कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भोग

bhogaपुं · masc.

In 14 kośas: 23 synonym verses, 12 as a nānārtha head word, 19 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.28 · p. 18
स निर्भृतिः कर्मकारो भृतिः स्यान्निष्क्रयः पणः ।कर्मण्या वेतनं मूल्यं निर्वेशो भरणं विधा ॥ ३६२ ॥भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभृतिः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1315 · p. 50
भोगोऽहिकायो दंष्ट्राशीर्दर्वी भोगः फटः स्फटः ।फणोऽहिकोशे तु निर्ल्वयनी निर्मोककञ्चुकाः ॥ १३१५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.10
अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.642 · p. 73
अहेः शरीरं भोगः स्यादाशीर्दंष्ट्राभिधीयते ।भवेत्तिलित्सो गोनासो वाहसोऽजगरः शयुः ॥ ६४२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर अष्टमोपदेशः Bālaprabodhikā 8.162 · p. 80
सर्पदेहस्तु भोगः स्यात् शिरस्तस्य फणं फणा ।भोगश्चापि तथा नेत्रे नीलकं विषनीलकम् ।जिह्वा तस्य कुशग्राही पुच्छश्चोद्दीर्घिका मता ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.20 · p. 365
विषास्थ्यादि स्यादथ च फटायां तु फणा द्वयोः ।स्फुटा स्फटा दर्विदर्व्यौ भोगस्त्रिष्वथ वर्ष्मणि ॥ २० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.21 · p. 366
भोगस्त्रिष्वहिकोशस्तु निर्मोकः कञ्चुकोऽस्त्रियाम् ।गरोऽस्त्री गरलः क्ष्वेडो गरलं विषमस्त्रियाम् ॥ २१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.79 · p. 388
ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः ।अजो मः प्रहसः शूली भोगः संजश्च शङ्करः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.40 · p. 298
वेश्याभृतिर्भवेद्भोगोऽथ भृत्यो दास-चे[146a]टकौ ॥ ४० ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.28 · p. 304
त्रिष्वाहेयं तदङ्गादि भोगस्तु व्यालविग्रहः ।निर्मोकः कञ्चुकस्त्वस्त्री*[स्त्रि]यां निर्व्लयनी तथा ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.29 · p. 304
भोगो दर्वी द्वयोस्तु स्युः फण-स्फट-फट-स्फुटाः ।कफेलुः स्त्री च दाढा स्यादाशीराश्यहिदंष्ट्रिका ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.36 · p. 33
भोगः प्रपञ्चो विस्तारो व्यासो विग्रह इत्यपि ।विस्तरस्तु स शब्दस्य प्लववस्तु न योषिति ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.207 · p. 77
दर्वीकरो गूढपदो लेलिहानोऽपि कथ्यते ।भुजंगो भुजगो भोगो दीर्घपृष्ठोऽपि कञ्चुकी ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.214 · p. 78
भोगोऽहिदेहो दंष्ट्राशीर्भोगो दर्वी फटः स्फटः ।फणा स्त्रीपुंसलिङ्गे स्यात्फटाशब्दः स्त्रियामपि ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.29 · p. 105
विधानिर्वेशभर्माणि भोगो वेश्याभृतिर्मतः ।भारिको भारवाहः स्यादथ वैवधिकः स्मृतः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.47 · p. 68
गणिकाभृतिस्तु भोगो भाटिरित्यपि कथ्यते ।
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2374 · p. 383
अहिकायस्तथा भोगः सर्पकायश्च कथ्यते ।आशीस्तथाऽहिदंष्ट्रा स्यात् सर्पदंष्ट्रा तथैव च ॥ २३७४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2375 · p. 383
फणः फटः स्फटो भोगो दर्वी दर्विस्तथैव च ।इति नामानि मन्यन्ते सर्पफणस्य साक्षरैः ॥ २३७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 फ (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.19 · p. 38
आहेयं त्रिषु विज्ञेयं विषास्थ्यादिकमप्यहेः ।स्फुटा स्फटा फटा दर्वी दर्विर्भोगः फणा द्वयोः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.312 · p. 131
स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम् ।व्यूहभेदास्तु चत्वारो दण्डभोगश्च मण्डलः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.310 · p. 42
गतिर्भुजो भुजंगस्य भोगस्तु फणकाययोः ।त्रिष्वाहेयं त्वगस्थ्यादि व्यालग्राह्यहितुण्डिकः ॥ ३१० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1046 · p. 130
पण्याङ्गना सत्कृता सा वारमुख्याथ तद्गणः ।गाणिक्यं तद्भृतौ भोगः कृट्टनी शंभली समे ॥ १०४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.21 · p. 149
सर्पांचरस्तु निर्मोकः कंचुको निल्वयन्यपि ।अहिनिल्वयनी चाथ स्फटा भोगः फणा न षण् ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.47
भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास गश्लोकः Dharaṇikośa 3.3.7 · p. 25
भोः सुखे च वित्ते च सर्पस्य फणकाययोः ।पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.96 · p. 164
रागोऽनुरागे नृप-भैरवादौमात्सर्यदुःखादिषु चारुणिम्नि ।भोगस्तु सर्पस्य फणाङ्गयोः स्या-त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.97 · p. 164
पण्याङ्गनानां रतमूल्यके चयोगस्त्वलब्धाप्तिभिषग्जितेषु ।उपायसंनाहकसंगमेषुज्ञाने च युक्तावपि कार्मणे च ॥ ९७ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.90 · p. 28
भेनस्तु चन्द्रे सूर्ये च भोगो राज्ये धने सुखे ।रक्षणेऽभ्यवहारे च सर्पस्य फणकाययोः ॥ ९० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.91 · p. 28
वेश्यादीनां भृतौ चापि कौटिल्येऽप्यथ मन्त्रवाक् ।ऋग्यजुःप्रभृतौ गूढभाषणेऽप्यथ मन्थने ॥ ९१ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास भकारादयः Paramānandīyanāmamālā 5.20.329 · p. 203
भोगः सर्पफणे सर्पदेहे वेश्याभृतौ सुखे ।राज्ये भाण्डं वणिग्मूलवित्ते मण्डनभूषयोः ॥ ३२९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.16 · p. 192
भोगः सर्पे सुखे देहे धने माने च पालने ।सर्पाणां कायफणयोर्योषिद्भरणभोजने ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1969 · p. 239
भोगो वेश्याभृतौ राज्ये सौख्येऽर्थे पालने रतौ ।विहारे व्यवहारे च फणिनः फणदेहयोः ॥ १९६९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.63 · p. 113
काकोदुम्बरिकायां स्त्री फल्गुत्रिषु निरर्थके ।पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ ६३ ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.64 · p. 113
भोगः सुखे धने चाहेः शरीरफणयोरपि ।भगं वैराग्ययोनीच्छाज्ञानैश्वर्येषु चेष्यते ॥ ६४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.44 · p. 217
भोगो राज्ये धने सौख्ये पालनाभ्यवहारयोः ।फणे देहे च सर्पस्य वेश्यादीनां भृतावपि ॥ ४४ ॥
अनुष्टुप्

भोग as a meaning in nānārtha verses