All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
त्र्यक्षरकाण्डः · स्त्रीलिङ्गाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां त्र्यक्षरकाण्डे पुंलिङ्गाध्यायः
त्र्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः
स्त्रीलिङ्गाध्यायःअमनिः पशुवंक्षण्यां जलपात्रे च दारवे ।अदितिः शैलकन्यायां पृथिव्यां देवमातरि ॥ १ ॥
7.2.1 · p. 247
अनुष्टुप्metre not read in every line
अभिख्या त्विड्यशोनामस्वंबिका मातुलान्युमा ।अमतिर्मरणे मोहेऽप्याकारे देह आकृतिः ॥ २ ॥
7.2.2 · p. 247
अनुष्टुप्
आयतिर्दीर्घतायां स्यात् प्रभावागामिकालयोः ।उपधा सुपरीक्षापि कृपाण्यामपि कर्तरी ॥ ३ ॥
7.2.3 · p. 247
अनुष्टुप्
कल्पना समर्थनापि कषिके सस्यमक्षिके ।कणिका तिलकाण्डेंऽशे गोधूमे तस्य चूर्णके ॥ ४ ॥
7.2.4 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable)
कारिका यातनायां स्याच्छ्लोके विवरणे कृतौ ।कूर्चिका मस्तुपिण्डेऽपि सूचितूलिकयोरपि ॥ ५ ॥
7.2.5 · p. 247
अनुष्टुप्
तुर्येंऽशे मानदण्डस्य माषस्यापि च काकणी ।विंशतौ च कपर्दानां पादुकैककपर्दयोः ॥ ६ ॥
7.2.6 · p. 247
अनुष्टुप्
गृहिणी कांचिकं जाया देहली गृहकारिका ।वेश्याकरिण्योर्गणिका वेष्टनेऽपि च गोलका ॥ ७ ॥
7.2.7 · p. 247
अनुष्टुप्
पार्यां कालेऽपि घटिका रथ्यायामपि चत्वरी ।जुगुप्सा निन्दाघृणयोर्जननी करुणांबयोः ॥ ८ ॥
7.2.8 · p. 247
अनुष्टुप्
जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः ।छत्रान्तालंबिवस्त्रेऽपि झल्लरी केशवाद्ययोः ॥ ९ ॥
7.2.9 · p. 247
अनुष्टुप्
चापे तृणत्वे तृणता दारिद्येऽपि च दुर्गतिः ।पद्माकरेऽब्जे नलिनी स्वास्थ्ये नाशे च निर्वृतिः ॥ १० ॥
7.2.10 · p. 247
अनुष्टुप्
निवृत्तिस्तु मनस्तोषे मोक्षेऽस्तमयबाढयोः ।नालिका चुल्लिकारन्ध्रे विवरे वेणुभाजने ॥ ११ ॥
7.2.11 · p. 247
अनुष्टुप्
नाले काले देशमाने नियतिः संयमे विधौ ।प्रकृतिः पंचभूतेषु स्वभावे मूलकारणे ॥ १२ ॥
7.2.12 · p. 248
अनुष्टुप्
छन्दःकारणगुह्येषु जन्त्वमात्यादिमातृषु ।पक्षतिर्गरुतो मूले द्वयोः प्रतिपदोरपि ॥ १३ ॥
7.2.13 · p. 248
अनुष्टुप्
अधिकारे प्रकारे च प्रक्रियोत्पादनेऽपि च ।गृहादिधिष्ण्ये पिण्डे च जंघामांसे च पिण्डिका ॥ १४ ॥
7.2.14 · p. 248
अनुष्टुप्
परीष्टिर्मार्गणे भक्तौ पङ्क्तौ पथि च पद्धतिः ।प्रतिष्ठे स्थितिमाहात्म्ये प्रतती ततिवीरुधौ ॥ १५ ॥
7.2.15 · p. 248
अनुष्टुप्
बोधे तिथौ च प्रतिपत् प्रवृत्तिर्वृत्त्युदन्तयोः ।प्रवेणी तु कुथावेण्योः प्रसूतिः पुत्रजन्मनोः ॥ १६ ॥
7.2.16 · p. 248
अनुष्टुप्
पाताली वागुरा स्थाली बन्धकी तु करिण्यपि ।बृहती पद्यवार्ताक्योः कण्टकार्यां च वाचि च ॥ १७ ॥
7.2.17 · p. 248
अनुष्टुप्
भित्तिका तु शतावर्यां वज्रे चाप्यथ मेखला ।श्रोणिस्थानेऽद्रिकटके कटिबन्धेऽसिबन्धने ॥ १८ ॥
7.2.18 · p. 248
अनुष्टुप्
महिषी पशुराट्पत्न्योर्मर्यादा सीम्नि धारणे ।पेटा पुरी च मञ्जूषा मनाका कामिनी गजी ॥ १९ ॥
7.2.19 · p. 248
अनुष्टुप्
गव्यृक्षे रेवती देव्यां शुक्लायां रजनी निशि ।रोचना रक्तकल्हारे गवां पित्ते वरस्त्रियाम् ॥ २० ॥
7.2.20 · p. 248
अनुष्टुप्
पथ्यायां गव्युमाकन्यालोहिनीषु च रोहिणी ।नक्षत्रे कण्ठरोगे च वर्तनी वृत्तिमार्गयोः ॥ २१ ॥
7.2.21 · p. 248
अनुष्टुप्
विपणिस्तु निषद्यापि वालुकोर्मिश्च वालुका ।वडबा स्त्रीविशेषेऽपि वाशिता करिणीस्त्रियोः ॥ २२ ॥
7.2.22 · p. 248
अनुष्टुप्
वसतिस्तु निशि स्थित्यां जैनानामाश्रमे गृहे ।वाणिनी तु विदग्धायां नर्तक्यां मत्तयोषिति ॥ २३ ॥
7.2.23 · p. 248
अनुष्टुप्
वीणा विपञ्ची सैवाल्पदण्डा सा नवतन्त्रिका ।वृषल्यृतुमती कन्या शूद्रा वन्ध्या मृतप्रजा ॥ २४ ॥
7.2.24 · p. 249
अनुष्टुप्
वनिता स्निग्धनार्याञ्च नार्याञ्चप्यथ वेदिका ।वेदिश्चांगुलिमुद्रा च काञ्ची छन्दश्च शक्वरी ॥ २५ ॥
7.2.25 · p. 249
अनुष्टुप्
शष्कुल्यपूपभेदेऽपि शिञ्जिनी नूपुरज्ययोः ।शर्करा तु शिलाभेदे रुग्भेदाल्पकपालयोः ॥ २६ ॥
7.2.26 · p. 249
अनुष्टुप्
शर्करावत्प्रदेशेषु सितायां शकले गुडे ।समितिः परिषत्स्थाने युद्धे संसदि संगमे ॥ २७ ॥
7.2.27 · p. 249
अनुष्टुप्
सन्ततिस्त्वन्ववाये स्यात् पारंपर्ये सुतेऽपि च ।संहिता वर्णसंयोगे शास्त्रवेदैकदेशयोः ॥ २८ ॥
7.2.28 · p. 249
अनुष्टुप्
सिद्धौ स्वभावे संसिद्धिर्वांछानुज्ञा च सम्मतिः ।संवित्ती ज्ञानसंवादौ ह्रादिन्यौ वज्रविद्युतौ ॥ २९ ॥
7.2.29 · p. 249
अनुष्टुप्