कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धन

dhanaक्ली · neut.

In 23 kośas: 35 synonym verses, 4 as a nānārtha head word, 115 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.192 · p. 12
वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ ॥द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।हिरण्यार्थौ निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.90
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.80 · p. 10
द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
metre not recognised
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.262 · p. 32
व्रजः स्याद्गोकुलं गोष्ठं गोवृन्दं गोधनं धनम् ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ २६२ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.40 · p. 3
प्रथमंतनुश्च मूर्त्तिराद्यं देहशरीरकम् ।द्रविणं धनं द्वितीयं च द्रव्यं चसमर्थं विधिः ॥ ४० ॥
metre not recognised
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.437 · p. 181
जायमानविषाणाग्रे कटाहस्तच्छिशुर्द्वयोः ।गोमी गवेश्वरो गोमान् गोकुलं गोधनं धनम् ॥ ४३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.536 · p. 192
नारं दाक्षायणं श्रीमत्कुम्भै वेणुतटीभवम् ।द्रव्यं च स्वापतेयं च रिक्थमृक्थं धनं मघम् ॥ ५३६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.73 · p. 469
वेधआदीन्विना सान्तं द्विस्वरं मन्नकर्त्तरि ।धनरत्ननभोऽन्नानां मनसो घुसृणस्य च ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.166 · p. 479
हायनस्तेनमानानां तथैव धनमानयोः ।मानताडनयोरस्तोद्यानयोर्निधनस्य च ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 294
अर्थो विभवो लभसो नरि न स्त्री स्वो हिरण्य-दाये च ।[143a]धनमप्यस्त्री शेवं पुनरन्त्ये स्थाप्यविन्नो स्यात् ॥ २२ ॥
आर्या
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.70 · p. 104
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.52 · p. 113
genderपुंक्लीm. n.
एते शब्दाः पुंल्लिङ्गे उक्ताः । यथाऽयं कुशः दर्भः । अयं कूबरो रथस्कन्धः । कुञ्जो गहनः । अङ्कुरो बीजप्रादुर्भावः । कुठारः परशुः । कुन्दः[न्द] पुष्पजातिः । कुतुपश्चर्मपात्रम् । एतानि नपुंसकानि जानीयात् । एवकारोऽवधारणे । इदं कुलं ब्राह्मणानाम् । कू[कु]लं नदीतटम् । कुङ्कुमं काश्मीरम् ।लोहमुखपर्णवनधनसञ्ज्ञाश्च नपुंसके प्रोक्ताः ।शीरार्थौ पुंस्युक्तावटवी तूक्ता स्त्रियामेव ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् ।राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् ।दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥
metre not recognised
genderक्लीneut.
त्रिष्वप्यक्षेषु मध्ये इन्द्रियसञ्ज्ञकमक्षं नपुंसके विद्धि । इदमक्षमिन्द्रियं शेषास्त्वक्षाः पुंसि प्रोक्ताः । अयं देवानामक्षः कटाक्षः । श्रीपिष्टाद्या[धा] निर्यासाश्च पुंसि भवन्ति । अयं श्रीपिष्टः सर्जरसः गुगुल इत्येवमादयः ।विंशतिरानवतेः स्त्री नपुंसके तालुहृदयकुड्यानि ।पार्श्वकुकुन्दरविण्यतलध[धा]नलवणराष्ट्राणि चावैहि ॥ ४९ ॥
metre not recognised
genderक्लीneut.doubtful
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 95 · p. 47
वित्तं वस्तु वसु द्रव्यं स्वार्थं रा द्रविणं धनम् ।कस्वरं तत्पतिं प्राहुः कुवेरं चैकपिङ्गलम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.74 · p. 14
नलकूबरः स्मृतः [9] पुंसि धनदस्य सुतोऽत्र तु ।धनं वित्तं पृक्थमृक्णं स्वं द्रव्यं द्रविणं वसु ॥ ७४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.72 · p. 219
रत्नाङ्गणनभोगूथशुक्तान्नतमसामपि ।हृषीकशुभपिच्छादिधनदारुमनोहृदाम् ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.144 · p. 229
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.485 · p. 88
गोपालके तु गोसंख्यगोधुगाभीरबल्लवाः ।गोमहिष्यादिके पादबन्धनं यादवं धनम् ॥ ४८५ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.534 · p. 94
द्रव्ये वित्तं स्वापतेयं ऋक्षं(क्थं?) रिक्षं(क्थं?) हिरण्यकम् ।धनं वसु हिरण्यं च द्युम्नं रा विभवो धनम् (मघम्?) ॥ ५३४ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.246 · p. 17
जीविका वेतनं वृत्तिः द्रव्यं द्युम्नं धनं वसु ।कार्त्तस्वरम् शातकुम्भं हिरण्यं हेमहाटकम् ॥ २४६ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.176 · p. 19
द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् ।अर्थो लक्ष्मीः स्वापतेयं रिक्थमृक्थ तथा वसु ॥ १७६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.224 · p. 30
धनं वित्तं तथा द्रव्यं द्रविणं विभवो वसु ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.792 · p. 114
प्रतीपदर्शिनी क्वापि काव्ये शास्त्रे निरूपिता ।लीला शृङ्गारचेष्टा स्यात् मानः वीणां धनं स्मृतम् ॥ ७९२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.175 · p. 149
वित्तं द्युम्नं हिरण्यस्वद्रव्यानि द्रविणं वसु ।रिक्थमृक्थं स्वापतेयमर्थो रैर्विभवो धनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.312 · p. 244
गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्विता ।पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.139 · p. 18
निक्षेप उपनिधिः स्यादर्थो राः सारमस्त्रियां द्रविणम् ।स्वं स्वापतेयमृक्थं रिक्थं वित्तं धनं वसु द्रव्यम् ॥ १३९ ॥
गीतिः
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1453 · p. 176
कोलकं मरिचं कृष्णं धनं पत्तनमूषणम् ।शुण्ठिर्महौषधं विश्वं नागरं विश्वभेषजम् ॥ १४५३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1553 · p. 187
तालो विलम्बितं कालो द्रुतं मध्यं क्रिया लयः ।ओघः साम्यं धनं तत्त्वं क्रियाथ भ्रमरी भ्रमः ॥ १५५३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 240 · p. 346
हिरण्यं द्रविणं द्युम्नं रिक्थं ऋक्थं धनं वसु ॥ २४० ॥
genderक्लीneut.
उत्पलिनी Utpalinī · व्याडि Utpalinī 44 · p. 49
गोकुले धनगोधने ॥ ४४ ॥
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.70 · p. 128
वस्नोऽर्घोऽवक्रयो मूल्यं बन्धः प्रणय आधिकः ।नीवी परिपणं मूलं धनं लाभोऽधिकं फलम् ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.73 · p. 129
विटपोऽर्थः स्वापतेयं रिक्थं पृक्थं धनं वसु ।वित्तं च द्रविणं द्युम्नं हेमरूप्यात्मकं तु तत् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.1 · p. 105
द्युम्नं पराक्रमं द्रव्यं वनं कानननीरयोः ।वस्ने वेतनदानीये धनं गोधनवित्तयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.82 · p. 244
इनो नृपे भर्तरि भास्करे स्या-द्धनोऽस्त्रियां गोधनवित्तयोश्च ।जिनस्तु बुद्धे नरि जित्वरार्ह-वृद्धेषु तु स्यान्निजभेद्य लिङ्गः ॥ ८२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.34 · p. 36
लग्नाद्द्वितीयराशौ च स्वापतेये च गोव्रजे ।धामं त्वदन्तं तिलकतेजसोर्धाम तु त्विषि ॥ ३४ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.12 · p. 234
धनुर्ना राशिभेदे स्यात्पियालद्रुमचापयोः ।धनं वित्ते गोधने च स्नेहपात्रेऽपि न द्वयोः ॥
अनुष्टुप्

धन as a meaning in nānārtha verses