All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
प्रथमः काण्डः · ग्रहाध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे दिक्पालाध्यायो द्वितीयः ।
ग्रहाध्यायः
विष्णुपदं वियदम्बरमभ्रमनन्तं नभोऽन्तरिक्षं खम् ।व्योमसुरवर्त्मपुष्करगगनानि द्योदिवौ स्त्रियावस्त्री ॥ १५९ ॥
1.4.159 · p. 21
गीतिः
स्यादाकाशं विहायश्च दिव्यं दिवि भवे त्रिषु ।लोकबान्धव उष्णांशुर्मार्ताण्डोऽरुणसारथिः ॥ १६० ॥
1.4.160 · p. 21
अनुष्टुप्
भानुः सूर्यः पतंगस्तरणिरहिमगुर्भास्करो भानुमालीब्रध्नो हंसो विवस्वान् रविरयुगहयोऽहर्पतिः कर्मसाक्षी ।दीप्तांशुः सप्तसप्तिर्दिवसकर इनस्तिग्मभाश्चित्रभानुःसूरः पूषाब्जबन्धुर्ग्रहपतिररुणो द्वादशात्मार्यमार्कः ॥ १६१ ॥
1.4.161 · p. 22
स्रग्धरा
दिवाकरः प्रभाकरो विभाकरो विभावसुः ।विरोचनो विकर्तनस्त्रयीतनुस्तमोरिपुः ॥ १६२ ॥
1.4.162 · p. 22
पञ्चचामरम्
हरिदश्वविश्वचक्षुर्मिहिरसहस्रांशुमित्रखद्योताः ।दिनमणिसवितृद्युमणिप्रद्योतनतपनभास्वरादित्याः ॥ १६३ ॥
1.4.163 · p. 22
गीतिः
अहस्करस्त्विषामीशस्त्विषिमानंशुमान् द्युमान् ।घृणिघृष्टिमयूखोस्रकिरणांशुगभस्तयः ॥ १६४ ॥
1.4.164 · p. 22
अनुष्टुप्
वसुपादकराभीशुरश्मिप्रग्रहभानवः ।दीधितिः स्त्री मरीचिः स्त्रीपुंसोस्तासु सहस्रके ॥ १६५ ॥
1.4.165 · p. 22
अनुष्टुप्
रवेरानन्दना मेध्या नूतनाः पूतना इति ।चतुःशतं वृष्टिमुचस्ताः सर्वा अमृतास्त्रियः ॥ १६६ ॥
1.4.166 · p. 22
अनुष्टुप्
तासु मेष्यश्च पौष्यश्च ह्रादिन्यश्च शतत्रयम् ।हिमवृष्टिमुचः सर्वास्ताश्चन्द्रा भूम्नि च स्त्रियाम् ॥ १६७ ॥
1.4.167 · p. 22
अनुष्टुप्
तासु रुद्रा विश्वभृतः ककुभास्त्रिशतात्मिकाः ।धर्मसर्गायताः शुक्रा माध्व्यः शक्वर्य इत्यपि ॥ १६८ ॥
1.4.168 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
रुक्छविद्युतिभास्त्विड्भाप्रभागोरुचिदीप्तयः ।रोचिः शोचिर्महो वर्चो ज्योतिस्तेजश्च धाम च ॥ १६९ ॥
1.4.169 · p. 23
अनुष्टुप्
मण्डलं त्रिषु बिम्बोऽस्त्री प्रतापस्तीव्र आतपः ।करेणुर्द्युमयी संज्ञा त्रसरेणुः सुवर्चला ॥ १७० ॥
1.4.170 · p. 23
अनुष्टुप्
प्रभा छाया च सप्तैता दयितास्तिग्मदीधितेः ।परिधिः परिवेषः स्यादुपसूर्यकमण्डले ॥ १७१ ॥
1.4.171 · p. 23
अनुष्टुप्
गरुडाग्रजस्तु काश्यपिररुणो मार्ताण्डसारथिरनूरुः ।गायत्री बृहती पङ्क्तिरुष्णिक्त्रिष्टुबनुष्टुभः ॥ १७२ ॥
1.4.172 · p. 23
अनुष्टुप्metre not read in every line
जगती च रवेरश्वा मृगतृष्णा मरीचिका ।विवस्वान् सविता पूषा विष्णुरंशोऽरुणो भगः ॥ १७३ ॥
1.4.173 · p. 23
अनुष्टुप्
इनस्त्वष्टार्यमा धाता मित्रश्चामी विभाकराः ।कवोष्णकोष्णमन्दोष्णकदुष्णास्तद्वति त्रिषु ॥ १७४ ॥
1.4.174 · p. 23
अनुष्टुप्
तथा तिग्मोग्रतीक्ष्णोष्णतीव्रचण्डखराणि च ।माठरः पिङ्गलो दण्डश्चण्डांशोः पार्श्ववर्तिनः ॥ १७५ ॥
1.4.175 · p. 23
अनुष्टुप्
अब्जश्चन्द्रो विधुरमृतगुश्चन्द्रमा ओषधीश-स्तारानाथः सरसिजरिपुः शर्वरीशः शशाङ्कः ।ग्लौरेणाङ्कः शिशिरकिरणो रोहिणीबन्धुरिन्दुःसोमो राजा तुहिनकिरणः श्वेतभानुर्द्विजेन्द्रः ॥ १७६ ॥
1.4.176 · p. 24
मन्दाक्रान्ता
जैवातृको दशहयः कलात्मा कैरवप्रियः ।प्राचीनतिलकश्चिह्नं लाञ्छनं लक्ष्म लक्षणम् ॥ १७७ ॥
1.4.177 · p. 24
अनुष्टुप्
अभिज्ञानं कलङ्काङ्कौ प्रसादः स्यात्प्रसन्नता ।भित्तमर्धः पुमान् खण्डमस्त्रियां शकलं त्रिषु ॥ १७८ ॥
1.4.178 · p. 24
अनुष्टुप्
अर्धं समेंऽशकेऽभिख्या सुषमा परमा छविः ।कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रांशः षोडशः कला ॥ १७९ ॥
1.4.179 · p. 24
अनुष्टुप्
अथावश्यायनीहारतुषारास्तुहिनं हिमम् ।प्रालेयं मिहिकाथ स्यात्कुहेली हिमधूमिका ॥ १८० ॥
1.4.180 · p. 24
अनुष्टुप्
हिमानी हिमसंघाते शिशिरः शीतलो जडः ।हिमः शीतस्तुषारश्च षडमी तद्वदर्थकाः ॥ १८१ ॥
1.4.181 · p. 24
अनुष्टुप्
सहैवोक्त्या पुष्पवन्तौ सूर्याचन्द्रमसावुभौ ।उपपप्लवोपरागौ तु ग्रहणे चन्द्रसूर्ययोः ॥ १८२ ॥
1.4.182 · p. 24
metre not recognisednearly अनुष्टुप्
सोपप्लवोपरक्तौ तु तावेव तमसावृतौ ।आरस्त्वङ्गारको भौमो मङ्गलोऽवनिजः कुजः ॥ १८३ ॥
1.4.183 · p. 24
अनुष्टुप्
रुधिरो लोहिताङ्गोऽथ सौम्यश्चान्द्रमसायनिः ।रौहिणेयो बुधः शक्रसचिवस्तु बृहस्पतिः ॥ १८४ ॥
1.4.184 · p. 24
अनुष्टुप्
धिषणस्त्रिदशाचार्यो जीवश्चित्रशिखण्डिजः ।गुरुराङ्गिरसो वाचस्पतिर्गीष्पतिरित्यपि ॥ १८५ ॥
1.4.185 · p. 25
अनुष्टुप्
उशना भार्गवः शुक्रः काव्यो दैत्यगुरुः कविः ।शनिश्छायात्मजो मन्दः सौरिः पङ्गुः शनैश्चरः ॥ १८६ ॥
1.4.186 · p. 25
अनुष्टुप्
नीलवस्त्रोऽसितः कालस्तमो राहुर्विधुंतुदः ।स्वर्भानुः सैंहिकेयश्च स एवाभ्रपिशाचकः ॥ १८७ ॥
1.4.187 · p. 25
अनुष्टुप्
केतवो ब्रह्मपुत्राः स्युर्विकचा धूमजाश्च ते ।नक्षत्रमृक्षं भं ज्योतिः सन्ति तारोडुतारकाः ॥ १८८ ॥
1.4.188 · p. 25
अनुष्टुप्
तिस्रो नपुंसकेऽपि स्युः (स्यात्?) स्त्रियामश्वयुगश्विनी ।बहुलाः कृत्तिका आर्द्रा कालिकी व्याध इत्यपि ॥ १८९ ॥
1.4.189 · p. 25
अनुष्टुप्
मृगशीर्षं मृगशिरो मृगः पुंस्याग्रहायणी ।इन्वकास्तच्छिरोदेशे तारका इल्वलाः स्त्रियः ॥ १९० ॥
1.4.190 · p. 25
अनुष्टुप्
तिष्यः पुष्यश्च सिद्ध्यश्च यामकौ तु पुनर्वसू ।फल्गुनी तु द्वित्वभूम्नोराश्लेषाश्च मघाः स्त्रियः ॥ १९१ ॥
1.4.191 · p. 25
अनुष्टुप्
पुंभूम्नि स्युरनूराधा मूले स्यान्मूलबर्हिणी ।राधा विशाखाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियाम् ॥ १९२ ॥
1.4.192 · p. 25
अनुष्टुप्
श्रोणा तु श्रवणे स्वातौ निष्ट्याथैकवचस्यपि ।श्रविष्ठास्तासु मन्दाशा धनिष्ठा भरणीष्विमाः ॥ १९३ ॥
1.4.193 · p. 26
अनुष्टुप्
योग्याश्चापभरण्यश्च हस्तः शतभिषक् च ना ।श्रविष्ठः फल्गुनः स्वातिस्तिष्यो हस्तः पुनर्वसुः ॥ १९४ ॥
1.4.194 · p. 26
अनुष्टुप्
अनुराधो विशाखश्च श्रविष्ठादि भवेत् त्रिषु ।छायापथस्वातिपथावुभौ नक्षत्रपद्धतौ ॥ १९५ ॥
1.4.195 · p. 26
अनुष्टुप्
नवैव वीथ्यो नक्षत्रैरश्विन्याद्यैस्त्रिभिस्त्रिभिः ।अश्विन्याद्या नागवीथी रोहिण्याद्याजवीथिका ॥ १९६ ॥
1.4.196 · p. 26
अनुष्टुप्
पुनर्वस्वादिका या सा स्यादैरावतवीथिका ।मघाद्या त्वार्षभी वीथी गोवीथी हस्तपूर्विका ॥ १९७ ॥
1.4.197 · p. 26
अनुष्टुप्
जरद्गवी विशाखाद्या मूलाद्या गजवीथिका ।श्रोणाद्या मृगवीथी स्यात्ततः प्रोष्ठपदादिका ॥ १९८ ॥
1.4.198 · p. 26
अनुष्टुप्
वीथी वैश्वानरी ताभिस्तिसृभिस्तिसृभिः क्रमात् ।उत्तरो देवयानाख्यो योगियानाभिधस्त्वयम् ॥ १९९ ॥
1.4.199 · p. 26
अनुष्टुप्