खेचर
khecaraपुं · masc.In 14 kośas: 12 synonym verses, 4 as a nānārtha head word, 7 as a meaning of another word.
genderक्लीneut.
खेचरो द्युचरो खेटो द्युचारो खेचरो ग्रहः ।व्योमवर्त्मा व्योमचारी व्योमगश्च खगो द्युगः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
देवः स्कन्दाङ्गजः स्कन्दो देहतो मृत्युनाशनः ।रसधातुर्हरतेजो यशोदः खेचरः पुनः ॥ ५८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
[15a]कालिका वाथ कासीसं धातुकासीस-खेचरे ।स्याद्धातुशेखरं पुष्पकासीसं त्वक्षिभेषजम् ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
तच्चरः खेचरः तद्गः पक्षी पत्री पतत्र्यपि ।शकुन्तिः शकुनिर्विश्च पतङ्गो विष्किरोऽन्यथा ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कासीसं खेचरं धातुकासीसं धातुशेखरम् ।कंसकं पुष्पकासीसं नयनौषधमित्यपि ॥ १८२९ ॥
अनुष्टुप्
genderक्लीneut.
वृषपर्वाऽन्धकरिपुर्नन्दीश्वर उमापतिः ।स्यादष्टमूर्तिरघीशो भूतेशः खेचरो मृडः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
देवा यज्ञभुजोऽमरा दिविषदो बर्हिर्मुखा निर्जरागीर्वाणास्त्रिदिवेश्वराः सुमनसो वैमानिका वायुनाः ।अस्वप्ना अमृताशना अनिमिषा वृन्दारकाः खेचराआदित्या असुराहिता अदितिजा लेखा निलिम्पाः सुराः ॥ ७५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
विभ्रमो बाहुलो दण्डी भैरवो नटकः शुकः ।वृकोदरो जटी भीष्मः क्षोभकः खे(ख)चरो नटः ॥
अनुष्टुप्
genderपुंmasc.doubtful
ट-कारः सोमनाथाख्यः खेचरो दक्षस्फिक् कटिः ।कपाली वामकटिश्च अर्धचन्द्रः पुनर्भवः ॥ ३६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 क्ष (wrong syllable); pāda 3, syllable 6 क (wrong syllable)
genderपुंmasc.
विद्याधरः कामरूपी खेचरः स्थिरयौवनः ।स्पर्शानन्दा रतिमदाऽप्सरसः सुमदात्मजा ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
विद्याधरास्तु द्युचराः खेचराः सत्ययौवनाः ।पिशाचः स्यात् कापिशेयो ऽनृजुर्दर्वश्च पिण्डकः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्त्यां त्रि तु ह्रस्वमात्रेऽल्पेऽन्येऽथ खेचरः ।विद्याधरे दुश्चिकित्सविषे द्वे वृश्चिकान्तरे ॥ ६२७ ॥
अनुष्टुप्
पक्षयुक्ते त्रिषु पुनर्व्योमचारिण्यथो नपि ।खेटकं फलके ग्रामधा(ने?न्ये) त्वन्ये त्रिषु त्वदः ॥ ६२८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
किंखिरौ क्रोष्टुखट्वाङ्गौ खेचरः पवनेऽपि च ।खपुरः पूगवेष्टेऽपि पूगनिर्यासयोरपि ॥ २२ ॥
अनुष्टुप्
meaningsपवन
खेचर as a meaning in nānārtha verses
- धरणिकोश प्रियंवदप्रियंवदः खेचरे च महामदो गजेऽपि च । विशारदो बुधेऽत्रस्ते शतह्रदा वज्रविद्युतोः । अपवादौ तु निन्दाज्ञे जनपदो जनदेशयोः ॥ Dharaṇikośa 17.1.7
- धरणिकोश गन्धर्बगन्धर्बः पशुभेदे स्याद्गन्धर्बः खेचरे हये । अन्तराभवसत्वे च गन्धर्बो गायनेऽपि च ॥ Dharaṇikośa 22.3.3
- कोषकल्पतरु प्रियंवदक्लीबे विष्णुपदं सरोजवियतोः क्षीराम्बुधौ त्वादिमे स्त्रीसंक्रान्तिकुशस्थलीसुरधुनीसंज्ञासु संकीर्तितम् । स्याद्देशे च जने पुमाञ्जनपदोऽथो पुंस्त्वव( ? )खेचरे रम्योक्तौ परवत्प्रियंवद इति प्रोक्तोऽववादः पुनः ॥ ४२ ॥ Koṣakalpataru 6.19.42
- परमानन्दीयनाममाला गन्धर्वगुप्तो दासीसुते गूढे गुहः स्कन्दे च गहरे । गन्धर्वः खेचरे त्वश्वे गायने हरिणान्तरे ॥ १६० ॥ Paramānandīyanāmamālā 5.9.160
- शब्दरत्नावली प्रियम्वदपरिवादोऽभिशापे स्याद् वीणावादनवस्तुनि । प्रियम्वदः खेचरे ना वाच्यवत् प्रियभाषिणि ॥ Śabdaratnāvalī 7.18.27
- शब्दरत्नावली गन्धर्वअन्तराभवसत्त्वे च खेचरे दिव्यगायने । गोडुम्बा तु गवादन्यां गोडुम्बः शीर्णपर्णके ॥ Śabdaratnāvalī 7.23.12
- तन्त्राभिधान टट-ष्टङ्कारः कपाली च सोमजा खेचरो ध्वनिः । मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥ ८९ ॥ Tantrābhidhāna 2.28.89