कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वेश

veśaपुं · masc.

In 15 kośas: 20 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.101 · p. 39
वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.52 · p. 3
शान्तः षान्तश्च विड्गूथेऽशुचि वेशोऽपि वेषवत् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.1
पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् ।स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ १ ॥तच्छाखानगरं वेशो वेश्याजनसमाश्रयः ।
अनुष्टुप्
genderपुंmasc.
कोषकोशौ वेषवेशौ धूलिधूल्यौ समे मते ।रंहो रङ्घोऽपि निर्दिष्टमधोऽङ्घश्चोच्यते बुधैः ॥ २६६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.10 · p. 9
पक्वणः शबरावासे वेश्याजनसमाश्रये ।वेशः पुंसि स्त्रियां वेश्याप्यथ पुंसि द्विजन्मनाम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.37 · p. 12
गृहं निकेतं निलयमालयं पुन्नपुंसकम् ।द्वयोः कुटी कुटीरो ना वेश आवसथः क्षयः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.54 · p. 14
सुरागृहे स्त्रियां गञ्जा गुञ्जाथो सूतिकागृहम् ।अरिष्टं सूतकगृहं वेशो वेश्यागृहे पुमान् ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.249 · p. 48
पुंस्याकल्पो वेषवेशावपि भूषणमस्त्रियाम् ।स्यान्नेपथ्यमपि क्लीबे प्रतिकर्म प्रसाधनम् ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.5 · p. 120
द्विजानां पूर्द्विजपुरं वेशो वेशाजनाश्रयः ।कोट्टो दुर्गं राजधानी स्कन्धावारश्च सा भवेत् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.64 · p. 224
वेषोऽस्त्री वेश आकल्पो नेपथ्यं प्रतिकर्म तु ।प्रसाधनं मण्डनं च भूषितस्तु प्रसाधितः ॥ ६४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.6 · p. 94
गुल्फ-गुच्छ-समय-प्लव-वर्ष-मन्थ-कर्दम-मृदङ्गमुखा[221b]नाम् ।वंश-वेश-मुकुर-क्षितिनिम्ब-दीप-बोल-चरणप्रमुखानाम् ॥ ६ ॥
स्वागताmetre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.281 · p. 60
संपूर्णसरसा साध्वी भीरा कनकवालुका ।शिबिरे संनिवेशः स्यान्निवेशो वेश इत्यपि ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1026 · p. 157
वेषो नेपथ्यमाऽऽकल्पः वेशोऽपि च प्रयुज्यते ।परिकर्माऽङ्गसंस्कारः उद्वर्तनमुत्सादनम् ॥ १०२६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 5 मु (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.3 · p. 50
अथ वेशो भवेद्वेश्या जनानामाश्रयस्तु यः ।अथ कुट्टो राजधानी राजधानकमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.332 · p. 104
वेशो वेषश्च नेपथ्यमाकल्पोऽपि प्रसाधनम् ।प्रतिकर्मस्वर्णपुष्पगन्धादिवेशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.197 · p. 204
नेपथ्ये वेष-वेशौ द्वावुत्सादनमुद्वर्तने ।उच्छादनं चापि समालभने चर्चिक्यं मतम् ॥ १९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 मु (wrong syllable); pāda 4, syllable 5 र्चि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.42 · p. 221
विपणी चाऽपणो, वेश्याश्रये वेशः सवेषकः ।भित्तौ स्याद्भित्तिका कुड्य-कुट्ये अत्र तृतीयकौ ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.847 · p. 107
वेश्याजनाश्रयो वेशो मण्डपोऽस्त्री जनाश्रयः ।हस्तिनां चतुरं शाला वाजिशाला तु मन्दुरा ॥ ८४७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.18 · p. 73
अंबष्ठी कोहलं रन्ध्री घर्घरं विन्दकी भ्रषम् ।कारुविन्दी पराविद्धमुग्री वेशं कुटी मटम् ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.35 · p. 161
संवासो विपणिः पण्यवीथी हट्टस्तु पुण्यभूः ।आवालिर्हट्टवेश्माली वेशो वेश्याजनाश्रयः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास शार्धश्लोकः Dharaṇikośa 29.2.4 · p. 212
काशास्तृणविशेषे स्युः काशी वाराणसी पुरी ।वेशो गृहे प्रवेशे च वेश्यावासे च भूषणे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.8 · p. 365
ईशो हरे चापरवत्प्रभौ स्या-त्स्त्रियां शिवालाङ्गलदण्डयोश्च ।वेशोऽस्त्रियां स्याद्गृहमात्रकेऽपिनेपथ्यवेश्यागृहयोस्तथैव ॥ ८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1286 · p. 152
वृत्तिर्निरोधे सम्भक्तौ ना तु धात्वोः स वर्ततौ ।वृत्यतौ चाथ ना वेशो वेश्याजनसमाश्रये ॥ १२८६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1287 · p. 152
अजयस्तु पठत्येनं गृहमात्रेऽपि शब्दवित् ।प्रवेशे वेशके तु त्रिरथोग्रीवैश्यजे द्वयोः ॥ १२८७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शान्ताः Śabdaratnāvalī 7.30.11 · p. 289
वेशो गृहे च नेपथ्ये भवेद्वेश्यागृहेऽपि च ।शशः पशुविशेषे स्याद्वोले लोघे नृपान्तरे ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.433 · p. 246
वंशो वर्गे च पृष्ठांशे वेशो वेश्यागृहेऽपि च ।आयत्तत्वाप्रभुत्वे द्वे वशः परवशे त्रिषु ॥ ४३३ ॥
अनुष्टुप्

वेश as a meaning in nānārtha verses

  • धरणिकोश आकल्पप्रतापस्तेजसि स्वेदे विकल्पौ पक्षसंशयौ । आकल्पः कल्पने वेशे उडुपश्चन्द्रभेलयोः । परिकम्पो भये कम्पे वृषाकपी हरीश्वरौ ॥ Dharaṇikośa 20.1.3
  • कोषकल्पतरु दधातिवेः कृतावुपनेर्न्यासे प्रतिवेस्तु विलोकने । लोभयाचायन्नेवेशसमाद्धान्तर्द्धि विन्यसे ॥ ६८ ॥ Koṣakalpataru 3.5.68
  • शब्दरत्नावली प्रसाधनप्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः । पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥ पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि । पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥ फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते । वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥ भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि । महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥ महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् । मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥ महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे । मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥ Śabdaratnāvalī 7.20.118
  • त्रिकाण्डशेष आकल्पआक्षेपो भर्त्सनाकृष्ट्योराकल्पौ वेशकल्पने । तृणभिद्गुल्मिन्युपलश्चन्द्रे ना स्त्र्युडुपः प्लवे ॥ २७४ ॥ Trikāṇḍaśeṣa 3.3.274
  • त्रिकाण्डशेष श्रीश्रीलक्ष्मीवेशसम्पत्सु भारतीशोभयोरपि । शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु ॥ ३७५ ॥ Trikāṇḍaśeṣa 3.3.375