कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सत्य

satyaक्ली · neut.

In 17 kośas: 27 synonym verses, 7 as a nānārtha head word, 39 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.176 · p. 15
सत्यं सम्यक्समीचीनमृतं तथ्यं यथातथम् ॥ २६४ ॥यथास्थितं च सद्भूतेऽलीके तु वितथानृते ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.40
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.144 · p. 18
ऋतं सत्यं समीचीनं सम्यक् तथ्यं यथातथम् ।अलीकं वितथं मिथ्या मृषा स्यादनृतं तथा ॥ १४४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.99 · p. 259
अश्वत्थो विष्णुसद्मार्थः पवित्रं गुह्यपत्रकः ।मङ्गल्यः श्यामलो विप्रः सत्यः सेव्यः शुभप्रदः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.73 · p. 447
चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् ।सत्यं तथ्यं समीचीनमृतं सत्यं यथातथम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.108 · p. 51
सत्यं कृतयुगं दिव्यवत्सराणां भवेदिदम् ।चतुःसहस्राणि चतुःशत्या संध्यास्य सम्मता ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.55 · p. 71
सत्यं तथ्यं भूतं सम्यगृतं स्यात्समीचीनम् ।सदथाव्ययं यथार्थं यथातथं स्याद्यथास्थितं च मतम् ॥ ५५ ॥
उद्गीतिः
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.181 · p. 27
नामधेयं प्रिये वाक्ये चटु चाटु यथाक्रमम् ।सत्यं यथातथं तथ्यं सद्भूतं च यथास्थितम् ॥ १८१ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.409 · p. 77
वाणिज्यवृत्तावनृतं सत्यं सत्यानृतं तथा ।ऋणे त्वृणो महाकष्टमुद्धारः पर्युदञ्चनम् ॥ ४०९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.133 · p. 32
असत्यं वितथं कूटं मिथ्यालीकं मृषानृतम् ।सत्यं तथ्यमृतं सम्यक् सूनृतं च यथास्थितम् ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.58 · p. 9
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं चतुर्थकम् ।स्यादकिञ्चनता चैते पञ्चधाः कीर्त्तिता यमाः ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.382 · p. 49
प्रियप्रायं चटु तु स्यात् प्रियसत्यं तु सूनृतम् ।अथ सत्यं तथा सम्यक् समीचीनं यथास्थितम् ॥ ३८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टु (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.63 · p. 5
कौशल्यानन्दनः श्रीशः सत्यो दशमुखान्तकः ।पिता दशरथश्चास्य भवेत् पङ्क्तिरथोऽपि सः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.295 · p. 21
युगांशको मासमानः कालग्रन्थिश्च तर्वटः ।सत्यं त्रेता द्वापरश्च कलिरेवं चतुर्युगम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.296 · p. 21
कृतं सत्यं सत्ययुगं त्रेता यज्ञियमेव च ।द्वापरः पार्थनीयश्च (?) झर्झरः कर्मजः कलिः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.325 · p. 23
सत्यमुत्तरपक्षोऽपि समाधिर्वाद इत्यपि ।भ्रमो मिथ्यामतिर्भ्रान्तिर्मतिभ्रान्तिमतिर्भ्रमः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.398 · p. 28
अविस्पष्टं भवेन्म्लिष्टं वितथं चानृतं मृषा ।अथ सत्यमृतं सम्यक् तथ्यावितथमित्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.51 · p. 7
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।स्रष्टृता चात्मसंवित्तिरप्यधिष्ठातृतेत्यमी ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.78 · p. 11
कालः कामः सखा सत्यो विश्वेदेवा अमी दश ।प्राभास आपः प्रत्यूषो धरः सोमो ध्रुवोऽनिलः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.935 · p. 117
ग्रस्तं सत्यमृतं तथ्यमसत्यं वितथानृते ।अलीकं सान्त्वमुख्यानि पदानि त्रिषु तद्वति ॥ ९३५ ॥
अनुष्टुप्
genderविadj.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 4 · p. 531
सत्या जयाश्च पितरो वैकुण्ठा हरयोऽजिताः ।मरीचयः सुशर्माणः स्वरूपा अमृतौजसः ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात ॐ Tantrābhidhāna 2.1.1 · p. 5
ओङ्कारो वर्त्तुलस्तारो वामश्च हंसकारणम् ।मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.36 · p. 38
सत्योऽत्री(शसः श्री)शो ह्लादिनी च वामगुल्फगतस्तथा ।शूलः कुबेरो दाता च द-कारो धादिमः स्मृतः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
धाता च धादिमः सत्यः कुबेरो ह्लादिनी ततः ।अत्रीशो वरदः शूलो वामगुल्फो द-कारकः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.47 · p. 6
बहुरूपोऽर्धमकुटो दशबाहुर्दशाव्ययः ।ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.209 · p. 100
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसंग्रहः ।यमाः स्युर्नियमाः शौचसंतोषतपआदयः ॥ २०९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.3 · p. 196
सत्यं तथ्यमृतं सम्यक् समीचीनं तथार्थवाक् ।कर्कशे परुषो रूक्षो मठरः खोरणः खरः ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.154
रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास यश्लोकः Dharaṇikośa 25.3.13 · p. 159
सत्यं युगे च लोके स तपोलोकात्परस्तु यः ।सत्या स्यात्सत्यभामायां सत्यं शपथतथ्ययोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.40 · p. 292
लब्धव्यवा[38a]चि त्रितयेऽप्यथार्घ्यम्अर्घार्हयोग्यार्थकमन्यलिङ्गम् ।सत्यं तु तथ्ये शपथे कृते त-द्युक्तेऽन्यवत्पुंसि तु लोकभेदे ॥ ४० ॥
इन्द्रवज्राmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1450 · p. 166
आरोग्ये क्ली तु सत्यं स्याच्छपथे तथ्य एव च ।त्रि तु तद्वति सत्या तु सत्यभामाह्वये स्त्रियाम् ॥ १४५० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.35 · p. 260
अथ सन्ध्या पितृप्रस्वां युगसन्धिनदीभिदोः ।सत्यं कृतयुगे दिव्ये तथ्ये त्रिषु च तद्वति ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2022 · p. 245
सत्यं तु शपथे तथ्ये परमार्थेऽभिधेयवत् ।स्वरोऽकाराद्युदात्तादिषड्जादिषु जनस्वने ॥ २०२२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.95 · p. 237
समा स्त्री वत्सरे साधुसर्वतुल्येषु वाच्यवत् ।परमार्थेऽर्थवत्सत्यं षण्डः शपथतथ्ययोः ॥ ९५ ॥
अनुष्टुप्

सत्य as a meaning in nānārtha verses