संवाहन
saṃvāhanaक्ली · neut.In 7 kośas: 6 synonym verses, 3 as a nānārtha head word.
genderक्लीneut.
साचिः स्त्रियां तिर्यगर्थे संप्रोक्तं साचि चाव्ययम् ।संवाहनं मर्दनं स्याच्छ्लाघना कत्थना स्त्रियौ ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
व्यवसायोद्यमोद्योगाभियोगोत्साहविक्रमाः ।खुरली तु श्रमोऽभ्यासः संवाहनं तु मर्दनम् ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderक्लीneut.
संवाहनं मर्दनञ्च स्यात् संवहनमित्यपि ।गुप्तस्थितौ विनाशस्तु स्याददर्शनमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
संवाहनं मर्दनं स्यात् खल्या तु खलसंहतिः ।आपूपिकं शाष्कुलिकमित्याद्यं भूम्न्यचेतसाम् ॥ १७३८ ॥
अनुष्टुप्
genderक्लीneut.
संयामसंयमौ यामो वियामो वियमो यमः ।संवाहनं मर्दनं स्यात् पर्यवस्था विरोधनम् ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
विहननमुक्तं विहतौ वैरिबले तूलधूनने तद्वत् ।संवाहनं तु वाहनपादविमर्दन उदीरितं प्राज्ञैः ॥ २४ ॥
गीतिः
सदादानो गन्धहस्तिन्यैरावतगणेशयोः ।सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च ।सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥समापनं परिच्छेदप्रमापनसमाप्तिषु ।सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् ।स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् ।समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् ।भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् ।सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् ।सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः ।सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 द (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
doubtful