कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कन्था

kanthāस्त्री · fem.

In 10 kośas: 11 synonym verses, 5 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.22 · p. 463
गाथा कन्था कुथा तद्वद् गदा स्यादजमोदया ।मर्यादा चानुराधेक्षुगन्धा गोधा च राधया ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.28 · p. 122
भवेदेडूकमेडोकं तदन्तर्न्यस्तकीकसम् ।कन्था तु मृन्मयी भित्तिः प्राग्भारोऽस्यावतारभूः ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 228
निचोलो वारबाणेऽस्त्री कार्पासस्यार्द्धचोलकः ।जङ्घावस्त्रं मङ्क्षणं स्यात्कन्था स्याद्यतिवाससि ।चीवरं भिक्षुसंघाटी निवीतं प्रावृतं त्रिषु ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.55 · p. 101
कन्था वीथी गाथा सिक्था-सन्दी नान्दी कर्णान्दूश्च ।अन्दुर्नन्दा माकन्दी स्या-न्मर्यादावद्वेदिर्धीदा ॥ ५५ ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
बल्वजादयः शब्दाः पुंसि भवन्ति । बहुत्वं चैषां सदैव । इमे बल्वजाः शष्पाः । इमे लाजा भ्रष्टधान्यानि । असवः प्राणाः । एते शब्दाः नपुंसके भवन्ति । इदं स्थलमरण्यप्रदेशः । शाद्वलं हरिततृणम् । शिबिरं शकटस्थानम् । पृतनाशब्दः स्त्रियां भवति । इयं पृतना सेना ।ईर्ष्या रुचिः स्फुलिङ्गाः शय्या निःश्रेणी कोटिः कुटी वाणी ।पेशी वरूथिनी च स्त्रियां कुथा नाडिका कन्था ॥ ६१ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.50 · p. 217
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2311 · p. 281
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पुरवर्गः Trikāṇḍaśeṣa 2.2.7 · p. 35
उलपशल्योपकण्ठे द्वे कपाटो द्वारकण्टकः ।कवाटश्चाररं कन्थावाटः प्राकार इत्यपि ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.37 · p. 161
कुड्योऽस्त्री भित्तिका कन्थाप्येडूकं त्वन्तरस्थिकम् ।नीव्रं वलीकं चोलान्ते चोलोऽस्त्री पटलं छदिः ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.128 · p. 169
निचोलः कंचुकश्चोलः कूर्पासश्चांगिकोऽस्त्रियाम् ।चीवरं भिक्षुसंघाटी कन्थाकन्थटिके समे ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास थार्धश्लोकः Dharaṇikośa 16.2.4 · p. 90
मन्थौ साक्तवमन्थानौ मन्थो नेत्रमलेऽपि च ।कन्था मृद्घाटिता भित्तिः कन्था प्रावरणान्तरम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.98 · p. 231
पार्थोऽर्जुने स्यात्ककुभद्रुमे चगाथा स्त्रियां छन्दसि शेषमात्रे ।स्यात्संस्कृतान्योक्तिषु चाथ कन्थावस्त्रान्तरे मृन्मयभित्तिकायाम् ॥ ९८ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.20 · p. 11
कन्था ग्रामे च भित्तौ च बहुचीरकृताम्बरे ।कन्या तु षष्ठराशौ स्यात् प्रियङ्ग्वाख्यमहीरुहे ॥ २० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.108 · p. 175
कोटिः संख्याग्रयोः कन्दो मूले सूरणमेघयोः ।कुन्दो वृक्षे निधौ यन्त्रे कन्था प्रावरणे पुरे ॥ १०८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.2 · p. 227
अथोऽर्थने च विषये धने वस्तुनि कारणे ॥अभिधेये निवृत्तौ च कुशले च प्रयोजने ।आस्था चालम्बनास्थानयत्नापेक्षास्वपि स्त्रियाम् ॥कन्था मृण्मयभित्तौ तु स्त्रियां प्रावरणान्तरे ।क्वाथोऽतिदुःखे मूर्छायां निष्काके च द्रवस्य च ॥कुथो वर्णे कथने स्यान्न क्लीबं पुंसि बर्हिषि ।कोथस्तु शाटिते नेत्ररोगभेदे च पुंस्ययम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)