नदीभेद
nadībhedaIn 4 kośas: 0 synonym verses, 29 as a meaning of another word.
नदीभेद as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वेणीसेतौ च वरणो वेणी नदीभेदे कचोच्चये । Amarakośa 3.3.112
- नानार्थार्णवसंक्षेप गोमतीगोमान् गोस्वामिनि त्रि स्यान्नदीभेदे तु गोमती । गोधुक् तु पुंसि मेरौ त्रिर्गोपाले गोश्च दोग्धरि ॥ ३७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.376
- नानार्थार्णवसंक्षेप तापिदैत्यभेदे तापयतौ नदीभेदे तु केचन । स्त्रीति पातरि तु त्राता त्रिर्ना तु सितसर्षपे ॥ ५३४ ॥ Nānārthārṇavasaṃkṣepa 2.5.534
- नानार्थार्णवसंक्षेप श्वेताक्लीबं तु दध्नि रजतेऽप्यथ श्वेता सुरान्तरे । पैष्टिकीसंज्ञके स्त्री स्यान्नदीभेदे लतान्तरे ॥ १४१९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1419
- नानार्थार्णवसंक्षेप असिक्नीअसिक्नी तु निशीथिन्यां नदीभेदे तु कश्चन । तथैवान्तःपुरप्रेष्यस्त्रियां स्यादवनिः पुनः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 3.1.5
- नानार्थार्णवसंक्षेप भित्तिकाभित्तिका तु नदीभेदे शरावत्याह्वये स्मृता । तथा माषादिचूर्णे च वैजयन्त्यां त्वभूद्भ्रमः ॥ ६४ ॥ Nānārthārṇavasaṃkṣepa 3.1.64
- नानार्थार्णवसंक्षेप अधृष्याअत्वरस्तु त्वराहीने त्रि द्वे तु महिषे स्मृतः । अधृष्या तु नदीभेदे स्त्री त्रिषु त्वप्रधृष्यके ॥ ५५ ॥ Nānārthārṇavasaṃkṣepa 4.55
- नानार्थार्णवसंक्षेप आत्रेयीआग्नेयी भेद्यवत् त्वग्निसम्बन्ध्यर्थे स्त्रियां पुनः । रजस्वलायामात्रेयी नदीभेदे च कीर्तिता ॥ १७४ ॥ Nānārthārṇavasaṃkṣepa 4.174
- नानार्थार्णवसंक्षेप चन्दनाचन्दना स्त्री नदीभेदे न स्त्रियां मलयोद्भवे । चन्द्रकस्तु पुमान् पक्षभेदे मेचकसज्ञिते ॥ ७१० ॥ Nānārthārṇavasaṃkṣepa 4.710
- नानार्थार्णवसंक्षेप तमसानदीभेदे परैरुक्तो ना रूपाध्यवसाययोः । त्वक्पत्रं तु वराङ्गाख्यगन्धद्रव्ये नपुंसकम् ॥ ८३० ॥ Nānārthārṇavasaṃkṣepa 4.830
- नानार्थार्णवसंक्षेप बाहुदाबाहुदा तु नदीभेदे स्त्री त्रिषु त्वेष दातरि । बाहोर्बहुप्रदस्यापि सम्बन्धिन्यत्र तु स्मरेत् ॥ १२४७ ॥ Nānārthārṇavasaṃkṣepa 4.1247
- नानार्थार्णवसंक्षेप रहस्यारहस्या तु नदीभेदे स्त्रियां त्रिस्तु रहोभवे । रवणस्तु पुमाञ्छन्दे षटोलाख्यलतान्तरे ॥ १४९६ ॥ Nānārthārṇavasaṃkṣepa 4.1496
- नानार्थार्णवसंक्षेप सरस्वतीसरस्वती नदीभेदे नदीमात्रे च वाचि च । गङ्गायां गवि मेदिन्यां स्त्रीरत्ने च वचस्यपि ॥ १९३४ ॥ Nānārthārṇavasaṃkṣepa 4.1934
- नानार्थार्णवसंक्षेप चान्द्रभागाअवृद्धप्रातिपदिकान्नदीभेदे च केचन । चान्द्रभागा चान्द्रभागीत्येवं वृद्धाद्द्विरूपताम् ॥ २२५ ॥ Nānārthārṇavasaṃkṣepa 6.225
- परमानन्दीयनाममाला गण्डकीविडङ्गे ग्रन्थिपर्णेऽपि गण्डको विघ्नखड्गिनोः । गण्डकी तु नदीभेदे गोरङ्कुः खगनग्नयोः ॥ १६२ ॥ Paramānandīyanāmamālā 5.9.162
- शब्दरत्नावली कौशिकीकौशिकी तु नदीभेदे भवान्यामपि योषिति ॥ Śabdaratnāvalī 7.1.63
- शब्दरत्नावली गण्डकीगण्डको ना खड्गजन्तौ विद्यासंख्याप्रभेदयोः । अन्तरायेऽप्यवच्छेदे नदीभेदे तु गण्डकी ॥ Śabdaratnāvalī 7.1.67
- शब्दरत्नावली मालिकामालिका तु नदीभेदे पुष्पमालात्मजासु च । मालिकः पक्षिमल्ले स्यात् मालाकारे च रञ्जके ॥ Śabdaratnāvalī 7.1.122
- शब्दरत्नावली वर्तरूकस्वहस्तलेखकेऽपि स्यादसौ लेखनिको मतः । काकनीडे नदीभेदे वर्तरूको जलावटे ॥ Śabdaratnāvalī 7.1.195
- शब्दरत्नावली फल्गुफल्गुः स्त्रियां नदीभेदरेणुभिद्मलपूषु च । मिथ्या वचसि निःसारे तद्भवेदभिधेयवत् ॥ Śabdaratnāvalī 7.3.11
- शब्दरत्नावली वरणावरणा स्त्री नदीभेदनगरीभेदयोरपि । वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे ॥ Śabdaratnāvalī 7.15.52
- शब्दरत्नावली लवणनदीभेदे च दीप्तौ च स्त्रियां तत्संयुते त्रिषु । लक्षणः स्याद्दाशरथौ लक्षणं नामचिह्णयोः ॥ Śabdaratnāvalī 7.15.59
- शब्दरत्नावली नर्मदानर्मदा स्त्री नदीभेदे स्यात्केलिसचिवे पुमान् । निर्वादो लोकवादे स्याद् वादे च परितिष्ठिते ॥ Śabdaratnāvalī 7.18.16
- शब्दरत्नावली रम्यापटोलमूले क्लीबं स्यान्नदीभेदेऽपि च स्त्रियाम् । रूप्यं चारौ त्रिषु स्वर्णरजतेऽपि नपुंसकम् ॥ Śabdaratnāvalī 7.26.29
- शब्दरत्नावली पुरुपुरुः पुमान् देवलोकपरागनृपभित्सु च । प्रचुरे वाच्यलिङ्गं स्यान्नदीभेदेऽपि च स्त्रियाम् । रसभेदे पुमानेव स्याद्भटातुरयोस्त्रिषु ॥ Śabdaratnāvalī 7.27.24
- शब्दरत्नावली रेवापदार्थाभिनयभिदोर्माल्यजन्तुविभूतिषु । रेवा रतौ नदीभेदे तथा नील्योषधौ स्त्रियाम् ॥ Śabdaratnāvalī 7.29.17
- शब्दरत्नावली त्रिदिवाकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
- शब्दरत्नावली पेशीपांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये । पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥ पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् । पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥ कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके । पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥ अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः । वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥ Śabdaratnāvalī 7.30.9
- शब्दरत्नावली महीमही भूम्यां नदीभेदे मह उत्सवतेजसोः । मोहो मूर्छाविद्ययोर्ना दुःखमात्रे क्वचिद्भवेत् ॥ Śabdaratnāvalī 7.33.9