कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

फल्गुनी

phalgunīस्त्री · fem.

In 7 kośas: 10 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.111 · p. 8
सार्प्यऽश्लेषा मघा पित्र्या फल्गुनी योनिदेवता ॥ १११ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.111 · p. 260
कृष्णोदुम्बरिका काकोदुम्बरी जघनेफला ।अजाजी फल्गुनी फल्गुर्मलयूश्चित्रभेषजम् ॥ १११ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.88 · p. 35
मघा पित्र्या भूम्नि जाते माघः स्यान्मघ इत्यपि ।फल्गुनी भगदेवत्या पूर्वा तज्जस्तु फल्गुनः ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.89 · p. 36
तत्र जा[24a]ता यदि स्त्री स्यात्फल्गुनी सा निगद्यते ।उत्तरा स्यादार्यमणी तज्जाते त्वौत्तरोत्तरौ ॥ ८९ ॥
metre not recognised
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.39 · p. 146
तृणद्रुमाः स्युरेतेऽष्टौ काकोदुम्बरिका पुनः ।मलपूर्मलयूः फलद्रूः(?)फल्गुनी जघनं फलाः ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1220 · p. 154
भवेच्चित्रफलीसंज्ञे तथा स्याच्चन्दनेऽपि च ।क्षुमासंज्ञे तु ना धान्ये फल्गुनी तु स्त्रियामियम् ॥ १२२० ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1222 · p. 154
स्त्र्यर्थे वृत्तिर्यदा तत्र तदा स्यात् फल्गुनी स्त्रियाम् ।फल्गुनस्तु पुमानेव ज्ञेयो मध्यमपाण्डवे ॥ १२२२ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.125 · p. 17
स्त्रियां बहुत्वे च मघा आश्लेषा पुष्यमीति च ।पूर्वाभाद्रा पूर्वभद्रा पूर्वाभद्रा च फल्गुनी ॥ १२५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.191 · p. 25
तिष्यः पुष्यश्च सिद्ध्यश्च यामकौ तु पुनर्वसू ।फल्गुनी तु द्वित्वभूम्नोराश्लेषाश्च मघाः स्त्रियः ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.43 · p. 20
अषाढाकृत्तिकाश्लेषामघा भूम्नि स्त्रियश्च ताः ।फल्गुन्यौ तु द्वित्वभूम्नोर्हस्तः शतभिषक् च सा ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1221 · p. 154
भगदैवतनक्षत्रे तथैवार्यमदैवते ।ताभ्यां युक्ते कालमाने जाते त्वत्र त्रि फल्गुनः ॥ १२२१ ॥
अनुष्टुप्