All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · तान्ताः (2/2)
तत्स्त्री नारदवल्लकीगतमथ क्लीबे पृषद्बिन्दुषुप्रायो भूम्नि मृगे तु पुंसि परवत्स्याच्छ्वेतबिन्द्वन्विते ।वायौ पुंसि जगज्जगच्च चरमे लोकेऽन्यवज्जङ्गमेस्त्री भूमौ भुवने जनेष्वपि तथा छन्दोन्तरे कीर्तितम् ॥ २२ ॥
6.16.22 · p. 221
शार्दूलविक्रीडितम्
चन्द्रे पुंसि तृपद्द्वयेन रहितं छत्त्रेऽन्यवत्तृप्यतिस्याद्भेद्ये विपुले वृहन्नथ वृहत्युक्ताम्बुधान्यामपि ।छन्दोवस्त्रभिदोश्च वाचि गदिता सिंह्योर्महत्क्षुद्रयो-र्ना देवानिलयोर्मरुन्निगदितोऽथ ग्रन्थिपर्णेऽन्तिमे ॥ २३ ॥
6.16.23 · p. 221
शार्दूलविक्रीडितम्
पूज्येऽर्हंस्त्रिषु ना जिने दिशि हरित्स्त्री वर्णभेदे हयेना च स्त्री तु तृणे स्त्रियां तु हरितो दूर्वा सुवर्णेऽन्यवत् ।रोहित् पुंसि रवौ मृगीव्रततिगः स्त्री विद्युदुक्ता स्त्रियांसंध्यायां तडिति प्रभाविरहिते भेद्यस्य लिङ्गे मता ॥ २४ ॥
6.16.24 · p. 221
शार्दूलविक्रीडितम्
गर्मुत्स्वर्णलतार्थकोऽपि मिथुने भूभृन्नृपेऽद्रौ मतः ।पित्सन्पक्षिणि नान्यवत्तु पतनेच्छौ कुत्सिते त्वन्यवत् ।कुर्वत्कर्मकरेऽथ पुंसि तिल[296a]के श्रीमान्मनोज्ञेऽन्यव-ल्लक्ष्मीवत्यपि चार्वती तु हयिकायां कुम्भदास्यामपि ॥ २५ ॥
6.16.25 · p. 222
शार्दूलविक्रीडितम्metre not read in every line
धीमान्गीर्पतिविज्ञयोरथ भवेद्भास्वान् रवौ भासुरेदोह्यायां गवि सुव्रतापि सुखतः सुष्ठुव्रते त्वन्यवत् ।वाच्याभं विवृतं स्फुटे च पिटिकाभेदे भवेत्तत्स्त्रियांकान्तायां वनिता स्त्रियामपि पराभा त्वर्थिते सेविते ॥ २६ ॥
6.16.26 · p. 222
शार्दूलविक्रीडितम्
जामाता दुहितुर्धवे प्रियतमेऽर्कावर्तरोगेऽथ वि-धाता वेधसि मन्मथेऽथ नरपादेष्ट्रोर्विनेता भवेत् ।तार्क्ष्याम्बापिटिकाभिदोश्च विनतारुग्णे नते शिक्षितेत्रय्यां स्यादथ पञ्चता च निधने स्यात्पञ्चभावे तथा ॥ २७ ॥
6.16.27 · p. 222
शार्दूलविक्रीडितम्
सूतायां तु भवेत्स्त्रियां च विकृतेऽन्याभं विजातं कृतेखण्डे रुग्भिदि वालुकासु सिकता देशेऽस्त्रियां शार्करे ।ध्वाने चाङ्गविलेपनेऽथ परवत्त्वामोदिते वासितंस्त्रीभ्योः स्त्री पिशितं पुनश्च पलले मांस्यां स्त्रियां सम्मतम् ॥ २८ ॥
6.16.28 · p. 222
शार्दूलविक्रीडितम्
चापे स्यात्तृणताथ गोपतिरपि क्ष्मापे च शण्डे शिवेसूर्ये[296b]श्रीपतिरच्युते स्मरहरेऽथो शिल्पिभेदे नरि ।जीवेऽथ स्थपतिश्च यष्टरि भवेत् सूते तथा सौविदे ।कालेन्द्वोरमतिः स्मरे तु रमतिः कान्तेऽपि काले दिवि ॥ २९ ॥
6.16.29 · p. 222
शार्दूलविक्रीडितम्metre not read in every line
रात्रौ वासनिकेतयोश्च वसतिः स्त्री धातृवाय्वोः पुनःश्रौतेष्वग्निषु चाङ्कतिर्निर्गदितो रुक्त्यागयोस्त्र्यंहतिः ।अश्रीदिग्धवयोरुपद्रवहृते स्यान्निर्ऋतिः पुंसि तुस्वाहायां तरणौ घृणौ च चतुरैः प्रोक्तो गभस्तिस्तथा ॥ ३० ॥
6.16.30 · p. 222
metre not recognisednearly शार्दूलविक्रीडितम्: pāda 2, syllable 9 र्नि (wrong syllable); pāda 3, syllable 14 न्नि (wrong syllable)
पुमानगस्तिर्मुनिवृक्षभेदेस्यात्संगतिः संगमबुद्धिनाम्नोः ।स्त्री संनतिः स्यात्प्रणतौ ध्वनौ चदैवे च धृत्यां नियतिः स्त्रियां स्यात् ॥ ३१ ॥
6.16.31 · p. 222
उपजातिः
दैर्घ्यप्रभावोद्यमवासरेषुसीम्न्युद्यमे संयमकेवले च ।आगामिकाले गदितायतिः स्त्रीस्यात्पद्धतिर्वर्त्मनि चावलौ च ॥ ३२ ॥
6.16.32 · p. 223
इन्द्रवज्रा
विपत्तिरापत्तिरिहापदि द्वे ।स्तो यातनायामथ संततिः स्त्री ।वंशे सुतादौ च परंपरायांस्यात्संमतिः स्वीकृतिवाञ्छयोश्च ॥ ३३ ॥
6.16.33 · p. 223
उपजातिः
साम्ये सभायां समिती मृधेऽपिस्यात्संगमेऽथादितिरत्र भू[297a]मौ ।द्युसज्जनन्यामथ पक्षतिः स्यात्पक्षस्य मूले प्रतिपत्तिथौ च ।तार्क्ष्यस्त्रियां तून्नतिरुद्गतौ चवृद्धौ प्रसूतिस्तु सुतोद्भवादौ ।पुत्र्यां च वल्ल्यां प्रततिस्ततौ च ॥ ३५ ॥
6.16.35 · p. 223
इन्द्रवज्राmetre not read in every line
भवेत्स्रवन्त्यौषधिसिन्धुभेदेवाते त्वमात्ये वहतिर्वृषे नास्त्री दुर्गतिः स्यान्निरये च निःस्वे ।डिम्बे गदे स्याद्विकृतिर्विकारेशठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥
6.16.36 · p. 223
उपजातिःmetre not read in every line
स्यान्मूलमायापरमात्मशील-स्वाम्यादिपौरव्रजकारणेषु ।पुंस्त्वादिलिङ्गे प्रकृतिस्तथैवस्यात्प्रत्ययस्यापि पुरोगभागे ॥ ३७ ॥
6.16.37 · p. 223
इन्द्रवज्रा
जात्यङ्गरूपेषु मताकृतिः स्त्रीसौस्थ्ये तथा*स्तमने च सौख्ये ।स्यान्निर्वृतिः साधुनयध्रुवाम्बा-र्थिका सुनीतिर्गदिताथ वृत्तौ ॥ ३८ ॥
6.16.38 · p. 223
उपजातिःmetre not read in every linenearly उपजातिः
प्रवाहवृत्तान्तगता प्रवृत्ति-रथाङ्गहारे रमणीविलासे ।छेदेऽपि विच्छित्तिरथानुभूतौसंवित्तिरुक्ता विजनाविवादे( ? ) ॥ ३९ ॥
6.16.39 · p. 224
उपजातिः
आसत्तिः स्त्री लाभे सङ्गे पर्याप्तिस्तु त्राणे प्राप्तौ ।प्राकाम्येऽथो निर्वृत्तिः स्याद्वैराग्यादौ पञ्चत्वेऽपि ॥ ४० ॥
6.16.40 · p. 224
metre not recognised
समर्थनावसान[297b]योः स्त्रियां समाप्तिरीरिता ।स्त्रियां प्रलम्बवैरिणो भमातृगा च रेवती ॥ ४१ ॥
6.16.41 · p. 224
metre not recognised
मालती युवतिजातिचन्द्रिकालाङ्गलीषु निशि वाहिनीभिदि ।काकमाच्यां च सात्वती पुन-र्वृत्तिभेदशिशुपालमातृगा ॥ ४२ ॥
6.16.42 · p. 224
रथोद्धताmetre not read in every linenearly रथोद्धता: pāda 1, syllable 4 च्यां (syllables merged)
वर्तमानसमये तु भवन्तिःपुंसि योषिति पुनः स लडर्थे ।सायकान्तरगता भवती स्त्रीसत्वदर्थ इह वाच्यसदृक्षा ॥ ४३ ॥
6.16.43 · p. 224
स्वागता
पार्वती द्रुपदजागजभक्ष्या-जीवनीगिरिसुतासु मता ज्ञैः ।शाकिनीभिदि तथानलपात्र्यांमल्लिकाभिधलतासु हसन्ती ॥ ४४ ॥
6.16.44 · p. 224
स्वागता
जीवाशम्योः कामरुहामृतवल्ल्यो-र्जीवन्ती स्यात्पुंसि पुनर्भेषजनाम्नि ।वासन्तः स्यात्कोकिल उष्ट्रे च विटे चस्त्री माधव्यां पाटलिकायामपि यूथ्याम् ॥ ४५ ॥
6.16.45 · p. 224
मत्तमयूरम्metre not read in every linenearly मत्तमयूरम्