वावदूक
vāvadūkaवि · adj.In 10 kośas: 9 synonym verses, 3 as a meaning of another word.
वागीशो वाक्पतौ वाग्मी वाचोयुक्तिपटुः प्रवाक् ।समुखो वावदूकोऽथ वदो वक्ता वदावदः ॥ ३४६ ॥
अनुष्टुप्
genderपुंmasc.
genderविadj.
वदो वदावदो वक्ता वाचोयुक्तिपटुः पुनः ।वागीशो वाक्पतिर्वाग्मी वावदूकोऽतिवक्तरि ॥ ७१ ॥
अनुष्टुप्
genderविadj.
प्रवाग्वचक्रुः समुखो वावदूकोऽतिवक्तरि ।वाचोयुक्ति[ पटु ]र्वाग्मी वागीशो वाक्पतिः सुगीः ।स्याज्जल्पाकस्तु वाचाटो वाचालो बहुगर्ह्यवाक् ।तुण्डिलो मुखराबद्धमुख-दुर्मुखका अपि ॥ १० ॥
अनुष्टुप्
genderविadj.
क्षुण्णे प्रहत इत्येवमन्तर्वाणिस्तु वेत्तरि ।वाग्मिवाक्पतिवागीशा वावदूकः प्रवाक्तु सः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्वाक्पतिश्च वागीशः प्रवाक् वावदूकस्तथा ।वाचोयुक्तिपटुर्वाग्ग्मी समुखः कथ्यते बुधैः ॥ ५११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दू (wrong syllable)
genderविadj.
वाग्ग्मी वाग्मी वावदूको वाचोयुक्तिपटुस्तथा ।वागीशो वाक्पतिश्चेति षडेते सुष्टुवक्तरि ॥
अनुष्टुप्
genderविadj.
वावदूको वदो वादी वक्ता वाग्मी वदावदः ।स्याद्वाचोयुक्तिकुशलो वागीशो वाक्पतिः प्रवाक् ॥ १६६७ ॥
अनुष्टुप्
genderविadj.
वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ।वाचोयुक्तिपटुर्वाग्ग्मी वावदूकश्च दक्षवाक् ॥ ४५ ॥
अनुष्टुप्
genderविadj.
वावदूक as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप बुक्कणबीभत्सा स्याज्जुगुप्सायां बुक्कणस्तु शुनि द्वयोः । वावदूके पुनस्त्रि स्यादथ स्याद्बुद्धिमान् द्वयोः ॥ १२५९ ॥ Nānārthārṇavasaṃkṣepa 4.1259
- नानार्थार्णवसंक्षेप गदयित्नुगदयित्नुस्तु पर्जन्ये पुमांस्त्रिर्वावदूकके । गार्हपत्यः पश्चिमाग्नौ पुमान् गृहपतेः पुनः ॥ २०७ ॥ Nānārthārṇavasaṃkṣepa 6.207
- शब्दरत्नावली वक्तृवक्ता स्यात्पण्डिते पुंसि वावदूके तु वाच्यवत् । व्यक्तं व्याप्ते व्याकुले च व्यक्तः स्यात्पण्डिते स्फुट ॥ Śabdaratnāvalī 7.16.50