All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
लिङ्गानुशासनम् · पुंस्त्रीलिङ्गसंग्रहः
इति नपुंसकलिङ्गं समाप्तम् ।
[ अथ पुंस्त्रीलिङ्गसंग्रहः ।]
शङ्कुश्चतुर्दशाङ्कार्थे पुंस्त्रीलिङ्ग उदीरितः ।दुर्गतिर्निरये कक्षो दोर्मूलेऽथ कुटो गृहे ॥ १०२ ॥
6.4.102 · p. 223
अनुष्टुप्
नेमौ प्रधिस्तथा नाभिः प्राण्यङ्गेऽथ क्वचिद्बलिः ।श्रोण्योषध्योः कटो मोहे भ्रमः पुंसि स्त्रियामपि ॥ १०३ ॥
6.4.103 · p. 224
अनुष्टुप्
आकरार्थे तथा गञ्जो भूरुहे बाणपिप्पलौ ।वृन्दे गोले च पिण्डोऽपि वराटो रज्जुशस्त्रयोः ॥ १०४ ॥
6.4.104 · p. 224
अनुष्टुप्
नक्षत्रार्थेऽश्लेषहस्तश्रवणाः स्युस्तथैव च ।कणो लेशे स्फुलिङ्गेऽपि कुम्भः स्यात्कलशे तथा ॥ १०५ ॥
6.4.105 · p. 224
अनुष्टुप्
कनीनिकाभयोस्तारो मेरुजम्ब्वां सुदर्शना ।तरणिस्तु समुद्रार्कयष्ट्यंशुषु तथैव च ॥ १०६ ॥
6.4.106 · p. 224
अनुष्टुप्
लाजा वस्त्रदशार्थे च भूम्नि पुंसि स्त्रियामपि ।राजदेये भागधेय ईहाद्याः प्रत्ययान्तरात् ॥ १०७ ॥
6.4.107 · p. 224
अनुष्टुप्
करेणुर्हस्तिहस्तिन्योर्भृङ्गाख्यालिमुखास्तथा ।आपत्ये तद्धितोऽप्येवमुत्सर्गेण निरीक्ष्यताम् ॥ १०८ ॥
6.4.108 · p. 224
अनुष्टुप्
पिपीलिकः शल्यकशुण्डिका चतुरुष्कशुङ्गौ घुटिकः सृपाटः ।चोटः किलाटो वरटः स्फटश्चकीटः सटः शाटफटौ घटोऽपि ॥ १०९ ॥
6.4.109 · p. 224
उपजातिः
हुडुक्कः चुलुकश्चर्मप्रसेवकफणावपि ।मल्लकः सल्लको लञ्चभुजतिन्दुककूपकाः ॥ ११० ॥
6.4.110 · p. 224
अनुष्टुप्
किटश्चपेटो गुडशुण्डशाणागर्ताजमोदौ रथवारिपर्णौ ।कुठारहारौ शफरो मसूरोवर्ध्रो विधो मुद्गरनालिकेरौ ॥ १११ ॥
6.4.111 · p. 225
उपजातिः
कृसरो बहुकरो जित्यरालकीलवितस्तयः ।पटोलः कम्बलः शारो रभसो वेतसोऽपि च ॥ ११२ ॥
6.4.112 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वर्तिः कुटिस्त्रुटिर्भल्लदंशगण्डूषलालसाः ।रत्न्यरत्नी अणिः श्रेणिरूर्मिशम्यौ मषी मसी ॥ ११३ ॥
6.4.113 · p. 225
अनुष्टुप्
लव्यवीची शलिर्यष्टिमुष्टी शाल्मलिपाटली ।जाटलिर्मेथिमेधी च श्रोण्यरण्यौ सृणिर्मणिः ॥ ११४ ॥
6.4.114 · p. 225
अनुष्टुप्
केलिर्मौलिर्मरीचिश्च पृश्निस्तिथ्यशनी हलिः ।गव्यूतिः स्वातिबस्तीषुधयोऽहिः पार्ष्णिरप्यथ ॥ ११५ ॥
6.4.115 · p. 225
अनुष्टुप्
आणिर्योनिर्मुनिः सिन्धुर्हनुर्मृत्युर्मनुः पुनः ।ऋष्टिः कर्कन्धुराखुस्त्ववटुः कन्दुरूरुस्तथा ॥ ११६ ॥
6.4.116 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
एर्वारुः काकुकिष्कू च गवेधुर्बाहुना सह ।राभागौरेवमाद्याः स्युः शब्दाः पुंसि स्त्रिया(8)मपि ॥ ११७ ॥
6.4.117 · p. 225
अनुष्टुप्