कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तिष्य

tiṣyaपुं · masc.

In 13 kośas: 20 synonym verses, 6 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.19 · p. 8
आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ ११० ॥आदित्यौ च पुष्पस्तिष्यः सिध्यश्च गुरुदैवतः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.22
राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया ।समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.51 · p. 7
भं नक्षत्रं तारकं तारका च,ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा,दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥
शालिनी
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रनामानि Gaṇitanāmamālā 1.7 · p. 1
पुष्यं तिष्यगुरूभं च अश्लेषा सर्पदैवतम् ।सार्प्पभं सर्पभं सार्प्पं मघा च पितृदैवतम् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.188 · p. 400
द्वित्वे पुनर्वसू चापि देवत्यमदितेरथ ।द्वयोस्तिष्यश्च पुष्यश्च गुर्वर्थाद्देवतार्थकम् ॥ १८८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.57 · p. 411
तिष्यश्चापि च पुष्योऽपि पौषस्तैषः सहस्यवत् ।अस्त्री माघे तपाश्चापि तपस्यस्तपसस्तपः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.80 · p. 414
द्वापरो यज्ञियः पुंसि क्लीबे कर्मयुगं कलिः ।तिष्यो झर्झरकोऽथैषां वर्षसंख्या क्रमादिमाः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.59 · p. 467
स्याच्छन्दतिष्यपुष्याणां पाञ्चजन्यनिकाय्ययोः ।सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.86 · p. 35
द्वयोः पुष्यस्तिष्यसिद्धौ[ध्यौ] बार्हस्पत्योऽप्यथात्रजे ।तिष्यः पौषोऽथ तिष्यस्य पुनर्वस्वोश्च भूम्न्यपि ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.110 · p. 52
[33b]त्रेता स्त्री द्वापरः पुंसि कलिस्तिष्यश्चतुर्युगी ।मनुष्याणां सुराणां तु तयैकं युगमुच्यते ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.20 · p. 96
कृमिर्निकाय्यः कणपश्च तिष्यःस्यात्पाञ्चजन्यः सिचयः कटप्रूः ।गिरिर्गुडेरः क्षुरकेदराराअमित्र-मित्रावपि वृत्र-पुण्ड्रौ ॥ २० ॥
उपजातिः
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.101 · p. 56
सुगन्धिर्नीलनिर्यासस्तिष्यः पुष्पोऽलकप्रियः ।स तु द्विधा शिखिग्रीवः श्रेष्ठो गोमूत्रकोऽधमः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.107 · p. 18
आदित्यावथ पुष्यः स्यात्तिष्यः सिध्यस्तथा मतः ।अश्लेषाप्यथ सार्पी स्यात्पित्र्याश्चैव तथा मघाः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.19 · p. 213
अलक्तकुन्तौ पृषताः कपर्दोगदागदौ बुद्बुदपोतगन्धाः ।अगाधपिष्टातसुदर्शनाश्चशम्बाम्बतिष्याः सिचयोल्लपुण्ड्राः ॥ १९ ॥
उपजातिः
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.97 · p. 15
तिष्यः साध्यस्ततः सार्प्यश्लेषा पित्र्यास्तथा मघाः ।विज्ञेया पूर्वफल्गुनी नक्षत्रयोनिदेवता ॥ ९७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.212 · p. 15
कृत्तिका कृत्तिरप्युक्ता रोहिणी चापि रोहिणिः ।राधा विशाखा विज्ञेया पुष्यायां पुष्य इत्यपि ।सिध्यस्तिर्ष्याऽपि च भवेत् श्रवणा श्रवणं श्रुतिः ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.283 · p. 20
पौषे तैष सहस्यश्च तिष्यः तिष्यक इत्यपि ।विद्वद्भिः कथितः सर्वैर्माघे च मकरस्तपाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.191 · p. 25
तिष्यः पुष्यश्च सिद्ध्यश्च यामकौ तु पुनर्वसू ।फल्गुनी तु द्वित्वभूम्नोराश्लेषाश्च मघाः स्त्रियः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.194 · p. 26
योग्याश्चापभरण्यश्च हस्तः शतभिषक् च ना ।श्रविष्ठः फल्गुनः स्वातिस्तिष्यो हस्तः पुनर्वसुः ॥ १९४ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.175 · p. 59
सुगन्ध्यल्पफला मोचा साष्ठी काष्ठी कदल्यसौ ।विभीतकस्त्रिलिंगः स्यात्कलिस्तिष्यः कलिद्रुमः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.147
तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ॥ १४७ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.45 · p. 293
स्यात्तैजसद्रव्यविशेषके चमत्स्यो विराटे नरि राशिभेदे ।मीने तथा यादवमुख्यके चतिष्यस्तु पुष्ये कलिनामकश्च ॥ ४५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.536 · p. 88
गन्धे च सुरभावेतद् गुणत्रययुते त्रिषु ।स्त्री तिक्ता कटुरोहिण्यां तिष्यस्तु नरि मारुते ॥ ५३६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.537 · p. 88
महादेवे कलियुगे वह्नौ पुष्याख्यतारके ।तद्युक्ते कालसामान्ये तज्जाते तु त्र्यथ स्त्रियाम् ॥ ५३७ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.17 · p. 258
जया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः ।पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् ।जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु ।जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे ।पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् ।द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ले (syllables merged)
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.25 · p. 216
तर्काः कांक्षावितर्कोहास्त्वष्टा तक्ष्णि द्युशिल्पिनि ।मणिदोषे भये त्रासस्तिष्यः पुष्ये कलौ युगे ॥ २५ ॥
अनुष्टुप्