अजाजी
ajājīस्त्री · fem.In 11 kośas: 13 synonym verses, 1 as a meaning of another word.
त्रिकटु त्र्यूषणं व्योषमजाजी जीरकः कणा ।
अनुष्टुप्
genderस्त्रीfem.
आर्द्रकं शृङ्गवेरं स्यादजाजी जीरकः स्मृतः ।वेल्लजं मरिचं प्रोक्तमूषणं च मनीषिभिः ॥ ६१६ ॥
अनुष्टुप्
genderस्त्रीfem.
मागधो जरणो दीप्यो जीर्णो जीरकजीरणौ ।बह्निसस्योप्यजाजी स्त्री श्वेतायाम् तत्र वै कणा ॥ १९३ ॥
अनुष्टुप्
genderस्त्रीfem.
कृष्णोदुम्बरिका काकोदुम्बरी जघनेफला ।अजाजी फल्गुनी फल्गुर्मलयूश्चित्रभेषजम् ॥ १११ ॥
अनुष्टुप्
genderस्त्रीfem.
अजाजी युज्यमाना स्याद्दीर्घको जीरकोऽस्त्रियाम् ।कणा च कणजीरश्च जरणो मेध्यमित्यपि ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
गञ्जा सुरासद्मनि पुञ्जिपिञ्जागुञ्जाण्डजा स्फिग्विसमासरज्जुः ।सिञ्जाप्यजाजी कथिताथ झञ्झायाच्ञाथ सा(शा?)टी भ्रुकुटी च भाटिः ॥ ४४ ॥
इन्द्रवज्रा
genderस्त्रीfem.
जीरके तु कणाऽजाजी जरणः कणजीरकः ।कृष्णेऽस्मिन् कारवी पृथ्वी सुगन्धा सुषवी पृथुः ॥ ३३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कणाजाजी जीरकश्च चविका कोलवल्ल्यपि ।चव्यं च चविकं प्रोक्तं श्रेयसी गजपिप्पली ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
खल्ली मदी च खण्डाल्यजाजी नध्र्येषणी पुनः ।मत्स्यण्डी शष्कुली गोष्ठी देहलीस्नायुचञ्चवः ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
जीरश्च जोरकोऽजाजी जरणो जीरणः कणा ॥ ६३६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
उषणं स्यादूषणञ्च वल्लिजं कोलकञ्च तत् ।स्याज्जीरो जीरकोऽजाजी जरणः स्त्रीकणापि च ॥
अनुष्टुप्
genderस्त्रीfem.
ग्रन्थकं शिरोऽनादन्तः क्ली सान्तं चटकाशिरः ।व्योषे त्रेः कटु-कटुके, अजाजी जीर-जीरकौ ॥ ५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रोऽ (wrong syllable); pāda 3, syllable 4 क (wrong syllable)
genderस्त्रीfem.
पंचकोलं कणाशुण्ठीचव्यग्रन्थिकचित्रकाः ।अजाजी तु जया दीप्यो जीरको जीरणः सितः ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
अजाजी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप जीरअजाज्यां तु नृशण्डः स्याद् द्वे त्वश्वे जीर्विवाक् पुनः । टङ्के ना शकटे द्रव्ये गुल्मे चाथ द्वयोः पशौ ॥ ४८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.484