कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पिण्याक

piṇyākaपुं · masc.

In 16 kośas: 20 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.783 · p. 36
धूसरश्चाक्रिकस्तैली स्यात्पिण्याकखलौ समौ ।
अनुष्टुप्
genderपुंmasc.
स्थिरायुर्वत् स्थिरायुश्च पिण्या पिण्याच(पिण्याकः?) कथ्यते ।करजः स्यात् करञ्जोऽपि पूतीकः पुतिको भवेत् ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.409 · p. 65
गन्धार्थमङ्गलाच्चाथ तुरुष्को यवनः कपिः ।पिण्याकः कपिजो धूम्रः शिल्पिसारः सुगन्धकः ॥ ४०९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.75 · p. 141
पिण्याकः पुंस्यथ खलिर्निस्नेहस्तिलकल्कजः ।कणिशं धान्यकोशोना स्त्रियां स्यात् सस्यमञ्जरी ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.150 · p. 478
स्यान्मस्तिकमोदकयोस्तथा तरण्डकस्य च ।स्याच्चण्डातकपिण्याकातङ्करोचककञ्चुकैः ॥ १५० ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 259
म्रक्षणाभ्यञ्जने वस्तु कटुतैलं तु सार्षपम् ।न स्त्रियौ खल-पिण्याकौ खलि-पिण्ड्यौ स्त्रियावुभे ।इक्षो रसस्य समलत्र्यंशोर्ध्वाङ्घ्रिमलामलाः ॥ ८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.38 · p. 111
पिण्याको वर्णकोऽनूपे कूलकः सूतको रसे ।अथ स्याद्रुचकः कण्ठभूषणे बीजपूरके ॥ ३८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
एते शब्दा नपुंसके भवन्ति । इदं धान्यं सस्यम् । द्विदलं मुद्गादीनाम् । अंशुकं वस्त्रम् । वितानं वस्त्रमयमावरणम् । वलयं सुवर्णादीनाम् । रत्नं मणिः । मिथुनं स्त्रीपुंसद्वन्द्वम् । श्मशानं मृतस्थानम् । बिसं पद्ममूलम् । तिमिरं तमः । अग्रं शिखरं श्रेष्ठं वा । खमाकाशम् ।पुञ्जाद्रिकोणकरीषकषायतरत्नपिण्याकगर्भदर्भार्भकश्च पुंसि स्युः ।पतनशुल्बताम्रचापनाम्नां नपुंसकता ॥ ६५ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.245 · p. 39
धूसरश्चाक्रिकस्तैली पिण्याकस्तिलकस्तिली ।आभीरस्तु महाशूद्रो गोपा गोसंख्यगोदुहौ ॥ २४५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1161 · p. 149
पिनाकोऽस्त्री महादेवचापे शूलाह्वयायुधे ।रजोवर्षे च दण्डे च पिण्याकस्त्वस्त्रियामयम् ॥ ११६१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.428 · p. 155
धूसरस्तैलिकः प्रोक्तः खलः पिण्याक इत्यपि ।काष्टतड्वर्धकिस्त्वष्टा रथकृत्स्थपतिः पुमान् ॥ ४२८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.133 · p. 227
genderपुंक्लीm. n.
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.34 · p. 4
प्राणको जीवके वोले प्रियकोऽसननीपयोः ।कुङ्कुमे महिलाह्वायां पिण्याकः पुत्रपुंसकः ॥ ३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1498 · p. 246
पिण्याकश्च खलो नाम तिलादिनामसारभाक् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.390 · p. 107
सिह्लकः सिह्लपिण्याककपिचञ्चलयावनाः ।तैलाख्यः पिण्डको जीव वस्तुरुष्को यावनोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.81 · p. 143
कुञ्जलावन्तिमोमे च धान्याम्ब्लम्बुर्कमित्यपि ।हिङ्गुपिण्याकवालीकसहस्रबोधिरामठम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.345 · p. 217
पिण्याके खलिः खलोऽस्त्री स्यात्तक्षिण्यां तु वासिवत् ।वासी तूलिका त्वीषी केषिका कान्दविके पुनः ॥ ३४५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ख (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1544 · p. 186
जीवान्तकः शाकुनिकः स्याद्वैतंसिककौटिकौ ।तैलाजीवस्तु चक्री स्यात् पिण्याको ना खलिः स्त्रियाम् ॥ १५४४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.109 · p. 132
श्रीवेष्टः पायसं श्र्याख्यं श्रीवासो रक्तशीर्षकः ।वेष्टः श्रीवत्सपिण्याको दधिश्च सरलद्रवे ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.27 · p. 138
कुंभकारः कुलालोऽस्य पचनं पाकमण्डलम् ।धूसरश्चाक्रिकस्तैली पिण्याको ना खलिः स्त्रियाम् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.9
ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥सिते च खदिरे सोमवल्कः स्यादथ सिह्लके ।तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च ॥ ९ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.11 · p. 6
शम्बुकः करिकुम्भान्ते दैत्यशुक्तिविशेषयोः ।पिण्याको हिङ्गुवाह्लीके तिलकल्के च सिह्लके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.57 · p. 143
पिण्याकमस्त्री तिलकल्कहिङ्गु-कश्मीरजन्मस्वपि सिह्लके च ।बाह्लीकवद्बाह्लिकमत्र हिङ्गु-सत्कुङ्कु[251b]मे देशतुरंगयोर्ना ॥ ५७ ॥
इन्द्रवज्राmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1162 · p. 149
श्रीपिष्टाख्ये च निर्यासे कुङ्कुमे हिङ्गुकिण्वयोः ।तुरुष्काख्ये च निर्यासे यवानीतिलकल्कयोः ॥ ११६२ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.35 · p. 4
तिलकल्के च बाल्हीके सूपधूपनसिल्हयोः ।पीतकं गृञ्जने ताले चम्पके कुङ्कुमेऽभ्रके ॥ ३५ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.102 · p. 183
पक्षिभेदे शशाङ्के च प्रियङ्गौ कुङ्कुमेऽपि च ।पिण्याकस्तिलकल्केऽस्त्री वाह्लीक हिङ्गुसिह्लके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.46 · p. 242
पिण्याकः सिह्लके किण्वे श्रीवासतिलकल्कयोः ।पुरुषो धातृपुन्नागपुंस्वात्मपरमात्मनोः ॥ ४६ ॥
अनुष्टुप्

पिण्याक as a meaning in nānārtha verses