalpataru 6.3.96
  • कोषकल्पतरु दर्विदर्विः फणायां च खजाकिकायां दार्वी हरिद्रासुरदारुणोश्च । कटंकटेर्यामथ शोभनायां बुद्धौ च चार्वी गदिता च पृथ्वी ॥ १२ ॥ Koṣakalpataru 6.29.12