कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खलि

khaliस्त्री · fem.

In 7 kośas: 9 synonym verses, 2 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.75 · p. 141
पिण्याकः पुंस्यथ खलिर्निस्नेहस्तिलकल्कजः ।कणिशं धान्यकोशोना स्त्रियां स्यात् सस्यमञ्जरी ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.35 · p. 464
स्याद्वितर्दिस्तिरीतिश्च दर्विर्नी विश्छविर्लविः ।राजिर्जाती रुचिः श्रेणी सूचिः साची खलिः खनिः ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 259
म्रक्षणाभ्यञ्जने वस्तु कटुतैलं तु सार्षपम् ।न स्त्रियौ खल-पिण्याकौ खलि-पिण्ड्यौ स्त्रियावुभे ।इक्षो रसस्य समलत्र्यंशोर्ध्वाङ्घ्रिमलामलाः ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.70 · p. 103
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.60 · p. 218
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.345 · p. 217
पिण्याके खलिः खलोऽस्त्री स्यात्तक्षिण्यां तु वासिवत् ।वासी तूलिका त्वीषी केषिका कान्दविके पुनः ॥ ३४५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ख (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1544 · p. 186
जीवान्तकः शाकुनिकः स्याद्वैतंसिककौटिकौ ।तैलाजीवस्तु चक्री स्यात् पिण्याको ना खलिः स्त्रियाम् ॥ १५४४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.27 · p. 138
कुंभकारः कुलालोऽस्य पचनं पाकमण्डलम् ।धूसरश्चाक्रिकस्तैली पिण्याको ना खलिः स्त्रियाम् ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.81 · p. 165
खलिः स्त्री तण्डुलैः पिष्टैर्जले पक्वा घनद्रवा ।सौवीरं काञ्चिकं कुण्डमारनालं गृहोदकम् ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.315 · p. 69
गर्ते तु कश्चिदाहाथो खलिः स्त्री पिष्टतण्डुले ।घनद्रवे द्रव्यभेदे जलपक्वे परे पुनः ॥ ३१५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.316 · p. 69
पिण्याके खरुशब्दस्तु गीतभेदे स्मरे हरे ।दर्पे च ना द्वे पुरुषे कश्चिद्दृप्ते तु स त्रिषु ॥ ३१६ ॥
अनुष्टुप्
doubtful