कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वृषपर्वन्

vṛṣaparvanपुं · masc.

In 4 kośas: 4 synonym verses, 3 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.17 · p. 363
वैरोचनिश्च दीर्घायुर्दाता बाणस्तु तत्सुतः ।शैवोऽथ वृषपर्वा तु वृषपर्वोऽथ शम्बरः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.40 · p. 374
वृषपर्वा नारदश्च पर्वतश्च नरश्च ते ।समा गन्धर्वगान्धर्वदिव्यगायनगातवः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.53 · p. 180
स्थलकन्दो ग्रामकन्दो महाकन्दस्तु माणकम् ।चिञ्चोटकं कशेर्वस्त्री वृषपर्वाथ तन्महत् ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.80 · p. 6
वृषपर्वाऽन्धकरिपुर्नन्दीश्वर उमापतिः ।स्यादष्टमूर्तिरघीशो भूतेशः खेचरो मृडः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.66 · p. 270
इक्षौ तु किष्कुपर्वा पोटगले स्यात्तथा वेणौ ।वृषपर्वा शर्वासुरशृङ्गारिकसेरुषु प्रोक्तम् ॥ ६६ ॥
metre not recognised
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.137 · p. 247
देवशिल्पिनि चण्डांशौ विश्वकर्मा मुनावपि ।विघातिघोरदृष्ट्योस्तु विघ्नकारी पुमान्भवेत् ॥महेशे दैत्यभेदे स्याद् वृषपर्वा पुमानयम् ।विहङ्गे देवतायाञ्च व्योमचारी भवेत्पुमान् ॥शाकभेदे कृष्णभेद्यां स्त्रियाञ्च शकुलादनी ।मुनिभेदे नन्दिनि स्याच् शालङ्कायन इत्यपि ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.260 · p. 181
खर्व्वश्चाऽथ फले शुष्के वानं स्यूते कटे गतौ ।वृषपर्वा शिवे दैत्यै वेष्टनं मुकुटे वृतौ ॥ २६० ॥
अनुष्टुप्