कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कक्षा

kakṣāस्त्री · fem.

In 14 kośas: 26 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.589 · p. 26
भुजो बाहुः प्रवेष्टो दोर्वाहाथ भुजकोटरः ।दोर्मूलं खण्डिकः कक्षा पार्श्वं स्यादेतयोरधः ॥ ५८९ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.675 · p. 28
कच्छा कच्छाटिका कक्षा परिधानापराञ्चले ॥ ६७५ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.115 · p. 55
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर तिर्यक्काण्डः Abhidhānacintāmaśiloñcha 4.52 · p. 4
शृङ्खलो निगलोऽन्दूश्च कक्षा कक्ष्याऽपि वाल्हिके ॥ ११० ॥वाल्हीको वल्गवागे च खलिनं च खलीनवत् ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.525 · p. 60
ओष्ठस्याधश्चिबुकं ललाटमलिकं भुजाग्रमंसं च ।कक्षां च बाहुमूलं घाटामवटुं कृकाटिकामाहुः ॥ ५२५ ॥
गीतिः
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.168 · p. 39
कक्षा क्लीबे बाहुमूलं तदधः पार्श्वमस्त्रियाम् ।विलग्नं मध्यमं मध्यमवलग्नं च न स्त्रियाम् ॥ १६८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.297 · p. 53
कक्षा स्त्री कर्पटः पुंसि परिधाने परोञ्चलः ।उत्सवादौ सुहृद्भिर्यद्बलादाकृष्य गृह्यते ॥ २९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.364 · p. 129
पराजयो रणे भङ्गो हारिर्हारी स्त्रियामिमे ।कक्षास्पर्द्धा प्रतिस्पर्द्धा डम्बरे डिम्बविप्लवौ ॥ ३६४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.32 · p. 464
स्याद्राक्षा काङ्क्षया कक्षा मूषा मञ्जूषया समा ।लाक्षा लिक्षा च शेमूषा स्नसा स्याद्वस्नया समा ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.46 · p. 124
स्त्रियां कक्षा प्रको[11a]ष्ठः स्यात्कलाची च निगद्यते ।गृहावग्रहणी देहल्युम्बरोदुम्बराम्बराः ॥ ४६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.98 · p. 227
घर्घरी तु कुमारीणां शाटी चोटी चटी च सा ।कच्छा कच्छाटिका कक्षा परिधानापराञ्चले ।कच्छापटोऽस्त्री कौपीनमथ वक्षोम्बरे भवेत् ।चोलोऽङ्गिका कञ्चुलिका कूर्पा[93b]सोऽस्त्री च कञ्चुकः ॥ ९८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.65 · p. 312
क्षुद्ररोगविशेषाः स्युर्मसूरी चाजगल्लि[155b]का ।इन्द्रविद्धा मण्डला च कक्षा तूक्ताग्निरोहिणी ॥ ६५ ॥
metre not recognised
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.33 · p. 33
कक्षा तुला चोपमा स्यादुपमानं तु न स्त्रियाम् ॥ ३३ ॥
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.78 · p. 103
गुहा गाहा सहा वाहा स्वाहा सिंही जुहूः कुहूः ।आ[227a]मिक्षा कक्षया रिक्षा लिक्षा लाक्षा च राक्षया ॥ ७८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderस्त्रीfem.
एतान् शब्दान् यथासङ्ख्यं स्त्रीपुन्नपुंसकेषु विद्धि । इयं तनुः । अयं कायः । इदं शरीरम् । दधिसक्थ्यस्थिशब्दा नपुंसके स्युः । यथा इदं दधि क्षीरविकारः । इदं सक्थि उर्वोर्मध्यम् । इदमस्थि कीकसम् । कक्षाशब्दः स्त्रियां भवेत् यथा इयम् कक्षा बाहुमूलम् । अन्यच्च । "जघनाभरणे स्त्रीणां करीणां मध्यबन्धने । अवस्थासु च हर्म्यानां नित्यं कक्षा व्यवस्थिता ।"सुमनोऽप्सरोविरहितमद्व्यच्कमसन्तन्तु पुंसि स्यात् ।द्व्यच्कं पुनर्नपुंसकप्रकृतादन्यत्र वै जरसः ॥ २४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 136 · p. 67
समः सवर्णः सज्ञातिः सदृक्षः सदृशः सदृक् ।तुल्यः सधर्मरूपश्च तुला कक्षोपमा विधा ॥ १३६ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.252 · p. 132
बाहुर्बाहाथ दोर्मूलं भुजकोटर एव सः ।कक्षा स्यात्खण्डिका चाथ पार्श्वं स्यादंसयोरधः ॥ २५२ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.57 · p. 217
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.947 · p. 145
दोर्मूलं खण्डिकश्चैव कक्षा च भुजकोटरः ॥ ९४७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.867 · p. 170
कच्छाटिका च कच्छाटी कच्छा कक्षा च कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2659 · p. 429
औपम्यमुपमानमुपमितिस्तथोपमा ।अनुकारोऽनुहारश्च साम्यं कक्षा तथा तुला ॥ २६५९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.354 · p. 105
कक्ष्या कक्षा सप्तकी स्यात् काञ्चिः काञ्ची च मेखला ।सारसनं सरसनं रसना रशना तथा ॥रसनं रशमञ्चेति स्त्रीकटीभूषणे भवेत् ।अथ पुंसः कटीदेशभूषणे शृङ्खला त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 स (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.93 · p. 116
अथ कक्षा कच्छटिका कच्छा कच्छाटिकापि च ।भस्मरेखात्रयं भाले त्रिपुण्ड्रकमिति स्मृतम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.386 · p. 136
कक्षा स्पर्धा प्रतिस्पर्धा परिकक्षा च कुत्रचित् ।मोहो मुर्च्छा कश्मलञ्च मूर्छनञ्चापि कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.69 · p. 178
न क्ली कक्षा बाहुमूलं पार्श्वमस्त्री तयोरधः ।पश्चिमांगं तनोः पृष्ठमंससन्धी तु जत्रुणी ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.842 · p. 96
अव्यक्तः परमात्मनि मूर्खे स्पष्टेतरे च निर्दिष्टः ।कक्षा गुह्यपिधाने काञ्च्यां गेहे प्रकोष्ठे च ॥ ८४२ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास क्षश्लोकः Dharaṇikośa 33.3.2 · p. 233
कक्षः स्मृतो भुजामूले कक्षो मूले च वीरुधः ।कक्षा स्पर्धापदे काञ्च्यां रथगेहप्रभेदयोः ।गजरज्जौ परीधाने पश्चादञ्चलपल्लवे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.53 · p. 374
शुष्के तृणे वीरुधि च प्रकोष्ठेपाश्चात्त्यवस्त्राञ्चलपल्लवे स्त्री ।काञ्च्यां तथोद्ग्राहणिकारथाङ्ग-स्पर्धापदे स द्विपरज्जुगश्च ॥ ५३ ॥
इन्द्रवज्रा
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.54 · p. 374
वस्त्रे च भित्तावथ वीक्षमीक्ष्ये-द्भुतेऽथ मोक्षो नरि मुष्ककद्रौ ।निःश्रेयसे मोचनवाचकोऽथरूक्षस्तु वृक्षे त्रिषु हार्दही[85b]ने ॥ ५४ ॥
उपजातिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.129 · p. 54
स्त्रियां तु परिधानस्य पश्चादञ्चलपल्लवे ।केचित् तु बाहुमूलेऽपि कक्षां स्त्रियमधीयते ॥ १२९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.5 · p. 291
पुमान् पर्वतभेदे स्याद्भल्लूके शोणकेऽपि च ।कक्षा स्पर्धापदे बाहुमूले च कर्त्तृणेऽपि च ।काञ्चीगुणेऽन्तरीयस्य पश्चादञ्चलपल्लवे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.437 · p. 247
कक्षा वरत्रा प्रकोष्टस्पर्द्धोद्ग्रहणिकासु च ।कुल्माषं काञ्जिके ना तु यवके स्यादथाऽबिले ॥ ४३७ ॥
अनुष्टुप्

कक्षा as a meaning in nānārtha verses