मेघ
meghaपुं · masc.In 22 kośas: 25 synonym verses, 5 as a nānārtha head word, 98 as a meaning of another word.
नाभिश्च जितशत्रुश्च जितारिरथ संवरः ।मेघो धरः प्रतिष्ठश्च महासेननरेश्वरः ॥ ३६ ॥सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् ।कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् ॥ ३७ ॥सूरः सुदर्शनः कुम्भः सुमित्रो विजयस्तथा ।समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥ ३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable); pāda 4, syllable 3 श्च (wrong syllable)
genderपुंmasc.
नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ १६४ ॥
upajati mixed
genderपुंmasc.
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् ।घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
मेघोऽभ्रो जलदो दभ्रान् तडित्वान् जलली जली ।कमली कमलाः कन्दो घनश्चाथ घनाघनः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
तद्गण्डमण्डले च स्यात्सीधुपात्रं तु सेचनम् ।दानं तु तन्मदे चापि तद्भेदे मेघमित्यपि ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
अभ्रो मेघो वारिवाहो जलदो धूमसम्भवः ।जलमुक् पुष्पदः कन्दो बलाहकवलाहकौ ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
बालग्रहाः पूतनाद्या अथ मेघो बलाहकः ।जलपर्यायतो वाहधरमुग्दभृतः पुनः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
उदवाह-बलाहक-मेघ-घन-स्तनयि[18a]त्नु-सरण्यु-नभःकरिणः ।नुदनुर्मुदिरो वनजो गगन-ध्वज-वारिध्वजाम्बुद-वारिमुचः ॥ ५ ॥
metre not recognisednearly तोटकम्: pāda 2, syllable 4 रि (wrong syllable)
genderपुंmasc.
आत्म-मेघ-तरि-कूप-रिपूणांनिभ( ? )गाङ्गि-किरणासि-कफानाम् ।वृक्ष-तण्डुल-समास-कन्दुक-प्रोन्दुकाशनि-कपर्द-विषाणाम् ॥ ४ ॥
metre not recognisednearly स्वागता: pāda 2, syllable 1 नि (wrong syllable)
genderपुंmasc.
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
अम्बुदघनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः ।पर्जन्यो मिहिरो नभ्राट् शम्पा सौदामिनी तडित् ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मेघस्तु जलमुग्नभ्राड् घनाघनघनौ पुनः ।तडित्वान्मुदिरो धूमयोनिजीमूतशद्रयः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
मुस्तं मेघो वराहोऽब्दो नादेयो नागरः पृथक् ।पर्पटस्तु रजो रेणुः कवचो ब्रह्मसण्टकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
जीमूतो मुदिरो मेघो घनो धाराधरोऽम्बुदः ।कादम्बरी मेघमाला जैमूतं मेघसम्भवम् ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
ज्योत्स्नावती चन्द्रवती ज्योत्स्नी चन्द्रिकयान्विता ।अभ्रं मेघो वारिवाहो जलविड्घूमयोनयः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
वायवी चोत्तरेशानी ब्राह्मी नागीति ता दश ।वारिवाहो घनो मेघः स्तनयित्नुर्घनाघनः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
नाभिराड्जितशत्रुश्च जितारिः संवरो नृपः ।मेघो धरो धराधीशः प्रतिष्ठोऽप्रतिमो नृपः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
[मेघो] घनाघनो नभ्राट् तडित्वान् मुदिरो घनः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
हस्तिनः शिरसि दन्तौ दंष्ट्रा शुनवराहयोः ।मेघो मत्स्यो भुजङ्गमो वेणुर्मौक्तिकयोनयः ॥ १८५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable); pāda 3, syllable 7 ङ्ग (wrong syllable)
genderपुंmasc.
अब्जमभ्रं वारिवाहो घनो मेघः पयोधरः ।अम्भोधरो व्योमधूमो धूमयोनिर्घनाघनः ॥
अनुष्टुप्
genderपुंmasc.
इन्द्रनीलमहनीलौ समौ मुक्ता तु मौक्तिकम् ।वराहशङ्खमत्स्याहिमेघद्विरदवेणवः ॥ १४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
genderपुंmasc.
अभ्रं मेघबलाहकवारिदवारिधरमुदिरजीमूताः ।स्तनयित्नुघनतटित्वद्धाराधरधूमयोनितोयमुचः ॥ २१३ ॥
गीतिः
genderपुंmasc.
मेघोऽब्दो जलदो नभ्राट् तटित्वाञ्जलमुग्घनः ।धाराधरो वारिधरो धूमयोनिर्वलाहकः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
बोलो गोलः शशः पिण्डः प्राणो गन्धरसो रसः ।अभ्रकं व्योममेघाख्यं चक्रसंज्ञं नु माक्षिकम् ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
परिघो योगभेदेऽपि मेधो वारिदमुस्तयोः ।महार्घस्तु महामूल्ये पुंसि लावकषक्षिणि ।पृक्कायां स्त्री लघुः क्लीबं शीघ्रे कृष्णागुरुण्यपि ॥ ७३ ॥
अनुष्टुप्
doubtful
खस्याभ्रके ब्रह्मणि च मेघस्याभ्रकमुस्तयोः ।भुवो नामानि सौराष्ट्र्यां शैलेये ग्रावशैलयोः ॥ ४ ॥
अनुष्टुप्
meaningsमुस्त
मेघ as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् जीमूतअग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ५८ ॥ Amarakośa 3.3.58
- नामलिङ्गानुशासनम् घनघनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे । Amarakośa 3.3.211
- धरणिकोश अब्दअब्दोऽपि मुस्तके मेघे अब्दः संवत्सरेऽपि च । वेदिः परिस्कृता भूमिर्वेदिरङ्गुलिमु[49]द्रिका ॥ Dharaṇikośa 17.2.5
- धरणिकोश तोयदकौमुदः कार्तिको मासः कौमुद्यौ चन्द्रिकोत्सवौ । तोयदो मुस्तके मेघे तोयदं घृतमुच्यते ॥ Dharaṇikośa 17.2.6
- धरणिकोश ग्रावन्राजा नृपे प्रभौ शक्रे राजा क्षत्रियचन्द्रयोः । ग्रावा च प्रस्तरे शैले ग्रावा मेघे च कीर्तितः ॥ Dharaṇikośa 19.2.10
- धरणिकोश सुदामन्अर्यमा रविराख्यातश्चार्यमा पितृदेवता । सुदामा मेघ उद्दिष्टः सुदामा पर्वतेऽपि च ॥ Dharaṇikośa 19.2.58
- धरणिकोश स्तनयित्नुस्तनयित्नुः स्मृतो मेघे घनस्य स्तनितेऽपि च । सनातनो ध्रुवो विष्णुः पितॄणामतिथावपि ॥ Dharaṇikośa 19.2.66
- धरणिकोश क्षरदारु काष्ठे देवदारौ कारुः शिल्पिनि कारके । क्षरं जलं क्षरो मेघो द्वारं तु द्वारि चागतौ ॥ Dharaṇikośa 26.1.6
- धरणिकोश वृत्रछत्रा मधुरिका छत्रं धन्याके चातपत्रके । वृत्राः पर्वतमेघेन्द्रा वृत्रा ध्वान्तारिदानवाः ॥ Dharaṇikośa 26.2.20
- कोषकल्पतरु करककरकः करदाडिम-पक्षिभिदा- स्विह पुंसि करङ्कक[249a]मण्डलुषु । स न योषिति मेघशिलासु तु स त्रितये मशकस्तु रुजाभिदि वः(?) ॥ २४ ॥ Koṣakalpataru 6.1.24
- कोषकल्पतरु सेचकस्यात्सूचकः सीवनवस्तुकाक- बिडालवान्तादगतो नृलिङ्गः । स्याद्बोधके च पिशुने च विशेष्यलिङ्गो मेघे तु ना त्रिषु तु सेक्तरि सेचकोऽपि ॥ ६३ ॥ Koṣakalpataru 6.1.63
- कोषकल्पतरु जलकरङ्कमेघे तु जलकरङ्कः फले तथा नालिकेरस्य । जलनाय[260b]कस्तु शङ्खे सलिललतायां तथा वरुणे ॥ ६८ ॥ Koṣakalpataru 6.1.68
- कोषकल्पतरु सरट्लघ्वट् वायौ लघौ त्रय्यां सरट् स्याद्वातमेघयोः । पुरटोऽङ्घ्रौ सुवर्णेऽन्त्ये देवटो देवशिल्पिनि ॥ Koṣakalpataru 6.10.45
- कोषकल्पतरु घनपरे महर्लोकत ईरितोऽपि लोकेऽत्र लोकेऽपि जनश्च नीचे । जनी स्नुषायां स्याज्जनने घनस्तु मेघे दृढे विस्तृतिसान्द्रयोश्च । दृढेऽप्ययोमुद्गरके * गात्रे वाद्ये पुनर्मध्यमनृत्यकेऽन्त्ये ॥ ८४ ॥ Koṣakalpataru 6.21.84
- कोषकल्पतरु प्रलम्बप्रलम्ब उक्तो दनुजेऽङ्कुरे तु तालस्य शाखास्वपि संप्रदिष्टः । हारप्रभेदे त्रपुसे च मेघे गोतुम्ब उक्तो नरि शीर्णवृन्ते ॥ ३४ ॥ Koṣakalpataru 6.24.34
- कोषकल्पतरु रारः पावके रागसमीरयोः स्या- च्छब्देऽथ तीक्ष्णे परवत्प्रदिष्टः । रास्तु द्वयोः स्याद्धनहेममेघे- रुः स्याद्भये रक्षणवाचकश्च ॥ ९४ ॥ Koṣakalpataru 6.27.94
- कोषकल्पतरु देवआकूतचेष्टात्मजनुःषु भूतौ सत्तासु चेष्टासु पदार्थकृत्योः । लीलासु न स्त्री नृपतौ तु मेघे सुरे च देवोऽथ हृषीकगोऽन्त्ये ॥ ९८ ॥ Koṣakalpataru 6.29.98
- कोषकल्पतरु पयोधस्सरिद्भेदेऽथ साधीयानतिसाध्वतिवाढयोः । मेघाम्बुध्योः पयोधा ना विबुद्धैः परिकीर्तितः ॥ ३१ ॥ Koṣakalpataru 6.31.31
- नानार्थार्णवसंक्षेप अश्मन्अप्तुस्तु याचके कालेऽप्यश्मा पाषाणमेघयोः । आधिर्मानसपीडायामधिष्ठाने तथैव च ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 2.2.11
- नानार्थार्णवसंक्षेप चरुचरुः स्थाल्यां हव्यपाके मेघेऽथ च्यूपवाग्रवौ । वाते युद्धे छदस्तु स्यात् पक्षिपक्षेऽपवारणे ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 2.2.51
- नानार्थार्णवसंक्षेप विष्णुविधिर्दैवे विरिञ्चे च काले कल्पे विधानके । विधातव्येऽप्यथो विष्णुर्मेघे यज्ञे च केशवे ॥ ११० ॥ Nānārthārṇavasaṃkṣepa 2.2.110
- नानार्थार्णवसंक्षेप कोशतनुत्वे न पुमांस्त्वेष मेघे कोलं पुनर्नपि । व्योषेऽर्धकर्षे तक्कोले शुण्ठ्यां च बदरीफले ॥ २८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.288
- नानार्थार्णवसंक्षेप गिरिगन्धर्वाख्ये द्वयोर्ग्राहिशब्दस्तु त्रिर्ग्रहीतरि । कपित्थे तु पुमान्ना तु गिरिः स्यान्नगमेघयोः ॥ ३४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.347
- नानार्थार्णवसंक्षेप गोत्रअङ्गयोरुभयोः स्यात् तु त्रिषु रङ्गोपजीविनि । गोत्रो ना भूधरे मेघे क्ली तु नाम्नि कुले बले ॥ ३६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.368
- नानार्थार्णवसंक्षेप घनअजातार्तवकन्यायां तीक्ष्णार्जकहरिद्रयोः । घनो ना मुस्तके मेघे सङ्घाते लोहमुद्गरे ॥ ३८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.381
- नानार्थार्णवसंक्षेप जत्रुचतुष्पाज्जातिभेदेऽथ जत्रुर्ना घर्ममेघयोः । क्लीबेऽवसानेंऽससन्धौ जन्युस्तु द्वे शरीरिणि ॥ ४६७ ॥ Nānārthārṇavasaṃkṣepa 2.5.467
- नानार्थार्णवसंक्षेप नागमेघे च नागदन्त्यां च नागवल्ल्यां च कश्चन । अस्त्री तु वङ्गे सीसे च द्वे तु ग्राहाख्ययादसि ॥ ६७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.677
- नानार्थार्णवसंक्षेप प्लवस्यात् पद्मनालिकायामित्यथ सामान्तरे प्लवः । उडुपे प्लवने मेघे जलपूरेऽप्यथ द्वयोः ॥ ७०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.704
- नानार्थार्णवसंक्षेप भेकमेघे ना द्वे तु मण्डूके मर्त्यजात्यन्तरेऽपि च । निषादब्राह्मणीजाते कातरे तु त्रिषु स्मृतः ॥ ९२१ ॥ Nānārthārṇavasaṃkṣepa 2.5.921
- नानार्थार्णवसंक्षेप लघट्लघण् मेघे टकारान्तो वायौ च नरलिङ्गकः । हिरण्यमाषकस्यापि भेदे स्त्री त्वप्सरस्यसौ ॥ ११३६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1136
- नानार्थार्णवसंक्षेप वलमेघे दैत्यविशेषे च धान्ये निष्पावसंज्ञके । द्वे तु काकेऽथ वल्ला स्त्री तुवरीसंज्ञधान्यके ॥ ११७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1172
- नानार्थार्णवसंक्षेप व्रजआपस्तम्बप्रयोगेऽसावश्वगोष्ठे च दृश्यते । ना तु मेघे च शैले च नियमे तु व्रतोऽस्त्रियाम् ॥ ११७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1177
- नानार्थार्णवसंक्षेप वीध्रविगतौ त्रिस्तु विगते शान्ते कान्तगतादिषु । वीध्रं पुंस्यनले वायौ मेघे क्ली तु नभस्यथ ॥ १२६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1266
- नानार्थार्णवसंक्षेप वृत्रना तु वैवस्वते क्ली तु शैलेये वृत्रवाक् तु ना । दैत्यभेदे गिरौ मेधे शत्रौ ध्वान्ते च नप् पुनः ॥ १२८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1282
- नानार्थार्णवसंक्षेप सरस्स(रः?राः) सान्तष्टान्तमन्ये वायौ मेघे द्रुमान्तरे । सरीसृपपतत्र्योस्तु द्वे संश्चत् तु नृलिङ्गकः ॥ १४७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1476
- नानार्थार्णवसंक्षेप जीमूतजीमूतस्तु गिरौ मेघे देवताडाख्ययवल्लिषु । अथोत्तरार्धं रभसः पपाठ बहुवित्तमः ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 3.2.90
- नानार्थार्णवसंक्षेप नदनुनदनुस्तु मृधे मेघे नाथातस्तु प्रजापतौ । आहारे चाथ निगमो नगरे च वणिक्पथे ॥ १०२ ॥ Nānārthārṇavasaṃkṣepa 3.2.102
- नानार्थार्णवसंक्षेप पर्वतअस्त्रयन्त्रे पर्वतस्तु मुनिभेदे गिरावपि । मेधेऽप्यथ पटीरः स्यात् कन्दर्पे चापि चन्दने ॥ १५३ ॥ Nānārthārṇavasaṃkṣepa 3.2.153
- नानार्थार्णवसंक्षेप मुदिरमद्यस्य साधनद्रव्ये बल्कसाख्येऽथ मारुतिः । भीमसेने हनुमति मुदिरो मेघसूर्ययोः ॥ १७६ ॥ Nānārthārṇavasaṃkṣepa 3.2.176
- नानार्थार्णवसंक्षेप असुरअसुरस्तु पुमान् मेघे वास्तुदेवान्तरेऽपि च । कोष्ठपङ्क्तौ पश्चिमायां षष्ठे दक्षिणतः स्थिते ॥ ११४ ॥ Nānārthārṇavasaṃkṣepa 4.114
- नानार्थार्णवसंक्षेप उपलउपलस्तु पुमान् मेघे पाषाणे पुंन्नपुंसकम् । मणौ च शर्करायां तु दृषत्पुत्रेऽपि च स्त्रियाम् ॥ २४० ॥ Nānārthārṇavasaṃkṣepa 4.240
- नानार्थार्णवसंक्षेप ओदनअन्ने क्लीबं तु मेघे स्यात् काञ्जिके तु पुमानयम् । ओलकस्तु पुमाञ्छाके काणमारिषसंज्ञके ॥ २९७ ॥ Nānārthārṇavasaṃkṣepa 4.297
- नानार्थार्णवसंक्षेप जलदशङ्खे स्याज्जलजं तु क्ली पद्मे द्वे मत्स्यकूर्मयोः । जलदस्तु पुमान् मेघे जलदा विद्युति स्त्रियाम् ॥ ७६८ ॥ Nānārthārṇavasaṃkṣepa 4.768
- नानार्थार्णवसंक्षेप तोयदसर्षपे तोत्तरि त्वेष त्रिर्नृलिङ्गस्तु तोयदः । मेधे क्लीबं तु धनुषि स्यादथो दक्षिणस्त्रिषु ॥ ८९५ ॥ Nānārthārṇavasaṃkṣepa 4.895
- नानार्थार्णवसंक्षेप पिण्डिलमेघे हिमे तु क्ली त्रिस्तु गणके पिण्डितस्तु ना । तुरुष्कसंज्ञनिर्यासे त्रिस्तु स्याद्गणिते घने ॥ ११६६ ॥ Nānārthārṇavasaṃkṣepa 4.1166
- नानार्थार्णवसंक्षेप मिहिरमिहिरस्तु पुमान् सूर्यवायुमेधेषु नब्जले । मिथुनं तु क्लीबलिङ्गं स्त्रीपुंसयुगले तथा ॥ १४२३ ॥ Nānārthārṇavasaṃkṣepa 4.1423
- नानार्थार्णवसंक्षेप मुचिरतालमूलीसमाख्ये च स्तम्बेऽथ मुचिरः पुमान् । सूर्ये मेघे च धर्मे च त्रि तु दातरि ना पुनः ॥ १४२८ ॥ Nānārthārṇavasaṃkṣepa 4.1428
- नानार्थार्णवसंक्षेप वराहश्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ । मेघेऽङ्गिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११ ॥ Nānārthārṇavasaṃkṣepa 4.1611
- नानार्थार्णवसंक्षेप शम्बरकर्णिकारंप्रभेऽथो ना शम्बरो गिरिमेघयोः । दैत्यभेदे च विज्ञेयो यो बिभर्त्युरसा स्त्रियम् ॥ १७६१ ॥ Nānārthārṇavasaṃkṣepa 4.1761
- नानार्थार्णवसंक्षेप सरण्युसनाभिर्हि सपिण्डेऽन्ये सोदर्येऽथाङ्गुलौ स्त्रियाम् । त्रिर्नाभिसहिते ना तु सरण्युर्वायुमेघयोः ॥ १९३१ ॥ Nānārthārṇavasaṃkṣepa 4.1931
- नानार्थार्णवसंक्षेप पुरुभोजस्पुरुभोजास्तु मेघे च गिरौ चाथ पृथग्जनः । मूर्खे नीचे तथा पोटगलस्तु नडसंज्ञके ॥ ९३ ॥ Nānārthārṇavasaṃkṣepa 6.93
- नानार्थार्णवसंक्षेप शिशिम्बिष्टशरवारिः शरमुखे पातक्यशरजीविनोः । शिशिम्बिष्टस्तु मेघे स्याद् भारद्वाजेऽप्यभाषत ॥ ११६ ॥ Nānārthārṇavasaṃkṣepa 6.116
- नानार्थार्णवसंक्षेप स्तनयित्नुभेदेष्वेकत्र भेदेऽपि सर्पभुक्संज्ञभोगिनि । वासुकौ स्तनयित्नुस्तु मेघे मेघस्य गर्जिते ॥ १२३ ॥ Nānārthārṇavasaṃkṣepa 6.123
- नानार्थार्णवसंक्षेप पयोगर्भमन्त्राख्ये जलमार्जारे समासार्थादि पूर्ववत् । पयोगर्भस्तु ना मेघे समासार्थादि पूर्ववत् ॥ ३६४ ॥ Nānārthārṇavasaṃkṣepa 6.364
- नानार्थार्णवसंक्षेप पोषयित्नुना मेघे कोकिले तु द्वे पौरुषेयं पुनस्त्रिषु । पुरुषेण कृते तस्य विकारे च वधेऽथ नप् ॥ ४१५ ॥ Nānārthārṇavasaṃkṣepa 6.415
- नानार्थार्णवसंक्षेप मुमुचानपुल्लिँङ्गस्त्वृषिभेदेऽसौ कोहलस्य मुनेः सुते । मुमुचानस्तु ना मेघे त्रि तु मोक्तरि केचन ॥ ५०२ ॥ Nānārthārṇavasaṃkṣepa 6.502
- नानार्थार्णवसंक्षेप विषन्धरजृम्भणेऽथ द्वयोः सर्पे विषन्धर इति ध्वनिः । ना तु मेघे विकसुकः परिस्रोतोरये पुमान् ॥ ५७५ ॥ Nānārthārṇavasaṃkṣepa 6.575
- परमानन्दीयनाममाला रारः कामवह्निशब्देषु तीव्रे रामे नरे पवौ । राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥ Paramānandīyanāmamālā 1.36
- परमानन्दीयनाममाला अब्दअंह्रिः पादे तरोर्मूलेऽणुः स्तोकव्रीहिभेदयोः । अब्दो मेघे गिरौ वर्षमुस्तयोर्वास्तवेऽपि च ॥ ११ ॥ Paramānandīyanāmamālā 5.1.11
- परमानन्दीयनाममाला ऊर्णायुऊर्णायुरूर्णनाभे स्थान्मेघकम्बलयोः सिते । उपह्वरं रहःस्थाने पार्श्वेऽथोपनिषद्वृषे ॥ ७१ ॥ Paramānandīyanāmamālā 5.3.71
- परमानन्दीयनाममाला कन्दकोटिः संख्याग्रयोः कन्दो मूले सूरणमेघयोः । कुन्दो वृक्षे निधौ यन्त्रे कन्था प्रावरणे पुरे ॥ १०८ ॥ Paramānandīyanāmamālā 5.7.108
- परमानन्दीयनाममाला घनाघनघनाघनो मत्तहस्तिमेघयोर्घातके पुनः । Paramānandīyanāmamālā 5.10.5
- परमानन्दीयनाममाला जीमूतफेरौ पाशिन्यथाख्यातो जीमूतो गिरिमेघयोः । जठरं तु कठोरे स्याच्चित्ते कुक्षौ दुमान्तरे ॥ २०७ ॥ Paramānandīyanāmamālā 5.13.207
- परमानन्दीयनाममाला देवमेघे [25] मूर्खे द्विजो विप्रे दन्तनीडजयोरपि । द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥ Paramānandīyanāmamālā 5.16.240
- परमानन्दीयनाममाला भेकभेको भीरौ प्लवे मेघे भङ्गः कल्लोलदम्भयोः । पराजये भृगुः सानौ शुक्रे मृत्युंजयेऽपि च ॥ ३२८ ॥ Paramānandīyanāmamālā 5.20.328
- परमानन्दीयनाममाला वाणिवर्णः कीर्तौ द्युतौ गीतक्रमे शुक्लद्विजादिके । बाणो दैत्ये शरे वृक्षे वाणिर्मेघः सरस्वती ॥ ३४८ ॥ Paramānandīyanāmamālā 5.24.348
- परमानन्दीयनाममाला वाहवामो महेश्वरे कामे प्रतिकूले पयोधरे । वाहस्तुरंगमे मेघे व्यूहः सङ्घवितर्कयोः ॥ ३५१ ॥ Paramānandīyanāmamālā 5.24.351
- परमानन्दीयनाममाला क्षरमोक्षे च मङ्गले क्षारो रसे काचे गुडादिके । क्षुद्रा वेश्या नटी व्यङ्गी क्षरो मेघे क्षरं जले ॥ ३८१ ॥ Paramānandīyanāmamālā 5.29.381
- शब्दरत्नावली मेचकमेचकस्तिमिरे श्यामे श्यामवर्णयुतेऽपि च । मयूरचन्द्रके धूमे मेघे शोभाञ्जनेऽपि च ॥ Śabdaratnāvalī 7.1.123
- शब्दरत्नावली वलाहकचपेटे ना मार्दवेऽस्त्री फर्फरीकं निगद्यते । गिरौ मेघे दैत्यभेदे नागभेदे वलाहकः ॥ Śabdaratnāvalī 7.1.183
- शब्दरत्नावली जलकलङ्ककण्ठीभेदे विद्युति स्यात् खद्योते चिलमीलिका । मेघे शके नारिकेलफले जललतासु च ॥ Śabdaratnāvalī 7.1.211
- शब्दरत्नावली धाराटधाराटश्चातके मेघे तुरङ्गे मत्तहस्तिनि । निर्दटो वाच्यलिङ्गः स्यात्परापवादशालिनि ॥ Śabdaratnāvalī 7.11.46
- शब्दरत्नावली प्रमीढप्रमीढो मूत्रिते मेघे प्रगाढो दृढकृच्छ्रयोः । प्ररूढो जठरे बद्धमूले जातप्रवृद्धयोः । आरूढः(?) सम्बले वहणौ भुग्ने सद्योजातेऽनुपस्थिते ॥ Śabdaratnāvalī 7.14.7
- शब्दरत्नावली जीमूतजामाता दुहितुः पत्यौ सूर्यावर्चे च भर्तरि । जीमूतः पर्वते मेघे देवताडे महत्यपि ॥ Śabdaratnāvalī 7.16.103
- शब्दरत्नावली अब्दअब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
- शब्दरत्नावली जलदगानर्दं सारसे क्लीबं कैवर्तीमुस्तकेऽपि च । जलदो मुस्तके मेघे जीवदो वैरिवैद्ययोः ॥ Śabdaratnāvalī 7.18.14
- शब्दरत्नावली घनघनं मध्यमनृत्ये स्यात्कांस्यतालादिवाद्यके । पुंसि मुस्तामेघदार्ढ्यविस्तारमुद्गरेषु च ॥ Śabdaratnāvalī 7.20.4
- शब्दरत्नावली सुयामुनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- शब्दरत्नावली श्यामवामी शृगाली करभी रामभी वडवासु च । श्यामः कृष्णे पिके मेघे हरिते वृद्धदारके ॥ Śabdaratnāvalī 7.25.22
- शब्दरत्नावली मुदिरमसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् । पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥ मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने । मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥ मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने । मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥ मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः । मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥ Śabdaratnāvalī 7.27.96
- शब्दरत्नावली तोयधरकालञ्जरो योगिचक्रमेलकाद्रिशिवेषु च । कृष्णसारो मृगस्नुह्योः शिंशपायामपि स्त्रियाम् ॥ गिरिसारस्तु मलये लोहे बङ्गे च कीर्त्यते । चराचरं भवेत्क्लीबं जगति त्रिषु जङ्गमे ॥ चक्रधरो ग्रामजालिभुजङ्गमहरिष्वपि । तोयधरो मेघमुस्तासुनिषम्रौषधीष्वपि ॥ Śabdaratnāvalī 7.27.124
- शब्दरत्नावली देवदेवं स्यादिन्द्रिये मेघे सुरे नरपतौ पुमान् । देवी कृताभिषेकायां तेजनीपृक्कयोरपि ॥ Śabdaratnāvalī 7.29.11
- शब्दरत्नावली नभस्नभः क्लीबं वियति ना मेघे श्रावणप्रावृषोः । पनवः कण्टकिफले कन्टके वानरान्तरे ॥ Śabdaratnāvalī 7.32.25
- शब्दरत्नाकर खगखगोऽर्के विहगे वायौ तारके सुरमेघयोः । गर्दभे रक्षसि खरः खरुः पुंसि स्मरे हरे ॥ १९०६ ॥ Śabdaratnākara 4.1.1906
- शब्दरत्नाकर घनमुद्गरेऽयोघने मेघे घनः कर्पूरभूरुहे । स एव संहते सान्द्रे संघाते कठिने त्रिषु ॥ १९१४ ॥ Śabdaratnākara 4.1.1914
- तन्त्राभिधान हमहालक्ष्मीः परं नादो मेघनादो हरिर्मनः । बिन्दुर्दुर्गा प्रिया देवी मेघः श्यामेश्वरः पुमान् ॥ १६६ ॥ Tantrābhidhāna 2.50.166
- तन्त्राभिधान ळ्ळः पृथ्वी विमला मेघोऽनन्तो हव्यवहः सिता । व्यापिनी शिवदा केतुर्जगत् सारतरं हठः ॥ १६८ ॥ Tantrābhidhāna 2.51.168
- तन्त्राभिधान घअङ्गुलीमूलगो मेघो मुषली च शिवोत्तमः । वराहो धनकामश्च शिवाऽघो घा-र्णकः स्मृतः ॥ २१ ॥ Tantrābhidhāna 6.21
- त्रिकाण्डशेष बलाहककपर्दे रज्जौ राजीवे बीजकोशे वराटकः । वृन्दारकौ सुरश्रेष्ठौ गिरिमेघौ बलाहकौ ॥ ३४ ॥ Trikāṇḍaśeṣa 3.3.34
- त्रिकाण्डशेष अभ्रअलातेऽस्त्री कुजेऽङ्गारः श्रेष्ठा वाच्यावनुत्तरौ । नक्रे चौरे चावहारः स्यादभ्रं व्योममेघयोः ॥ ३२९ ॥ Trikāṇḍaśeṣa 3.3.329
- त्रिकाण्डशेष दर्दुरदिगम्बरोऽन्धकारे च वाद्यमेघौ च दर्दुरौ । धात्री भुव्यामलक्याञ्च हरिशैलौ धराधरौ ॥ ३५७ ॥ Trikāṇḍaśeṣa 3.3.357
- त्रिकाण्डशेष धाराधरधारा हरिद्राश्वगतिनिशाम्बुस्रुतिराजिषु । धाराधरो खड्गमेघौ धीरः पण्डितमन्दयोः ॥ ३५८ ॥ Trikāṇḍaśeṣa 3.3.358
- त्रिकाण्डशेष देवतत्त्वं विलम्बिते नृत्ये स्वरूपे परमात्मनि । मेघे राज्ञि सुरे देवो द्विजिह्वो व्यालसूचकौ ॥ ४१६ ॥ Trikāṇḍaśeṣa 3.3.416
- त्रिकाण्डशेष वराहवराहः सूकरे मेघे मुस्तकेऽप्यथ मूर्च्छने । अविद्यायाञ्च मोहः स्याद्वृषस्कन्धेऽनिले वहः ॥ ४६० ॥ Trikāṇḍaśeṣa 3.3.460
- वैजयन्ती घनघनाः कठिनसंघातमेघकाठिन्यमुद्गराः । चित्रा सुभद्रा तारा च चित्रमालेख्यमिश्रयोः ॥ ३० ॥ Vaijayantī 6.5.30
- वैजयन्ती जीमूतजंबुकौ क्रोष्टुवरुणौ जंबालौ पंकशैवलौ । श्वेतस्तिलोऽपि जामाता जीमूतौ मेघपर्वतौ ॥ २६ ॥ Vaijayantī 7.1.26
- वैजयन्ती मिहिरविष्णौ वसन्ते वैशाखे मरूकौ भेककेकिनौ । मिहिरा वायुमेघार्का यज्वरौ तु हयाध्वरौ ॥ ६२ ॥ Vaijayantī 7.1.62
- वैजयन्ती रजसानुमहाकालस्तु किंपाके हरे बाणासुरेऽपि च । रजसानू घर्ममेघौ रौहिणेयौ हलीन्दुजौ ॥ ३७ ॥ Vaijayantī 8.1.37