मलपू
malapūस्त्री · fem.In 5 kośas: 5 synonym verses, 8 as a meaning of another word.
पाटला स्यात् पाटलिश्च अमोघा मोघया सह ।मलपूर्मलयूश्च स्यात् कुटजः कोटजो भवेत् ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
तृणद्रुमाः स्युरेतेऽष्टौ काकोदुम्बरिका पुनः ।मलपूर्मलयूः फलद्रूः(?)फल्गुनी जघनं फलाः ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
मलपूश्चन्द्रिका च स्यात्कुष्ठघ्नी चाप्यवल्गुजः ।कट्वम्लनामिका गोधावती श्यामा च मोहिनी ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
मलपूर्मलयुफल्गुः फग्गुश्च जघनेफला ।काकोडुम्बुरिका चापि काकोडुम्बर एव च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 यु (wrong syllable)
genderस्त्रीfem.
क्षीरी जन्तुफलस्तस्मिन् जघनेफल इत्यपि ।फल्गुस्तु मलपूः काकोदुम्बरी जघनेफला ॥ ४७३ ॥
अनुष्टुप्
genderस्त्रीfem.
मलपू as a meaning in nānārtha verses
- धरणिकोश काककाको ध्वाङ्क्षोऽथ काकाः स्युः काकोलीकाशमल्लिकाः । काकमाचीकाकजङ्घामलपूकाकनासिकाः ॥ Dharaṇikośa 1.3.3
- कोषकल्पतरु काकाकाका मलप्वामपि काकणन्त्यां काकोलिकायामपि काकमाच्वाम् । स्यात्काकनासाह्वयभेषजे च काकं पुनः स्त्रीरतबन्धकेऽपि ॥ १७ ॥ Koṣakalpataru 6.1.17
- कोषकल्पतरु फल्गुवल्गुस्तु पुंसि च्छगले मनोज्ञे त्वन्योपमः फल्गुरियं मलप्वाम् । त्रुट्यां स मासेऽथ वटेऽपि शुङ्गी चाम्रातके पुंसि कपीतने च ॥ ८ ॥ Koṣakalpataru 6.3.8
- कोषकल्पतरु बहुफलानीपतरौ च मलप्वां कोशविदो बहुफलामाहुः । भालेऽपि गण्डशैलो गिरितः स्थूलोपले भ्रष्टे ॥ ७७ ॥ Koṣakalpataru 6.28.77
- कोषकल्पतरु वायसस्याद्वायसो ध्वाङ्क्ष इहागरुद्रौ श्रीवासवृक्षेऽप्यथ काकमाच्याम् । स्त्रियां मलप्वामथ मानसं स्या- त्सरोविशेषे हृदये तथैव ॥ ९२ ॥ Koṣakalpataru 6.31.92
- शब्दरत्नावली काकाकाका गुञ्जा काकमाचीकाकाङ्गीमलपूष्वपि । काकं सुरतबन्धे स्यात् तथा च काकसंहतौ ॥ Śabdaratnāvalī 7.1.7
- शब्दरत्नावली वीराआमलक्यां विदार्याञ्च मलप्वामपि च स्त्रियाम् । यात्रा स्त्रियामुत्सवे स्याद्गमने यापनेऽपि च ॥ Śabdaratnāvalī 7.27.39
- शब्दरत्नावली बहुफलीभवेद्बहुफलो नीपे मलप्वां बहुफल्यपि । भस्मतूलो ग्रामकूटे पांशुवर्षे हिमेऽपि च ॥ Śabdaratnāvalī 7.28.111