स्थूणा
sthūṇāस्त्री · fem.In 15 kośas: 18 synonym verses, 8 as a nānārtha head word, 12 as a meaning of another word.
स्थूणा स्तम्भः सालभञ्जी पाञ्चालिका च पुत्रिका ।काष्ठादिघटिता लेप्यमयी त्वञ्जलिकारिका ॥ १०१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
genderस्त्रीfem.
सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम् ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
अर्चा तु प्रतिमा प्रोक्ता हरिणी स्याद्धिरण्मयी ।अन्यलोहमयी प्राज्ञैः सूर्मी स्थूणा च कथ्यते ॥ १३१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्थूणास्तम्भः पुमान्नासादारु द्वारोपरि स्थितम् ।क्षौमं वा पुंसि चाट्टालो गृहस्योपरिभूमिकम् ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
तूणा तृष्णा दक्षिणाऽपि धिषणा वीणया समा ।हृणा स्थूणामृताऽनन्ता गीता चिन्ता चिता समा ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
स्थूणा तु धारणं स्तम्भः स्थूणं चापि नपुंसकम् ।गृहे स्थूणं क्लीबमेव शालभञ्जी तु पुत्रिका ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतियातना प्रतिनिधिस्तूर्मी स्थूणा च लौहेऽस्मिन् ।संक्षेपणं समसनं समाहृतिः संग्रहः समासश्च ॥ ३५ ॥
उद्गीतिः
genderस्त्रीfem.
वृत्ते वसन्ततिलकं नखमत्र शुक्तौस्यात्कन्यकुब्जमपि देशगतं च पीठम् ।क्रोडा तु वक्षसि भवेदुडु तद्वदर्णास्थूणाथ संयदपि नक्तमथावहित्थम् ॥ ८१ ॥
वसन्ततिलका
genderस्त्रीक्लीf. n.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderस्त्रीfem.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderस्त्रीfem.
रीढा राढा तथा दाढा त्रिवृता तृणता सिता ।वर्वणोर्णा घृणा स्थूणा दक्षिणा लिखिता चिता ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
गुलुची कलभा स्थूणा कमला चामरावती ।अमराचालिनी मेषा दुर्गाभारी मुदा परा ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याच्चर्मभेदिकादौ स्यादारिका चापि कथ्यते ।स्यादयःप्रतिमायां तु स्थूणा शूर्मी च शूर्मिका ॥ ६११ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
एतन्नामानि मन्यन्ते प्रतिमायाश्च पण्डितैः ।सूर्मी सूर्मिस्तथा स्थूणा स्यादऽयःप्रतिमा पुनः ॥ २६६२ ॥
अनुष्टुप्
genderस्त्रीfem.
वासिर्वासी तक्षणी स्यात् कुङ्गचक्रभ्रमिः स्त्रियाम् ।स्याल्लोहप्रतिमा स्थूणा शूर्मी च शूर्मिकेत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
genderस्त्रीfem.
स्थूणा तु भवनस्तम्भे स्वल्पस्थूणा तु पाटिका ।मेध्री स्यात् पाटिकामूर्ध्नि स्थूणाशीर्षे शिली शिला ॥ ८६३ ॥
अनुष्टुप्
genderस्त्रीfem.
हरिणी लोहप्रतिमा सूर्मी स्थूणान्यलोहजा ।प्रतिच्छाया प्रतिकृतिः प्रतिमा प्रतियातना ॥ १५३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
genderस्त्रीfem.
लोहप्रतिकृतौ तन्त्रधारिण्यामिति षट्स्वपि ।रश्मिमेखलयोः स्यूना सृष्टिस्त्यागस्वभावयोः ॥ १२४ ॥
अनुष्टुप्
doubtful
स्थाणुरस्त्री ध्रुवे पुंसि कीले स्मरहरेऽपि च ।स्थूणा लोहप्रतिमायां गृहस्तम्भेऽपि च स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
स्थूणा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् स्तम्भस्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ । Amarakośa 3.3.257
- हलायुधकोशः (अभिधानरत्नमाला) स्तम्भशलाकायुधयोः शल्यं बाधा दुःखनिषेधयोः । स्थूणास्तब्धत्वयोः स्तम्भ इला वागघ्न्ययोरपि ॥ ८३४ ॥ Abhidhānaratnamālā (Halāyudha) 5.834
- धरणिकोश स्तम्भशुभो योगे शुभं क्षेमे डिम्भः शिशौ च बालिशे । शम्भुरर्हच्छिवो ब्रह्मा स्तम्भः स्थूणाजडत्वयोः ॥ Dharaṇikośa 23.1.2
- नानार्थार्णवसंक्षेप स्तम्भतृणे च विटपे चाथ स्तम्भः स्यात् प्रतिबन्धने । स्थूणायां च जडीभावे स्पर्शस्तु प्रणिधौ युधि ॥ १२८ ॥ Nānārthārṇavasaṃkṣepa 2.2.128
- नानार्थार्णवसंक्षेप अमरगुडूचीन्द्रपुरीस्थूणास्वमर्तरि तु वाच्यवत् । द्वे तु देवेऽथ पुंसि स्यादररः सोमसंज्ञके ॥ ३३ ॥ Nānārthārṇavasaṃkṣepa 4.33
- नानार्थार्णवसंक्षेप सुमेधागृहस्योपरिभूमौ या स्थूणा तस्यामथ त्रिषु । सूचकः पिशुने हस्तभ्रूभङ्गाद्यैश्च बोधके ॥ १९९४ ॥ Nānārthārṇavasaṃkṣepa 4.1994
- शब्दरत्नावली स्तम्भदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- शब्दरत्नावली अमराअमरस्त्रिदशे वज्रद्रुमेनेन्द्रपुरि स्त्रियाम् ॥ गुडुच्यामपि दूर्वायां जरायुस्थूनयोरपि । अपरा च जरायौ स्याद्गज(?)पश्चार्द्धके स्त्रियाम् ॥ अर्वाचीने वाच्यलिङ्गमितरस्मिन्नपि त्रिषु । अछरो वसुभेदे स्यात्सावधाने क्रतौ पुमान् ॥ अन्तरे परिधाने स्यादवकाशे परात्मनि । छिद्रतादर्थ्यभेदेषु तुल्येऽवसरमध्ययोः ॥ Śabdaratnāvalī 7.27.52
- शब्दरत्नाकर स्तम्भस्वामी षडानने पत्यौ स्वरुर्यूपांशवज्रयोः । स्याज्जाड्यस्थूणथोः स्तम्भः सुतः सोमरसेऽपि च ॥ २०२३ ॥ Śabdaratnākara 4.1.2023
- त्रिकाण्डशेष तुलालोहे हारमणौ पुंसि यवाग्वां तरला स्त्रियाम् । ब्रह्मदारौ पिचौ तूलं स्थूणासादृश्ययोस्तुला ॥ ३९५ ॥ Trikāṇḍaśeṣa 3.3.395
- वैजयन्ती स्तम्भसरटौ पक्षिजलदौ स्पशौ तु चरसंयुगौ । स्तंभौ स्थूणाजडीभावौ यूपांशे कुलिशे स्वरुः ॥ ६४ ॥ Vaijayantī 6.1.64
- वैजयन्ती अमराप्रधानेऽव्यक्तमव्यक्तो ब्रह्मण्यस्पष्टमूर्खयोः । अमरेन्द्रपुरी स्थूणा गुडूची चामराः सुराः ॥ १३ ॥ Vaijayantī 7.5.13