शौच
śaucaक्ली · neut.In 8 kośas: 4 synonym verses, 4 as a meaning of another word.
नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ।देवताप्रणिधानं च करणं पुनरासनम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः ।नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ॥ १६९ ॥
अनुष्टुप्
genderक्लीneut.
शौचं तथैव संतोषः स्वाध्यायोऽपि तपस्तथा ।देवताप्रणिधानं च पञ्चापि नियमाः मताः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसंग्रहः ।यमाः स्युर्नियमाः शौचसंतोषतपआदयः ॥ २०९ ॥
अनुष्टुप्
genderक्लीneut.
शौच as a meaning in nānārtha verses
- धरणिकोश धावनवेष्टनं कर्णवेष्टन्यामुष्णीषे परिवारणे । धावनं प्रगमे शौचे धावनी पृश्निपर्णिका ॥ Dharaṇikośa 19.2.55
- कोषकल्पतरु आप्लवतिआङः प्रवति संप्लुत्यामुत्प्लुतौ स तथोद्धृतौ । अनोः प्लविः स्यात्सहगे विप्लवोत्पातयोरुपात् ॥ औद्धत्येऽथाङभिभ्यां स शौचे नाशे तु वेः परः । समः साकं प्लवे लौल्यलाघवोन्मोहनेकरे ॥ इषतिश्चेङ्खतिर्द्वौ स्तः प्रात्परौ वाजिनां गतौ । अभिघातेऽभ्याङ्परोऽजिर्वेस्तु वीजन-शाठ्ययोः ॥ २७ ॥ Koṣakalpataru 3.5.27
- शब्दरत्नावली क्रियापुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि । क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥ उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् । कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥ कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि । कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥ अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु । कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥ गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् । गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥ गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥ Śabdaratnāvalī 7.26.11
- त्रिकाण्डशेष धावनधन्वा मरौ धन्वचापे धावनं गतिशौचयोः । निर्भर्त्सनं खलीकारालक्तयोरथ नन्दनम् ॥ २४४ ॥ Trikāṇḍaśeṣa 3.3.244