कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

करण

karaṇaक्ली · neut.

In 19 kośas: 60 synonym verses, 18 as a nānārtha head word, 39 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.82 · p. 7
नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ।देवताप्रणिधानं च करणं पुनरासनम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.285 · p. 25
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.751 · p. 36
वैश्यात्तु करणः शूद्रात्त्वायोगवो विशः स्त्रियाम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1383 · p. 52
हृषीकमक्षं करणं स्रोतः खं विषयीन्द्रियम् ॥ १३८३ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.18 · p. 4
कफे सिंहानकः खेटः स्यात्कूकुदे तु कूपदः ॥ १०५ ॥पारमितोऽथ कायस्थः करणोऽक्षरजीविनि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मि (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.109 · p. 4
हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥ १०९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.2
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः ।शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.535 · p. 61
आधिस्तु मानसी पीडा वाञ्छितोऽर्थो मनोरथः ।खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.143 · p. 79
अङ्गहारोऽङ्गविक्षेपो नानाकरणसंहृतिः ।करणान्यङ्गचेष्टाः स्युः कर्हणं गर्हणं च तत् ॥ १४३ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.344 · p. 97
पलगण्डो लेपकारी लम्बनस्तूक्षपालकः ।कायस्थः स्याल्लिपिकरः करणोऽक्षरजीवकः ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.128 · p. 34
क्लीबे वपुः संहननं पुद्गलं वर्ष्म मूर्त्तिमत् ।पुरं षडङ्गं करणं सूत्रशाखं शितं कुलम् ॥ १२८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.170 · p. 87
देवताप्रणिधानं च करणं पुनरासनम् ।प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् ॥ १७० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.6 · p. 202
महिष्यः स्यात्तु शूद्रायामुग्रपुत्रस्ततः परम् ।वैश्यात् शूद्रोदराज्जातः करणश्चानुलोमजाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.17 · p. 204
नाडिंधमः कलादः स्याच्छौल्बिकस्ताम्रकुट्टकः ।कायस्थः कूटकृत्पञ्जीकरः करण इत्यपि ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.14 · p. 236
व्याप्यं तु साधनं कर्म करणं साधकोत्तरम् ।स्तनाभोगस्तनभरश्चाजर्यं संगते युतम् ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.92 · p. 327
नीलच्छदस्तु करणो लम्बपर्णो रणप्रियः ।रणमत्तः पिच्छबाणः स्थूलनीडो भयङ्करः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.93 · p. 416
हेतुर्ना कारणं बीजं क्लीबे करणमित्यपि ।क्लीब आद्यं कारणं तु निदानं मूलवस्तु तत् ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.98 · p. 416
जनी जनू जनुश्चास्त्री जीवो जन्यश्च पुंस्ययम् ।करणं खं पदं पुंसि हर्षि वैकारिकेन्द्रिये ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.119 · p. 430
शान्तिकं मङ्गलस्नानं बालपल्लववारिणा ।हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥ ११९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.157 · p. 434
हृषीकं त्वक्षं विषयस्रोतः करणमिन्द्रियम् ।खं च श्रोत्रं त्वचा चक्षुर्जिह्वा नासा च पञ्चमी ॥ १५७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.74 · p. 48
युग्मास्ताः पक्षरन्ध्रः स्याद्द्वितीयां दशमीं विना ।स्युर्विष्कंभादयो [31a] योगास्तिथ्यर्द्धं करणं भवेत् ॥ ७४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.23 · p. 1205
इन्द्रियमक्षं करणं विषयि स्रोतो हृषीक-देवे खम् ।स्युर्गोचरास्तु विषयास्तथेन्द्रियार्था अमी तु रूपाद्याः ॥ २३ ॥
गीतिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 144
जम्बीरो जम्भलो जम्भोऽस्त्रियां जम्भील इत्यपि ।द्विजकेतुश्चारुफलः करणो दन्तहर्षणः ॥ ८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 213
करणं मूर्तिमत्क्षेत्रं गात्रं संहननं वपुः ।श्रोत्रं वर्षाङ्गुबेरं च पुद्गलं च कलेवरम् ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.4 · p. 295
शूद्र्यां तु करणो वैश्यात्सूतः क्षत्राद्द्विजस्त्रियाम् ।[143b] वैश्याद्वैदेहिकस्तस्यां चाण्डालः शूद्रतोऽपि च ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.99 · p. 106
घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणंशिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् ।श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणंप्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 130 · p. 65
खमिन्द्रियं हृषीकं च श्रो(स्रो)तोऽक्षं करणं विदुः ।पुण्यं भाग्यं च सुकृतं भागधेयं च सत्कृतम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.275 · p. 86
इन्द्रियं करणं खं तु हृषीकं श्रोतसा सह ।अक्षं विषयिसंज्ञं च रूपाद्यर्थनिबन्धनम् ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.229 · p. 129
इन्द्रियायतनं बन्धोऽघनः ? [71] पुद्गलसंज्ञकाः ।तनुः करणमाख्यातं मृतवर्ष्म कलेवरम् ॥ २२९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.12 · p. 3
स्यात्परेष्टिः शतधृतिर्हेमाङ्गो द्रुघणोऽपि च ।अक्षरः करणं प्राणो विराड्गोपतिगोमुखौ ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.565 · p. 98
शूद्रायां वैश्यपुरुषाज्जाते करण इष्यते ।वैश्यायां विप्रपुरुषाज्जातेऽम्बष्ठ इतीष्यते ॥ ५६५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.20 · p. 21
संहननं घनो बन्धः पुरः पिण्डं च पुद्गलम् ।हृषीकमक्षं करणं ग्रहणं च खमिन्द्रियम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.123 · p. 46
स्वरूपं लक्षणं भावो रूपधर्मात्मरीतयः ।सृष्टिः सर्गश्च निर्माणं करणं घटनं कृतिः ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.60 · p. 9
करणमासनं प्राणायामः प्राणयमस्तथा ।श्वासप्रश्वाससंरोधः प्रत्याहारोऽक्षरोधनम् ॥ ६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.747 · p. 105
लेखकोऽक्षरचञ्चुश्च करणोऽक्षरजीवकः ।तथाऽक्षरचणश्चापि लिपिकरश्च वर्णिकः ॥ ७४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.817 · p. 119
करणं हस्तलेपश्च विवाहसमये विधौ ॥ ८१७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.616 · p. 137
शरीरः करणं देहश्चेति नामप्रयोगतः कथ्यते ।
metre not recognised
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1509 · p. 239
वैश्यात् शूद्रस्त्रियां जातो करणः कथ्यते किल ।आयोगवोऽपि जातो वै शूद्राद्वैश्यस्त्रियां पुनः ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2514 · p. 407
हृषीकं करणं स्रोतोऽक्षं खं विषयीन्द्रियम् ।बुद्धीन्द्रियं स्पर्शनादि धीन्द्रियमपि कथ्यते ॥ २५१४ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 न्द्रि (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.309 · p. 22
दैवं दृष्टमदृष्टञ्च भाग्यपर्याय ईरितः ।कारणं पुंसि हेतुः स्यात् करणं बीजमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.330 · p. 23
इन्द्रियार्थगोचराः स्युर्विषयाः परिकीर्तिता ।स्यादिन्द्रियस्तु करणं हृषीकं विषयि स्मृतम् ।गुदोपस्थं हस्तपादं वाक् च कर्मेन्द्रियं भवेत् ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.3 · p. 153
करणो वैश्यशूद्राजोऽम्बष्ठो वैश्याद्विजातिजः ।उग्रः शूद्रा क्षत्रियजः क्षत्ता वैश्यासु शूद्रजः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.287 · p. 39
शब्दस्पर्शरसा रूपं गन्धश्च विषया अमी ।इन्द्रियार्था इन्द्रियं तु स्यादक्षं करणं च तत् ॥ २८७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.946 · p. 118
शाखा स्यान्नृत्तहस्तानां वैचित्र्यात्मा विवर्तना ।पूर्वरङ्गस्तु नान्द्यादिः करणं हरणं समे ॥ ९४६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.997 · p. 124
रतिरिन्द्राणिकाद्यं तु करणं रतिबन्धनम् ।नखक्षतं नखपदं नखाङ्कोऽस्त्री नखव्रणः ॥ ९९७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1112 · p. 137
भेषजभैषज्यौषधमगदो जायुश्च शुक्रवीर्ये तु ।रेतस्तेजश्चेन्द्रियबीजे करणं समे हृद्धृदये ॥ १११२ ॥
गीतिःmetre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1511 · p. 183
सूतवैदेहचण्डाला ब्राह्मण्यां क्षत्रियादिजाः ।शूद्रायां क्षत्रियादुग्रस्तस्यां तु करणो विशः ॥ १५११ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1533 · p. 185
निषादः स्यात् पारशवः कायस्थकरणौ समौ ।तन्तुवायः कुविन्दः स्यात् त्रसरः सूत्रवेष्टनम् ॥ १५३३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1777 · p. 215
सत्त्वं राजस्तमोऽस्पृष्टं मनः करणमिन्द्रियम् ।ज्ञाने तु वित्तिः संवित्तिः प्रतिभा ज्ञानगौरवम् ॥ १७७७ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.13 · p. 277
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.17 · p. 73
शूद्रा तु करणं सैव जारात्कटकरं ततः ।कटकर्मा स वेनी तु वागुरं वेणुकी वटम् ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.55 · p. 76
व्रात्यपूर्वा तु सा मल्लं क्षत्रपूर्वा तु सा नटम् ।प्राक्प्रसूतस्वजातिः सा वरुटं करणश्च सः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.74 · p. 78
करणो लेखको राज्ञां वारकः शकनामकः ।चूचुकः शाकतांबूलक्रमुकादिकविक्रयात् ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.103 · p. 80
नटानां करणानाञ्च चारवृत्तिः स्फुटास्फुटा ।भारुषस्त्वर्चयेन्मातॄः श्मशानादि चतुष्पथम् ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.60 · p. 88
तद्ग्रन्धिस्त्ववका धानी करणं हस्तलेपनम् ।उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.210 · p. 100
आसनं करणं तस्य भेदाः पद्मासनादयः ।उत्तानौ चरणावूर्वोर्न्यस्येन्नाभौ करद्वयम् ॥ २१० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.23 · p. 137
कायस्थः स्याल्लिपिकरः करणोऽक्षरजीवनः ।लेखकोक्षरचुंचुश्च लिबिर्लेखाक्षरस्य या ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.98 · p. 144
करणान्यंगचेष्टाः स्युर्हरणं करणं समे ।व्यंजकोऽभिनयो यस्तु सूच्योऽर्थोऽभिनयस्स च ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.52 · p. 177
देहोऽस्त्री स्त्री तनुर्गात्रं क्षेत्रमङ्गं कलेबरम् ।चतुश्शाखं संहननं शरीरं करणं सिनम् ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.71 · p. 178
स्कन्धो दोः शिखरोंऽसोऽस्त्री बाहा बाहुभुजौ न षण् ।दोर्न स्त्री करपोणिर्ना हरणः करणः प्लवः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.54
करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ ५४ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.796 · p. 92
करणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः ।मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥
metre not recognised
meaningsकाय
धरणिकोश Dharaṇikośa · धरणिदास णश्लोकः Dharaṇikośa 14.3.19 · p. 59
करणं कायकायस्थसाधनेन्द्रियकर्मसु ।बन्धे च वालवादौ च करणः शूद्राविशोः सुतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 कर (syllable split)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.19 · p. 197
स्वर्लोके परमेष्ठिनीह वरुणो गोत्रे तु मूले पदेशाखादौ भ्रमणे स्त्रियां न चरणोऽन्त्ये रासभे च ध्वनौ ।रक्षोभिद्रसयोस्तु पुंसि लवणः कान्तौ स्त्रियामन्यव-त्तद्युक्ते करणस्तु वैश्यवृषलीपुत्रे च काये कृतौ ॥ १९ ॥
शार्दूलविक्रीडितम्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.20 · p. 197
क्षेत्रे साधन इन्द्रियेऽङ्गहरणे क्षेत्रे च गीते तथाक्लीबे स्याद्बवबालवप्रभृतिषु स्यात्त्वन्तिमे हिङ्गुनि ।जी[281a]रे स्याल्लवणान्तरेऽपि जरणं मानान्तरे धारणेक्षोण्यां स्त्री धरणं प्रिये तु रमणः पाटोलमूलेऽन्तिमे ॥ २० ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.411 · p. 82
कर्तना कर्तयत्यर्थे स्यादथेदं नपुंसकम् ।करणं कारणे काये साधने कर्मणीन्द्रिये ॥ ४११ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.412 · p. 82
क्षेत्रेऽपि साधकतमे नाट्यगीतिप्रभेदयोः ।रतबन्धे तथा ज्योतिःशास्त्रज्ञानां च कुत्रचित् ॥ ४१२ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.413 · p. 82
ग्रहवारेक्षणोपायप्रभेदे च निरूप्यताम् ।स्पृष्टाद्युच्चारणाभेदे योगिपद्मासनादिषु ॥ ४१३ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.414 · p. 82
मर्त्यजात्यन्तरे तु द्वे शूद्रायां वैश्यसम्भवे ।करुणा तु स्त्रियां चित्तवृत्तौ क्लिष्टेषु जन्तुषु ॥ ४१४ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.112 · p. 175
करणं साधने काये आसने योगिनापि ।इन्द्रिये नाट्यभेदे च वालवादावपीरितम् ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.27 · p. 209
करणं कर्मणि क्षेत्रे हेतौ च साद्वरादिषु ।हस्तलेपे नृत्यगीतप्रभेदे साधनेऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.28 · p. 209
कायस्थेन्द्रियकायेषु क्लीबं ना वर्णसङ्करे ।कल्याणं मङ्गले क्लीबं तथा चाक्षयकाञ्चते ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2071 · p. 251
कैतवं कपटे द्यूते कारणं हेतुजन्मनोः ।बबादौ कारणे काये साधने रतिबन्धने ॥ २०७१ ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2072 · p. 251
नाट्यभेदेन्द्रियध्यानस्पृष्टाद्युञ्चारणेषु च ।गीतके कर्मणि ज्ञाने करणं द्वादशस्वपि ॥ २०७२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.122 · p. 133
उन्मूलनेऽप्युद्धरणमुष्णं दक्षेऽपि नाऽऽतपे ।साधने गीतनृत्यप्रभेदे कायस्थकर्मणि ॥ १२२ ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.123 · p. 133
करणं पुसि सङ्कीर्णे कल्याणं काञ्चने शुभे ।कृष्णो वर्णे हरौ व्यासे कृष्णं मरिचलोहयोः ॥ १२३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.9 · p. 250
करणं कारणे काये साधने बवकादिषु ।स्पृष्टाद्युच्चारणाभेदध्यानपद्मासनादिषु ॥ ९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.10 · p. 250
रतबन्धे नाट्यभेदे गीतके कर्मणीन्द्रिये ।कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले ॥ १० ॥
अनुष्टुप्
doubtful

करण as a meaning in nānārtha verses