कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रा

rāस्त्री · fem.

In 7 kośas: 2 synonym verses, 6 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.539 · p. 192
द्युम्नं स्त्रियौ रा रयी ना कोशोर्थो विभवोऽपि च ।शोभोजनं वैणवं च दीप्तं दीप्तकमुज्ज्वलम् ॥ ५३९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.117 · p. 225
एर्वारुः काकुकिष्कू च गवेधुर्बाहुना सह ।राभागौरेवमाद्याः स्युः शब्दाः पुंसि स्त्रिया(8)मपि ॥ ११७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.94 · p. 301
रः पावके रागसमीरयोः स्या-च्छब्देऽथ तीक्ष्णे परवत्प्रदिष्टः ।रास्तु द्वयोः स्याद्धनहेममेघे-रुः स्याद्भये रक्षणवाचकश्च ॥ ९४ ॥
इन्द्रवज्रा
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.36 · p. 5
रः कामवह्निशब्देषु तीव्रे रामे नरे पवौ ।राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.1 · p. 263
रः कामवह्नौ च रुः शब्दे रा धने पुमान् ।री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् ।श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु ।विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥
अनुष्टुप्metre not read in every line
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2245 · p. 272
पूः स्त्रियां नगरे देहे भूर्महीस्थानमात्रयोः ।मा रमायां च संपत्तौ रा द्वयोर्द्युम्नरुक्मयोः ॥ २२४५ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.30 · p. 26
धने रा रीश्च रो धान्ये रुर्भये च प्रकीर्त्तितः ।ल इन्द्रे लवणे लः स्याल्ला दाने श्लेषणेऽपि लीः ॥ ३० ॥
अनुष्टुप्
meaningsधन
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.38 · p. 280
स्वोऽस्त्री धने त्रिषु स्वीय आत्मनि स्वजने तु ना ।गूर्गुदे स्त्री प्रयत्ने ना रा न क्ली धनरुक्मयोः ॥ ३८ ॥
अनुष्टुप्